चोदनालक्षणोsर्थो धर्मः - श्लोक २१५१ ते २८६
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
विद्यमाना हि कथ्यन्ते शक्तयो द्रव्यकर्मणाम् ।
तदेव चेदं कर्मेति शास्त्रमेवाsनुधावता ॥२५१॥
हिंसादीनामधर्मत्वं कथ्यते नाsनुमानतः ’ ।
‘ एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् ॥२५२॥
सुरापानादिभिः शूद्रः किं याति नरकं कृतैः ।
वैश्यस्तोमेन वा किं स्याद्विप्रराजन्ययोः फलम् ॥२५३॥
पञ्चम्यामिष्टकरणान्मध्यान्हे चाsग्निहोत्रतः ’ ।
तस्माद्यद्यादृशं कर्म यत्फलोत्पत्तिशक्तिकम् ॥२५४॥
शास्त्रेण गम्यते तस्य तादृशस्यैव तत् फलम् ।
‘ हिंसा चांशद्वयादन्या या तस्याः प्रतिषेधजम् ॥२५५॥
प्रत्यवायार्थताज्ञानं ’ विधिनाsन्यत्र वार्यते ।
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥२५६॥
ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ।
व्यवस्थाः शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ॥२५७॥
अभिन्नत्वेsपि दृश्यन्ते भुजेः स्वस्थातुरेष्वपि ।
रूपाsभेदेsपि हिंसादेर्भेदोsङ्गाsनङ्गकारितः ॥२५८॥
तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः ।
यजित्वाद्यविशेषाच्च चित्रादिफलतुल्यता ॥२५९॥
भेदात्तत्र व्यवस्था चेदिहाप्येवं भविष्यति ।
विधीनां वापि सर्वेषां साक्षाद् व्यवहृइतोsपि वा ॥२६०॥
पुरुषार्थः फलं, तेन ( १ ) नाsनर्थोsतः प्रतीयते ।
न चैषु श्रूयते ( २ ) sनर्थो निषेधान्न च कल्प्यते ॥२६१॥
न च प्रकरणस्थत्वात्पुरुषार्थः फलं भवेत् ।
कर्मोपकारः कल्प्यस्तु दृष्टोsदृष्ठोsथ वा पुनः ॥२६२॥
कल्पनावसरस्तत्र ( १ ) नाsनर्थस्याsनपेक्षणात् ।
क्रत्वर्थश्चापि संस्कारः पशोर्नाssरादुपक्रिया ॥२६३॥
दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपेत्तिता ।
अभिचारेsप्युपायस्था हिंसा नाsधर्म उच्यते ॥२६४॥
तस्मादनङ्गभूतायां हिंसायामेतदुच्यते ।
उद्देशाच्च फलत्वेन श्येनादौ न विधीयते ॥२६५॥
भावनाविधिरप्येव फलांशाद्विनिवर्तते ।
अतः स्वतो न धर्मत्वं श्येनादेर्नाप्यधर्मता ॥२६६॥
फलाsनर्थानुबन्धित्वात्तद्द्वारेणोपचर्यते ।
निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ॥२६७॥
तस्मात् क्रियान्तरादेर्वा हिंसातोsनर्थ उच्यते ।
फलतोsपि च यत्कर्म नाsनर्थेनाsनुबध्यते ॥२६८॥
केवलप्रीतिहेतुत्वात्तद्धर्मत्वेन हीष्यते ।
ननु चेष्टाभ्युपायत्वात् श्येनादेर्धर्मता भवेत् ॥२६९॥
फलं तावदधर्मोsस्य श्येनादेः सम्प्रधार्यते ।
‘ यदि येनेष्टसिद्धिः स्यादनुष्ठानाsनुबन्धिनी ॥२७०॥
तस्य दह्र्मत्वमुच्येत ततः श्येनादिवर्जनम् ।
यदा तु चोदनागम्यः कार्याsकार्याsनपेक्षया ॥२७१॥
धर्मः प्रीतीनिमित्तं स्यात्तदा श्येनेsपि धर्मता ।
यदि त्वप्रीतिहेतुर्यः साक्षादू व्यवहितोsपि वा ॥२७२॥
सोsधर्मश्चोदनार्थः स्यात्तदा श्येनेsप्यधर्मता ’ ।
यस्तु हिंसात्वसाधर्म्याद्बाह्यवच्चोदनास्वपि ॥२७३॥
वदेदनर्थहेतुत्वं तस्याप्यागमबाधनम् ।
तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ॥२७४॥
स्वर्गादिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् ।
गीतामन्त्रार्थवादैर्या कल्प्यतेsनर्थहेतुता ॥२७५॥
प्रत्यक्षश्रुतिबाध्यत्वात्साsन्यार्थ्त्वेन नीयते ।
शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ॥२७६॥
अशक्तेश्चोभयोः साम्पान्न सूत्रेष्वित्यनुत्तरम् ।
प्रागुक्तपरिसंख्यायाः फलमेतप्रकाश्यते ॥२७७॥
सूत्रेषु ह्यनया युक्त्या गतिरेषापि युज्यते ।
तस्मादावर्तते सूत्रं तन्त्रं वा शक्तिभेदतः ॥२७८॥
एकदेशाsनुमानाद्वा द्वे सूत्रे परिकल्पिते ।
इतरेतरसामीप्यादेतावेव परस्परम् ॥२७९॥
कल्प्येते वाक्यदोषाय नाsन्याsवयवकल्पना ।
विशिष्टार्थाsनुवादित्वादथवेत्यपि भाषिते ॥२८०॥
वाक्यभेदः स एवेति संज्ञातन्त्रत्वमुत्तरम् ।
अर्थं वा प्रत्युपादानं संज्ञालक्षणशब्दयोः ॥२८१॥
तन्त्रं लत्तणशब्दो वा वाच्यो धर्माsर्थशब्दयोः ।
धर्मे सामान्यतः सिद्धे प्रमाणं कथ्यते यदा ॥२८२॥
वृत्तमेव तदाsर्थत्वं किमर्थं पुनरुच्यते ।
चोदनालक्षणत्वस्य धर्मं प्रति विधेयता ॥२८३॥
लभ्यतेsर्थानुवादेन संशयो ह्यन्यथा भवेत् ।
तथा च येsप्यनर्थस्य साधनत्वेन कल्पिताः ॥२८४॥
निषेधैस्तेsपि धर्माः स्युश्चोदनालक्षणत्वतः ।
तस्मादर्थाsपरित्यागादेकार्थग्रहणं यथा ॥२८५॥
लभ्यते वचनव्यक्त्या सा स्यादर्थानुवादतः ।
विशेषणाद्विना चैतदर्थसामर्थ्यकारितम् ॥२८६॥
कथ्यते भाष्यकारेण फलं हिंसादिवर्जनम् ॥
इति चोदनासूत्रं द्वितीयम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP