तृतीयं बाम्हणं - भाष्यं ९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- कथमयमास्येऽन्तरित्यास्ये मुखे य आकाशस्तस्मिन्नन्तरयं प्रत्यक्षो वर्तत इति । सर्वो हि लोको विचार्याध्यवस्यति । तथा देघा: । यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवै: \ तस्मात्स प्राणोऽयास्यो विशेषानाश्रयाच्चासक्त सञ्जितवान्वागादीन ॥

भाष्यं :--- अत एवाऽऽङगिरस आत्मा कार्यकरणानाम । कथमाङगिरस: । प्रसिद्धं हयेतदङगानां कार्यकरणलक्षणानां रस: सार आत्मेत्यर्थ: । कथं  पुनरङगरसत्वं तदपाये शोषप्राप्तेरिति वक्ष्याम: । यस्माच्चायमङगरसत्वाद्विशॆषानाश्रितत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च तस्माद्वागादीनपास्य प्राण एव आत्मत्वेनाऽऽश्रयितव्य इति वाक्यार्थ: । आत्मा हयात्मत्वेनोपगन्तव्योऽविपरीतओधाच्छ्रेय: प्राप्तेर्विपर्यये चानिष्टप्राप्तिदर्शनात ॥८॥

श्रुति :---  सा वा एषा देवता दूर्नाम दूर हयस्या मृत्युर्दूर ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥९॥

भाष्यं :--- स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति । ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङगवत्प्राणस्याऽऽसङगास्पदत्वाभावेन । बाढम । किंत्वाङगिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुद्धताशङक्यत इत्याह शुद्ध एव प्राण: । कुत: । सा वा एषा देवता दूर्नाम यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुरास्तं परामृशति । सेति । सैवैषा येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिताऽयमास्येऽन्तरिति । देवता च सा स्यात । उपासनक्रियाया: कर्मभावेन गुणभूतत्वात ॥

भाष्यं :--- यस्मात्सा दूर्नाम दूरित्येवं ख्याता । नामशब्द: ख्यापनपर्यांय: । तस्मात्प्रसिद्धाऽस्या विशुद्धिर्दूर्नामत्वात । कुत: पुनर्दूर्नामत्वमित्याह । दूरं दूरे हि यस्मादस्या: प्राणदेवताया मृत्युरासङगलक्षण: पाप्माऽसंश्लेषधर्मित्वात्प्राणस्य समीपस्थस्यापि दूरता मृत्योस्तस्माददूरित्येवं ख्यातिरेव प्राणस्य विशुद्धि ज्ञापिका । विदुष: फलमुच्यते । दूरं ह वा अस्मान्मृत्युर्भवति । अस्मादेवंविदो य एवं वेद तस्मादेवमिति प्रकृतं विशुद्धिगुणोपेतं प्राणमुपस्त इत्यर्थ: ॥

भाष्यं :--- उपासनं नामोपास्यार्थवादे यथा देवतादिस्वरूपं शृत्या ज्ञाप्यते तथा मनसोपनगम्याऽऽसनम चिन्तनं लौकिकप्रत्ययाव्यवधानेन यावत्तद्देवतादिस्वरूअपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत । “देवो भूत्वा देवानप्येति किंदेवतोऽस्यां प्राच्यां दिश्यासि” इत्येवमादिश्रुतिभ्य: ॥९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP