निदर्शनालंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादा-
नात् अस्तु नाम उपात्तयोरार्थोऽभेद: । पदार्थनिदर्शनाया तूपमानशोभादेर-न्यतरस्यैवोपात्तत्वम् , न द्वयोरिति चेत् । शोभाशब्देन शोभात्वेन द्वयोरप्यु-पात्तत्वात् । नह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं येना-व्याप्ति: स्यात् । यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया एव, न पदार्थ-निदर्शनाया: । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो
लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदार्थनिदर्श-नायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थतेति चेत् , न । वाक्यार्थ-निदर्शनायां रूपकस्य गुणीभूतत्वेन तद्ध्वनित्वायोगात् । अन्यथा गुणीभूत-योपमया रूपकस्यापि गतार्थतापत्ते: । किं च अस्याश्च शरीरं तादृशपदार्थयो: परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेद: ,
अतिशयोक्तेश्च । निगरणानिगरणाभ्यां च तयोर्विशेष इत्यन्यत् ।
एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव त्वा-मन्तरात्मनि-’ इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनूद्य शोधयन्त इत्यत्र शोधयन्तीति विधाने, अर्धयो: पौर्वापर्ये च न सौन्दर्यहानि: । रूपकादौ तूच्यमाने व्यड्रयकक्षोद्देश्यविधेयभावस्यापि वाच्यकक्षोहेश्यविधेयभावा-नुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्तेरिति सुधीमिराकल-नीयम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP