तृतीयं बाम्हणं - भाष्यं १२

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- वयं चान्नमन्तरेण स्थातुं नोत्सहामहे । अतोऽनु पश्चान्नोऽस्मानसिमन्नन्न आत्मार्थे तवान्न आभजस्वाऽऽभजयस्व । णिचोऽश्रवणं छान्दसम । अस्मांश्चान्नभागिन: कुरु । इतर आह । ते युयं यद्यन्नार्थिनो वै मामभिसंविशत समन्ततो मामाभिमुख्येन निविशतेत्येवमुक्तवति प्राणे तथेत्येवमिति तं प्राणं परिसमन्तं परिसमन्तान्न्यविशन्त निश्चयेनाविशन्त त्म प्राणं परिवेष्टय निविष्टवन्त इत्यर्थ: ॥

भाष्यं :---  तथानिविष्टानां प्रणानुझया तेषा प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति न स्वातन्त्र्येणान्नसंबन्धो वागादीनाम । तस्माद्युक्तमेववधारणमनेनैव तदद्यत इति । तदेव चाऽऽह । तस्माद्यस्मात्प्राणाश्रयतयैव प्रणानुज्ञयाऽभिसंनिविष्टा वागादिदेवतास्तस्माद्यदन्नमनेन प्राणेनात्ति लोकस्तेनान्नेनैता वगाद्यास्तुप्यन्ति  वागाद्याश्रयं प्राणं यो वेद वागादयश्च प्राणाश्रया इति तमष्येवमेव ह वैत्स्वा ज्ञत्य अभिसंविशन्ति वागादय इव प्राणम । ज्ञातीनामाश्रयणीयो भवतीत्यभिप्राय: ॥

भाष्यं :--- अभिसंनिविष्टानां च स्वानां प्राणवदेव वागादीनां स्वान्नेन भर्ता भवति । तथा श्रेष्ठ: पुरोऽग्रत एता गन्ता भवति । वागादीनामिव प्राण: । तथाऽन्नादोऽनामयावीत्यर्थ: । अधिपतिरधिष्ठाय च पालयिता स्वतन्त्र: पति: प्राणवदेव वागादीनां य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति ॥

भाष्यं :---  किं च य उ हैवंविदं प्रणविदं प्रति  स्वेषु ज्ञातीनां मध्ये प्रति: प्रतिकूलो बुभूषति प्रतिस्पर्धी भवितुमिच्छति सोऽसुरा इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तो भार्येभ्यो भरणियेभ्यो भवति भर्तुमित्यर्थ: । अथ पुनर्य एव ज्ञातीनां मध्य एतमेवंविदं वागादय इव प्रणमन्वनुगतो भवति यो वैतमेवंविदमन्वेवानुवर्तयन्नेवाऽऽत्मीयान्भार्यान्बुभूर्षति भर्तुमिच्छति यथैव वागादय: प्राणानुवृत्याऽऽत्मबुभूर्षव आसन । स हैवालं पर्याप्तो भार्येभ्यो भरणीयेभ्यो भवति भर्तुं नेतर: स्वतन्त्र: । सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम ॥१८॥

श्रुति :--- सोऽयास्य आङिगरसोऽङगाना रसस्तस्माद्यस्मात्कस्माच्चाङगात्प्राण उत्क्राम्ति तदेव तच्छुष्यत्येष हि वा अङगाना रस: ॥१९॥
पान १११

भाष्यं :---  कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याऽऽडगिरसत्वमुपन्यस्ते सोऽयास्य आङागिरस इति । अस्माद्धेतोरयमाङगिरस इत्याङगिरसत्वे हेतुर्नोक्तस्तद्धेतुसिद्धयर्थमारभ्यते । तद्धेतुसिद्धयायत्तं हि कार्यकरणात्मत्वं प्राणस्य अनन्तरं च वागादीनां प्राणाधीनतोक्ता । सा च कथमुपादनीयेत्याह । सोऽयास्य आङगिरस इत्यादि यथोपन्यस्तमेवोपादीयत उत्तरार्थम । प्राणो वा अङगानां रस इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुन: स्मरयति । कथं प्राणो वा अङगानां रस  इति ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP