इदं च ‘ धातुनोक्तक्तिये नित्यं कारके कर्तृतेष्यते ’ इत्युक्तपथेन धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते । यदि तु कृताकृत-विभागानुपपत्तेर्यत्नार्थकात्कृञस्तृति सविषयार्थकधातूत्तरकर्तृप्रत्ययस्या-श्रयत्वे निरूढलक्षणया यत्नाश्रय: कर्तृपदार्थ: ,स एव च कर्तृप्रत्ययानां मुख्यार्थ: , अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीयमानोत्प्रेक्षा संभवत्येव ।
अमुमेव चाशयं मनसिकृत्य मस्मटभट्टै: ‘ स्वस्वहेत्वन्वयस्योक्ति: ’- इत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाह्लते-
‘ उन्नतं पदमवाप्य यो लघुर्लीलयैव स पतेदिति ध्रुवम्‍ । शैलशेखरगतो दृषत्कणश्चारुमारुतधुत: पतत्यध: ॥ ’
इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुम वा इत्यस्याभावादुत्प्रेक्षाया असंभवे बोधननिदर्शना युक्ता ।
‘ हालहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम्‍ । व्यालधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम्‍  ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP