चोदनालक्षणोsर्थो धर्मः - श्लोक ७६ ते १००
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
कस्य चित्तु यदीष्येत स्वत एव प्रमाणता । ] ( १ )
प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ॥७६॥
श्रोत्रधीश्चाप्रमाणं स्यादितराभिरसङ्गतेः ।
स्याच्चेत्तज्जनितेनैव ज्ञानेनान्येन सङ्गतिः ॥७७॥
वेदेsपि शतकृत्वः स्याद्बुद्धिरुच्चारणाsनुगा ।
साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि ॥७८॥
यथा त्वेकोन्द्रियाधीनज्ञानान्तरनिबन्धना ।
सङ्गतिः कारणं प्राप्य तथा वेदेsपि कल्प्यताम् ॥७९॥
तस्माद् दृढं यदुत्पन्नं नापि संवादमृच्छति ।
ज्ञानान्तरेण, विज्ञानं तत्प्रमाणं प्रतीयताम् ॥८०॥
न चाsनुमानतः साध्या शब्दादीनां प्रमाणता ।
सर्वस्यैव हि मा प्रापत्प्रमाणान्तरसाध्यता ॥८१॥
ननु प्रमाणमित्येवं प्रत्यत्तादि न गृह्यते ।
न चेत्थमगृहीतेन व्यवहारोsवकल्पते ॥८२॥
प्रमाणं ग्रहणात्पूर्वं स्वरूपेणैव संस्थितम् ।
निरपेक्षं स्वकार्येशहु गुह्यते प्रत्ययान्तरैः ॥८३॥
तेनास्य ज्ञानमानत्वं ( १ ) प्रामाण्ये नोपयुज्यते ।
विषयानुभवो ह्यत्र पूर्वस्मादेव लभ्यते ॥८४॥
अप्रमाणं पुनः स्वार्थग्राहकं स्यात्स्वरूपतः ।
निवृत्तिस्तस्य मिथ्यात्वे नागृहीते परैर्भवेत् ॥८५॥
न ह्यर्थस्याsतथाभावः पूर्वेणातस्तथात्ववत् ।
तत्राप्यर्थाsन्यथाभावे धीर्यद्वा दुष्टकारणे ॥८६॥
तावतैव च मिथ्यात्वं गृह्यते नान्यहेतुकम् ।
उत्पत्त्यवस्थं चैवेदं प्रमाणमिति गीयते ॥८७॥
अतो यत्रापि मिथ्यात्वं परेभ्यः प्रतिपाद्यते ।
तत्राप्येतद् द्वयं वाच्यं न तु साधर्म्यमात्रकम् ॥८८॥
चोदनार्थाsन्यथाभावं कुर्वतश्चाsनुमानतः ।
तज्ज्ञानेनैव यो बाधः स कथं विनिवार्यते ॥८९॥
तन्मिथ्यात्वादबाधश्चेत्, प्राप्तमन्योन्यसंश्रयम् ।
नानुमानादतोsन्यद्धि बाधकं किं चिदस्ति ते ॥९०॥
न चान्यैरग्रहेsर्थस्य स्यादभावो रसादिवत् ।
तेषां जिह्वादिभिर्यस्मान्नियमो ग्रहणेsस्ति हि ॥९१॥
तद्दियैवाsर्थबोधश्चेत्तादृग्धर्मे भविष्यति ।
ममाsसिद्धमिदं किं तु वेदाज्जातेsवबोधने ॥९२॥
वक्तुं न द्वेषमात्रेण युज्यते सत्यवादिना ( १ ) ।
द्वेषादसंमतत्वाद्वा न च स्यादप्रमाणता ॥९३॥
न चात्मेच्छाsभ्यनुज्ञाभ्यां प्रामाण्यमवकल्पते ।
अग्निदाहादिदुःखस्य न ह्यप्रत्यक्षतेष्यते ॥९४॥
न चाभिलापिकं ज्ञानं प्रामाण्येनावधार्यते ( २ ) ।
‘ तस्मादालोकवद्वेदे सर्वसाधारणे सति ॥९५॥
नैवं विप्रतिपत्तव्यं ’ बौद्धादेर्वक्ष्यतेsन्तरम् ।
पुरुषाsशक्तितस्तत्र सापवादत्वसम्भवः ॥९६॥
वेदस्याs पौरुषेयत्वे सिद्धात्वेवं प्रमाणता ।
‘ कर्तृमत्त्वे ( ३ ) तु वेदस्य सम्यड्मिथ्यात्ववादिभि ॥९७॥
कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः ।
एवमादि विना युक्त्या कल्प्यं मीमांसकैः पुनः ॥९८॥
इदानीमिव सर्वत्र दृष्टान्नाsधिकमिष्यते ।
एवंभूतस्य वेदस्य ज्ञानोत्पत्तिं प्रकुर्वतः ॥९९॥
स्वरूपविपरीतत्वसंशयौ भाष्यवारितौ ।
निवारयिष्यते चापि दुष्टकारणकल्पना ॥१००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP