चोदनालक्षणोsर्थो धर्मः - श्लोक २०१ ते २२५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
पुरस्ताच्चोदनाशब्दो विधावेव व्यवस्थितः ।
न च तल्लक्षणा हिंसा प्रत्युदाहरणं कथम् ॥२०१॥
चोदनालक्षणो यश्च श्येनादिरिह गम्यते ।
निषेधाभावतस्तस्य कथं ब्रूयादनर्थताम् ॥२०२॥
यद्यपि स्याद्विधिस्पृष्टे निषेधो नैव तादृशः ।
विज्ञायते ह्यनर्थत्वं षोडशिग्रहणादिवत् ॥२०३॥
चोदनालक्षणत्वोक्त्या निषिद्धत्वं विरुध्यते ( १ ) ।
श्येनादावुपदिष्टे च हिंसा ह्रीति न युज्यते ॥२०४॥
हिंसा हि फलमेतेषां भिन्ना तेभ्यः स्वरूपतः ।
सा हि प्राणवियोगात्मा श्येनस्तत्राsसिवत्पृथक् ॥२०५॥
उपदेशाभिधानं च नाsविधेयेsवकल्पते ।
श्येनादेरविधाने च कस्यान्यस्य विधेयता ॥२०६॥
‘ सर्वत्रावस्थितो ( १ ) न्यायो भावनांशद्वये विधिः ।
स बाध्येते’ह ये चामी ज्योतिष्टोमादयो मताः ॥२०७॥
धर्मत्वेन न तेsपि स्युर्हिंसासाधनका हि ते ।
न चाविधीयमानस्य फलतत्साधनाङ्गता ॥२०८॥
साधनत्वेन ( १ ) विहितं न चाsविहितमुच्यते ।
साध्यत्वेन विधानन्तु नैवेष्टं लोकवेदयोः ॥२०९॥
तेनैवमर्थशब्दस्य प्रयोजनमिहोच्यते ।
प्रवृत्तौ वा निवृत्तौ वा या शब्द श्रवणेन धीः ॥२१०॥
सा चोदनेति सामान्यं लक्षणं हृदये स्थितम् ।
प्रवर्तकगृहीतेस्तु ( २ ) स्यादुदाहरणार्थता ॥२११॥
तात्पर्ये ह्यर्थशब्दस्य नेयं व्याख्योपपद्यते ।
अर्थग्रहणलभ्यं वा तत्प्रवर्तकभाषणम् ॥२१२॥
धर्मे प्रमाणभूतायास्तद्वा लक्षणमुक्तवान् ।
एवं सति विधिभ्यः स्याद्विधेयार्थावधारणम्॥२१३॥
निषेधेभ्यो निषेध्यानामनर्थत्वेन निर्णयः ।
तेनार्थग्रहणेनोक्ता विधेयस्येह निर्णयः ।
तेनार्थग्रहणेनोक्ता विधेयस्येह धर्मता ॥२१४॥
निषेध्यानामनर्थत्वमर्थसिद्धं न सूत्रितम् ।
तस्मादुभयमित्यत्र विधेयप्रतिषेधयोः ॥२१५॥
यागादिब्रह्महत्यादिवर्गयोः स्यान्निदर्शनम् ।
श्येनादीनां विधेयत्वादिष्टस्यापि च साधनात् ॥२१६॥
उपचारादनर्थत्वं फलद्वारेण वर्ण्यते ।
प्रतिषिद्धा हि सेत्यत्र स्फुटमेतत्करिष्यते ॥२१७॥
हिंसा हीति च यच्चाति ब्रूते नाभिचरेदिति ।
श्येनादीनां स्वरूपे तु नोत्तरग्रन्थसङ्गतिः ॥२१८॥
विहितत्वान्निषेधस्य प्रवृत्तिस्तेषु दुर्लभा ।
यदा तु चोदनाशब्दो विधावेव व्यवस्थितः ॥२१९॥
तदोभयादिको ग्रन्थः साध्यसाधनसंश्रितः ।
‘ साध्यसाधनसम्बन्धे विधिना प्रतिपादिते ॥२२०॥
लक्ष्यमाणत्वमुभयो’र्द्विविधं च फलं क्रतोः ।
‘ स्वर्गादि ( १ ) प्राप्यते तत्र प्रतिषेधाsनतिक्रमात् ॥२२१॥
अतिक्रमेण हिंसादि ’ शास्त्रान्तरनिरीक्षया ( २ ) ।
फलांशे भावनायाश्च प्रत्ययो न विधायकः ॥२२२॥
वक्ष्यते जैमिनिश्चाह ‘ तस्य लिप्सार्थलक्षण ’ ।
तेन सामान्यतः प्राप्तो विधिना न निवारितः ॥२२३॥
फलांशोपनिपातिन्या हिंसायाः प्रतिषेधकः ।
अनर्थप्राप्तिहेतुत्वं बोध्यते तत्र, यद्यपि ॥२२४॥
श्येनस्वरूपं नाsनर्थस्तत्फलस्य त्वनर्थता ।
परस्तूभयमित्यादेः फलस्यापि विधेयताम् ॥२२५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP