चोदनालक्षणोsर्थो धर्मः - श्लोक ५१ ते ७५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


तस्यापि कारणे शुद्धे तज्ज्ञाने स्यात्प्रमाणता ।
तस्याप्येवमितीच्छॅंश्च न क्क चिद्व्यवतिष्ठते ’ ॥५१॥
यदा स्वतः प्रमाणत्वं तदान्यन्नैव गृह्यते ।
निवर्त्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः ॥५२॥
तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥५३॥
अप्रामाण्यं त्रिधा भिन्न मिथ्यात्वाsज्ञानसंशयैः ।
वस्तुत्वाद् द्विविधस्यात्र सम्भवो दुष्टकारणात् ॥५४॥
अविज्ञाने तु दोषाणां व्यापारो नैव कल्प्यते ।
कारणाभावतस्त्वेव तत्सिद्धं नस्त्वदुक्तिवत् ॥५५॥
दोषतश्चाsप्रमाणत्वे स्वतःप्रामाण्यवादिनाम् ।
गुणज्ञानाsनवस्थावन्न दोषेषु प्रसज्यते ॥५६॥
साक्षाद्विपर्ययज्ञानाल्लघ्व्येव त्वप्रमाणता ।
पूर्वाsबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति ॥५७॥
दुष्टकारणबोधे तु सिद्धेsपि विषयान्तरे ।
अर्थात्तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत् ॥५८॥
तत्र दोषान्तरज्ञानं बाधधीर्वा परा न चेत् ।
तदुद्भूतौ द्वितीयस्य मिथ्यात्वादाद्यमानता ॥५९॥
स्वत एव हि तत्रापि दोषाsज्ञानात्प्रमाणता ।
दोषज्ञाने त्वनुत्पन्ने न शङ्क्या निष्प्रमाणता ( १ ) ॥६०॥
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्रार्थ्यते तावतैवैकं ( १ ) स्वतः प्रामाण्यमश्नुते ॥६१॥
शब्दे दोषोद्भवस्तविद्वक्त्रधीन इति स्थितिः ।
तदभावः क्क चित्तावदू गुणवद्वक्तृकत्वतः ॥६२॥
तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् ।
यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥६३॥
पौरुषेये द्वयं दृष्टं दोषाभावो गुणास्तथा ।
प्रामाण्यं तत्र गुणतो नैव स्यादित्युदाहृतम् ॥६४॥
तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः ।
अप्रामाण्यद्वयासत्त्वं ( १ ) तेनोत्सर्गोsनपोदितः ॥६५॥
प्रत्ययोत्पत्तिहेतुत्वात्प्रामाण्यं नापनीयते ।
दोषाभावो गुणेभ्यश्चेन्ननु सैवाsस्थितिर्भवेत् ॥६६॥
तदा न ब्याप्रियन्ते हि ज्ञानमानतया गुणाः ।
दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ॥६७॥
तत्राsपवादनिर्मुक्तिर्वक्त्रभावाल्लघीयसी ।
वेदे तेनाsप्रमाणत्वं नाशङ्कामपि गच्छति ॥६८॥
अतो वक्त्रनधीनत्वात्प्रामाण्ये तदुपासनम् ।
न युक्तमप्रमाणत्वे कल्प्ये तत्प्रार्थना ( १ ) भवेत् ॥६९॥
ततश्चाप्ताsप्रणीतत्वं न दोषायात्र जायते ।
प्रयोगाणां तु सर्वेषां वक्ष्यामः प्रतिसाधनम् ॥७०॥
पौरुषेये तु वचने प्रमाणान्तरमूलता ।
तदभावे हि तदू दुष्येदितरन्न कदा चन ॥७१॥
तेनेतरैः प्रमाणैर्या चोदनानामसङ्गतिः ।
तयैव स्यात्प्रमाणत्वमनुवादत्वमन्यथा ॥७२॥
अन्यस्यापि प्रमाणत्वे सङ्गतिर्नैव कारणम् ।
तुल्यार्थानां विकल्प्यत्वादेकं तत्र हि बोधकम् ॥७३॥
यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोsर्थो नाsवधृतस्तथा ॥७४॥
सङ्गत्या यदि चेष्येत पूर्वपूर्वप्रमाणता ।
[ प्रमाणान्तरमिच्छन्तो न व्यवस्थां लभेमहि ॥७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP