तृतीयं बाम्हणं - भाष्यं १७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


अर्थ :--- आतां यानंतर पवमानांचाच अभ्यारोह [सांगितला जातो -] तो प्रस्तोता सामाला आरंभ करितो. तो ज्या वेळीं त्याला आरंभ करील त्या वेळीं त्यानें ‘असतो मा सद्नमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्माऽमृतं गमय’ या तीन याजुषांचा जप करावा. ‘असतो मा सद्नमय’ असें जें तो मंत्र म्हणाला त्याचा अर्थ असा - मूत्यूच असत व अमृत सत आहे. यास्तव मृत्यूपासून मला अमृताला पोंचीव, मला अमृत कर, असेंच हा मंत्र सांगतो. ‘तमसो मा जोतिर्गमय’ - या वाक्याचा  अर्थ गुप्तसा नाहीं. यास्तव तो यथाश्रुतच आहे.  नंतर बाकीचीं जीं स्तोत्रें त्यांत स्वत:साठीं अन्नाद्याचें आगान करावें. ज्या अर्थीं तो हा असें जाणणारा उद्नाता आपल्यासाठीं किंवा यजमानासाठीं ज्या कामाची इच्छा करितो त्याचें आगान करितो; त्याला गानानें साधितो ता अर्थीं यजमानानें, प्रस्तोता त्या सोत्रांचा प्रयोग करूं लागला असतां, ज्या उपभोगाची कामना असेल त्याची इच्छा - प्रार्थना करावी, तें हें प्राणदर्शन लोकप्राप्तीचें साधनच आहे. कारण जो अशा रीतीनें हें जाणतो, या सामाख्य प्राणाची उपासना करितो, त्याला अलोकतेची आशा नसते. ॥२८॥ (३)

भाष्यं :---  एवं प्राणिविज्ञानवतो जपकर्म विधित्स्यते । यद्विज्ञनवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम् । अथानन्तरं यस्माश्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म । अतस्तस्मात्तद्विधी यत इह । तस्य चोद्नीथसंवन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात् पवमानेषु त्रिष्वपि कर्त व्यतायां प्राप्तायां पुन: कालसंकोचं करोति । स वै खलु प्रस्तोता साम प्रस्तौति । स प्रस्तोता यत्र यस्मिन्काले साम प्रस्तुयात्प्रारभेत तस्मिन्काल एतानि जपेन् । अस्य च जपकर्मण आख्याऽभ्यारोह इति । आभिमुख्येनाऽऽरोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोह: । एतानीति बहुवचनात्त्रीणि यजूंपि । द्वितीयानिर्देसादब्राम्हाणोत्पन्नत्वाच्च यथापठित एक स्वर: प्रयोक्तव्यो न मान्त्र: ॥

भाष्यं :--- याजमानं जपकर्म । एतानि  तानि यजूंषि ‘असतो मा सद्नमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्माऽमृतं गमय’ इति । मन्त्नाणामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राम्हाणं मंत्रार्थम् । स मन्त्रो यदाह यदुक्तवान्कोऽसावर्थ इत्युच्यते ‘असतो मा सद्नमय’ इति । मृत्युर्वा असत्स्वाभाविककर्मविज्ञाने मृत्युरित्युच्यते । असदत्यन्ताधोभावहेतुत्वात् । सदमृतं । सच्छास्त्रीयकर्मविज्ञाने अमरणहेतुत्वादमृतम् । तस्मादसतो मा मां कर्मणो ज्ञानाच्चा सच्छास्त्रीयकर्मविज्ञाने गमय देवभावसाधनात्मभावमापादयेत्यर्थ: ॥

 भाष्यं :---  तत्र वाक्यार्थामाह अमृतं मा कुर्वित्येवैतदाहेति । तथा तमसो मा ज्योतिर्गमयेति । मृत्युर्वै तम: सर्वं हयज्ञानमावरणात्मकत्वात्तमस्तदवे च मरणहेतुत्वान्मृत्यु: । ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् । प्रकाशात्मकत्वाज्ज्ञानं ज्योतिस्तदेवामृतमविनाशात्मकत्वात्तस्मात्तमसो मा ज्योतिर्गमयेति । पूर्ववन्मृत्योर्माऽमृतं गमयेत्यादि अमृंत मा कुर्वित्येवैतदाह । दैवं प्राजापत्यं फलभावमापादयेत्यर्थ: । पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति । द्वितीयस्तु साधनभावादप्यज्ञानरूपात्साध्यभावमापादयेति । मृत्योर्माऽमृंत  गमयेति पूर्वयोरेव मन्त्रयो: समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव । नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति यथाश्रुत एवार्थ: ॥

भाष्यं :---  याजमानमुद्रानं कृत्वा पवमानेषु त्रिष्वथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् प्राणविदुद्नाता प्राणभूत: प्राणवदेवा यस्मात् स एष उद्नाता एवं प्राणं यथोक्तं वेत्त्यत: प्राणवदेव तं कामं साधयितुं समर्थस्तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत । यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत । यस्मात्स एष एवंविदुदगातेति तस्माच्छब्दात्प्रागेव संबध्यते । आत्मने वा यजमानाय वा यं कामं कामयत इच्छत्युद्नाता तमागायत्यागानेन साधयति ॥

भाष्यं :---  एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम् । तत्र नास्त्याशङकासंभव: । अत: कर्मापाये प्राणापत्तिर्भवति वा न वेत्याशङक्यते तदाशङकानिवृत्त्यर्थमाह । तद्धैतल्लोकजिदेवेति । तद्ध तदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि लोकजिदेवेति लोकसाधनमेव । न ह एवालोक्यताया अलोकार्हत्वायाऽऽशाऽऽशंसनं प्रार्थनं नैवास्ति ह । न हि प्राणात्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं संभवति । न हि ग्रामस्थ: कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाऽऽशास्ते । असंनिकृष्टविषये हयनात्मन्याशंसनं न तत्स्वात्मनि संभवति । तस्मान्नाऽऽशाऽस्ति कदचित्प्रणात्मभावं न प्रपद्येयमिति ॥

भाष्यं :---  कस्त्यैतत । य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेदाहमस्मि प्राण इन्द्रियविषयासङगैरासुरे: पाप्माभिरधर्षणीयो विशुद्धो वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थोन्द्रियविषयासङूगजनितासुरपाप्मदोशवियुक्तं सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनमात्मा चाहं सर्वभूतानामाङूगिरसत्वाद्दग्यजु: सामोद्नीथभूतायाश्च वाच आत्मा तव्द्याप्तेस्तन्निर्वर्तकत्वाच्च मम साम्नो गीतिभावमापद्यमानस्य बाहयं धनं भूषणं सौस्वर्यं गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा । एवंगुणोऽहं पुत्तिकादिशरीरेषु कार्त्स्न्येन परिसमाप्तोऽमूर्तत्वात्सर्वगतत्वाच्चेत्या एवमभिमानाभिव्यक्तेर्वेदोपास्त इत्यर्थ: ॥२८॥

॥ इति प्रथमाध्यास्य तृतीयं ब्राम्हणम ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP