तृतीयं बाम्हणं - भाष्यं २

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- ते देवाश्चासुराश्च प्रजापतिशरीरस्था एषु लोकेषु निमित्तभुतेषु स्वाभाविकेतरकर्मज्ञानसाध्येष्वस्पर्धन्त स्पर्धां कृतवन्त: । देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा । कदाचिच्छास्त्रजनितकर्मज्ञानभावनारूपा वृत्ति: प्राणानामुद्भवति । यदा चोद्भवति तदा द्दष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते ॥

भाष्यं :--- स देवानां जयोऽसुराणां पराजय: । कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयत आसुर्या । सो‍ऽसुराणां जयो देवानां पराजय:  । एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्ते: । असुरजयेऽधर्मभूयस्त्वादपकर्ष आ

स्थावरत्वप्राप्ते: । उभयसाम्ये मनुष्यत्वप्राप्ति: ॥

भाष्यं :--- त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहुलुयादसुराणां किं कृतवन्त इत्युच्यते । ते देवा असुरैरभिभुयमाना ह किलोचुरुक्तवन्त: । कथम । हन्तेदानीमस्मिन्यज्ञे ज्योतिष्टोम उद्नीर्थनोद्नीथकर्मपदार्थकर्तृस्वरूपाश्वयणेनात्ययामातिगच्छाम: । असुरानभिभूय स्वं देवभाव्म शास्त्रप्रकाशितं प्रतिपद्यामह इत्युक्तवन्तोऽन्योन्यम । उद्बीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम । कर्म वक्ष्यमाणं मन्त्रजपलक्षणं विधित्स्यमानं तदेतानि जपेदिति । ज्ञानं त्विदमेव निरूप्यमाणम ॥

भाष्यं :---  नन्विदमभ्यारोहजपविधिशेषोऽर्थवादो न ज्ञाननिरूपणपरम । न । य एवं वेदेति वचनात । उद्नीथप्रस्तावे पुराकल्पश्रवणादुद्नीर्थविधिपरमिति चेत । न । अप्रकरणात । उद्नीथस्य चान्यत्र विहितत्वात । विद्याप्रकरणत्वाच्चस्य । अभ्यारोहजपस्य चानित्यत्वात । एवंवित्प्रयोज्यत्वात । विज्ञानस्य च नित्यवच्छ्रवणात । “तद्धैतल्लोकजिदेव” इति च श्रुते: ॥

भाष्यं :--- प्राणस्य वागादीनां च शुद्धयशुद्धिवचनात । न हयनुपास्यत्वे प्राणस्य शुद्धिवचनं वागादीनां च सहोपन्यसानामशुद्धिवचनं वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेतोपपद्यते । मृत्युमतिक्रान्तो दीप्यत इत्यादि फलवचनं च प्राणस्वरूपापत्तेर्हि फलं तद्यद्वागाद्यग्न्यादिभाव: ॥

भाष्यं :--- भवतु नाम प्राणस्योपासनं न तु विशुद्धयादिगुणवत्तेति । ननु स्याच्छुतत्वात । नस्यादुपास्यत्वे स्तुत्यर्थत्वोपपत्ते: । न । अविपरीतार्थप्रतिपत्ते: श्रेय: प्राप्त्युपपत्तेर्लोकवत । यो हविपरीतमर्थ प्रतिपद्यते लोके स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते न विपरितार्थप्रतिपत्त्या । तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेय:प्राप्तिरुपपन्न न विपर्यये । न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणमस्ति । न च तद्विज्ञानस्यापवाद: श्रूयते । तत: श्रेय: प्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे ॥

भाष्यं :--- विपर्यये चानर्थप्राप्तिदर्शनात । यो हि विपर्ययेणार्थ प्रतिपद्यते लोके पुरुषं स्थाणुरित्यमित्रं मित्रमिति वा सोऽनर्थम प्राप्नुवन्द्दश्यते । आम्तेश्वरदेवतादीनामप्ययथार्थानामेव चेदग्रहणं श्रुतितोऽनर्थप्राप्यर्थ शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव । न चैतदिष्टम । तस्माद्यथाभूतानेवाऽऽत्मेश्वरदेवतादीन्ग्राहयत्युपासनार्थं शास्त्रम ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP