परे तु ‘ त्वत्पादनखरत्नानां-’ इत्यत्र दृष्टान्तालंकारमाहु: । तदप्यसत्‍ । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्त-त्वात्‍ । तस्मात६ ‘ त्वत्पादनखरत्नानां- ’ इत्यत्र वाक्यार्थरूपकमेव, न

निदर्शनेति स्थितम्‍ । एवमसंभवद्वस्तुसंबन्धनिबन्धना पदार्थ-वाक्यार्थ-निदर्शना दर्शिता ।
‘ चूडामणिपदे धत्ते योऽम्बरे रविमागतम्‍ । सतां कार्यातिथेयीति बोधयन्गृहमेधिन: ॥ ’
अत्र ‘ कारीषोऽग्निरध्यापयति ’ ‘ भिक्षा वासयन्ति ’ इतिवदानुकूल्ये णिच:
प्रयोगात्‍ गिरेश्च सूर्योदयदेशावच्छिन्नशिरस्कतारूपस्य गृहमेधिगतसदा-तिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात्‍ मया इवान्येनाप्यतिथि-सेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलपि निदर्शना संभवति ।
न च बोधयन्निव बोधयन्निति प्रतीयमानेयत्मुप्रेक्षा ‘ व्यालिम्पति तमोऽ-ड्रानि नभो वर्षति कृज्जलम्‍ ’ इत्यादाविवेति वाच्यम्‍ । वस्तुन: संभवेनैव तस्या अप्रसक्ते: इत्याहु: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP