तृतीयं बाम्हणं - भाष्यं १३
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- प्राणो हि हिशब्द: प्रसिद्धौ । अङगानं रस: । प्रसिद्धमेतत्प्राणस्याङगिरसत्वं न वागादीनाम । तस्माद्युक्तं प्राणो वा इति स्मारणम । कथं पुन: प्रसिद्धत्वमित्यत आह । तस्माच्छब्द उपसंहारार्थ उपरित्वेन संबध्यते । यस्माद्यतोऽवयवात्कस्मादनुक्तविशेषात । यस्मात्कस्माद्यत: कुतश्चिच्चाङगाच्छरीरावयवाद्विशेषितात्प्राण उत्क्रामत्यपसर्पति तदेव तत्रैव तदङ्गं शुष्यति नीरसं भवति शोषमुपैति । तस्मादेष हि वा अङगानां रस इत्युपसंहार: । अत: कार्यकरणानमात्मा प्राण इत्येतत्सिद्धम । आत्मापाये हि शोषो मरणं स्यात्तास्मात्तेन जीवन्तिप्राणिन: सर्वे । तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थ: ॥
श्रुति :--- एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पति: ॥२०॥
भाष्यं :--- एष उ । न अकेवलं कार्यकरणयोरेवाऽऽत्मा प्राणो रूपकर्मभूतयो: किं तर्हि ऋग्यजु:साम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय । एष उ एव प्रकृत आङगिसो बृहस्पति: ॥
भाष्यं :--- कथं बृहस्पतिरिति । उच्यते । वाग्वै बृहती बृहतीछन्द: षटत्रिंशदक्षरा । अनुष्टुप च वाक । कथम “वाग्वा अनुष्टुप” इति श्रुते: । सा च वागनुष्टुब्बृहत्यां छ्न्दस्यन्तर्मवति । अतो युक्तं वाग्वै बृहतीति प्रसिद्धवद्वक्तुम । बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति प्राणसंस्तुतत्वात । “ प्राणो बृहती प्राण ऋच इत्येव विद्यात” इति श्रुत्यन्तरात । वागात्मत्वाच्चर्चां प्राणेऽन्तर्भाव: ॥
भाष्यं :--- तत्कथमित्याह । तस्या वाचो बृहत्या ऋच एष प्राण: पति: । तस्या निर्वर्तकत्वात । कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक । पालनाद्वा वाच: पति: । प्राणेन हि पायते वाक । अप्राणस्य शब्दोच्चारणसामर्थ्याभावात । तस्मादु बृहस्पतिऋचां प्राण आत्मेत्यर्थ ॥२०॥
भाष्यं :--- तथा यजुषाम । कथम । एष उ एव ब्रम्हाणस्त्पति: । वाग्वै ब्रम्हा ब्रम्हा यजुस्तच्च वाग्निशेष एव । तस्या वाचो यजुषो ब्रम्हाण एष पतिस्तस्मादु ब्रम्हाणस्पति: पूर्ववत ॥
भाष्यं :--- कथं पुनरेतदवगम्यते ब्रुहतीब्रम्हाणोऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति । उच्यते । वाचोऽन्ते सामसामानाधिकरण्यर्देशाद्वाग्वै सामेति । तथा च वाग्वै बृहती वाग्वै ब्रम्होति च वाकसमानाधिकरणयोऋग्यजुष्ट्वं युक्तम । परिशेषच्च । साम्न्यभिहित ऋग्यजुषी एव परिशिष्टे । वाग्विशेषत्वाच्च । वाग्विशेषौ हि ऋग्यजुषी । तस्मात्तयोर्वाचा समानाधिकरणता युक्ता ॥
भाष्यं :--- अविशेषप्रसङगच्च । सामोद्रीथ इति च स्पष्टं विशेषाभिधानत्वम । तथा बृहतीब्रम्हाशब्दयोरपि विशेषाभिधानत्वं युक्तम । अन्यथाऽनिर्धारितविशेषय्होरानर्थक्यापत्तेश्च । विशेषाभिधानस्य वाङमात्रत्वे चोभयत्र पौनरुक्त्यात । ऋग्यजु:सामोद्नीथशब्दानां च श्रुतिष्वेवंक्रमदर्शनात ॥२१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP