अलंकारसर्वस्वकारस्तु-
‘ त्वत्पादनखरत्नानां यदलक्तकमार्जनम्‍ । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥ ’
इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च-‘ यत्र तु प्रकृत-वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्ति-मूला निदर्शनैव युक्ता ’ इति । तन्न । वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वा-पत्ते: । न चेष्टापत्ति: । वाक्यार्थनिदर्शनैव निर्वास्यताम्‍ , स्वीक्तियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात्‍ । युक्तं चैतत्‍ । पदार्थरूपके मुखं चन्द्र इत्यादौ क्लप्रस्य श्रौतस्याभेदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात्‍ । ‘ इन्दुशोभां वहत्यास्यं ’ इत्यादिपदार्थनिदंर्शनायामभेदारोपस्या-
भावात्‍ तज्जीवातुत्वायोगाच्च । रूपके बिम्बनं नास्तीति तु शपथमात्रम्‍ , युक्त्यभावात्‍ । अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनाया: सावकाशत्वाच्च ।
यत्तु तेनैव लक्षणं निर्मितम्‍-‘संभवता असंभवता वा वस्तुसंबन्धेन गम्यमानमौपम्यं निदर्शना ’ इति । तदपि न । रूपकातिशयोक्त्यादिष्वति-व्यापनात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP