तृतीयं बाम्हणं - भाष्यं १४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :---  एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्सान्म: सामत्वम । यद्वेव सम: प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकै: समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्न: सायुज्य सलोकतां य एवमेनत्साम वेद ॥२२॥

भाष्यं :--- एष उ एव साम । कथमित्याह । वाग्यै सा । यत्किंत्स्त्रीशब्दाभिधयं सा वाक । सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम साशब्द: । तथाऽम एष प्राण; सर्वपुंशब्दाभिधेयवस्तुविषयोऽम:शब्द: । “केन पौंस्नानि नामान्यान्पोषीति प रणेनेति बूयात्केन मे स्त्रीनामानीति वाचा ति श्रुत्यत्नरात । वाक्प्राणाभिधानभूतोऽयं सामशब्द: । तथा प्राणनिर्यर्त्यस्वरादिसमुदायमात्रं गीति: समाशब्देनाभिधीयते । अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किंचित्स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च । एष उ एव प्राण: साम । यस्मात्साम सामेति वाक्प्राणात्मकं सा चामश्चेति तत्तस्मात्साम्नो गीतिरूपस्य स्वरादिसमुदायस्य सामत्वं तत्प्रगीतं विख्यांत भुवि ॥

भाष्यं :---  यदु एव समस्तुल्य: सर्वेण बक्ष्यमाणेन प्रकारेण तस्माद्वा सामेत्यनेन संबन्ध: । वाशब्द: सामशब्दलाभनिमित्तप्राकारान्तरनिर्देशसामर्थ्यलभ्य: । केन पुन: प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते । सम: प्लुषिणा पुत्तिकाशरीरेण समो मशकेन मशकशरीरेण समो नागेन हस्तिशरीरेण सम एभिस्त्रिभिर्लोकैस्त्रैलोक्यशरीरेण प्राजापत्येन समोऽनेन जगद्रूपेण हैरण्यगर्भेण । पुत्तिकादिशरीरेषु गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य । न पुन: शरीरमात्नपरिमाणेनैवामूर्तत्वात्सर्वगतत्वाच्च । न च घटप्रासादादिप्रदीपवत्संकोचविकासितया शरीरेषु तावन्मात्रं समत्वम । “ त एते सर्व एव समा: सर्वेऽनन्ता: ” इति श्रुते: ॥

भाष्यं :---  सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते । एवं समत्वात्सामाख्यं प्राणं वेद य: श्रुतिप्रकाशितमहत्त्वं तस्यैत्फलमश्नुते व्याप्नोति । साम्न: प्राणस्य सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वं सालोक्यं समानलोकतां वा भावनाविशेषतो य एवमेतद्यथोक्तं साम प्राणं वेद । आ प्राणात्माभिमानाभिव्यक्तेरुपास्त इत्यर्थ: ॥

श्रुति :---  एष उ वा उद्नीथ: प्राणो वा उत्प्राणेन हीद सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्नीथ: ॥२३॥

भाष्यं :--- एष उ वा उद्नीथ: । उद्नीथो नाम सामावयवो भक्तिविशेषो नोद्नानम । सामाधिकारात । कथमुद्नीथ: प्राण: । प्राणो वा उत्प्राणेन हि यस्मादिदं सर्वं जगदुत्तब्धमूर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थ: । उत्तब्धार्थावद्योतकोऽयमुच्छब्द: प्रणगुनाभिधायक: । तस्मादुत्प्राणो वागेव गीथा शब्दविशेषत्वादुद्नीथभक्ते: । गायते: शब्दार्थत्वात्सा वागेव । न हयुद्नीथमक्ते: शब्दव्यतिरेकेण किंचिद्रूपमुत्प्रेक्ष्यते तस्माद्युक्तमवधारणं वागेव गीथेति । उच्च प्राणो गीथा च प्राणतन्त्रा वागित्युभयमेकेन शब्देनाभिधीयते स उद्नीथ: ॥२३॥

श्रुति :--- तद्धापि ब्रम्हादत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङगिरसोऽन्येनोदगायदिति वाचा च हयेव स प्राणेन चोदगायदिति ॥२४॥

भाष्यं :--- उक्तार्थदाढर्यायाऽऽख्यायिकाऽऽरभ्यते । तद्भापि तत्तत्रैतस्मिन्नुक्तेऽर्थे हाप्याख्यायिकाऽपि श्रूयते ह स्म । ब्रम्हादत्तो नामत: । चिकितानस्यापत्यं चैकितानस्तदपत्यं युवा चैकितानेयो राजानं यज्ञे सोमं भक्षयन्नुवाच । किमयं चमसस्थो मया भक्ष्यमाणो राजा त्यस्य तस्य ममानृतवादिनो मूर्धानं शिरो विपातयताद्विस्पष्टं पातयतु । तोरयं तातङादेश आशिषि लोडविपातयतादिति । यद्यहमनृतवादी स्यामित्यर्थ: ॥

भाष्यं :--- कथं पुनरनृतवादित्वप्राप्तिरिति । उच्यते । यद्यदीतोऽस्मा प्रकृतात्प्राणाद्वाक्यसंयुक्तादयास्यो मुख्यप्राणाभिधायकेनायास्याङगिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्र उद्नाता सो‍ऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेनोदगायदुद्नानं कृतवान । ततोऽहमनृतवादी  स्यां तस्य मम देवताविपरीतप्रतिपत्तुर्मूर्धानं विपातयत्वित्येवं शपथं चकार । इति विज्ञाने प्रत्ययदाढर्यकर्तव्यतां दर्शयति । तमिममाख्यायिकानिर्धारितमर्थं स्वने वचसोपसंहरति श्रुति: । वाचा च प्राणप्रधानया प्राणेन च स्वस्याऽऽत्मभूतेन सोऽयास्य आङगिरस उद्नातोदगायदित्येषोऽर्थो निर्धारित: शपथेन ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP