निदर्शनालंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यत्त्वलंकारसर्वस्वकारानुसारिणा कुवलयानन्दकृतोक्तम्-
‘ वाक्यार्थयो: सदृशयोरैक्यारोपो निदर्शना । यद्दातु: सौम्यता सेयं पूर्णेन्दोरकलड्कता ॥
इति । तत्तु तन्मतदूषणेनैव निवेदितरहस्यमिति न पुनराकुलीक्तियते । यदि तु
‘ त्वत्पादनखरत्नानि यो रञ्जयति यावकै: । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि स: ॥ ’
इति पद्यं निर्मीयते तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना इयं तु प्रतीयमानेति वाच्यम् । ‘ मुखं चन्द्र इव ’ इति वाच्योपमा ‘ मुखं चन्द्र: ’ इति प्रतीयमाना , न त्वलंकारान्तरम् इत्यस्यापि सुवच-त्वात् । एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शना-जीवितम् । स च कर्त्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्श-नायाम् । अत एव मम्मटभट्टैरुदाह्लतम्-
‘ क्क सूर्यप्रभवो वंश: क चाल्पविषया मति: । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ ’ इति ।
नन्वत्र निदर्शना नैव संगच्छते । विषयिण उपादानेऽपि विषयस्यानुपा त्तत्वात् । उभयोपादानं हि तत्रावश्यकम् । अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतव्द्यक्तमुपपादयिष्याम: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP