चोदनालक्षणोsर्थो धर्मः - श्लोक १५१ ते १७५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


अतश्च संप्रदाये च नैकः पुरुष इष्यते ।
बहुतः परतन्त्राः स्युः सर्वे ह्यद्यत्ववन्नराः ॥१५१॥
एवं च कल्पयन्त्यन्ये यावदागमासिद्धये ।
तावन्न कल्पयत्येतत् समत्वं जैमिनेः ( १ ) परैः ॥१५२॥
न हि दृष्टाधिकं किञ्चित्प्रामाण्ये तेन कल्प्यते ।
अप्रामाण्यनिमित्तेषु परस्याsदृष्टकल्पना ॥१५३॥
दृष्टप्रामाण्यबाधश्च नास्तिकस्य प्रसज्यते ।
उत्पन्ने सति विज्ञाने बलाद्वाधप्रकल्पना ॥१५४॥
साधिते पुरुषाभावे निर्दोषज्ञानजन्मनः ।
प्रत्यक्षान्नास्तिकैर्वाच्यो विशेषश्चोदनाधियः ॥१५५॥
उपदेशोsन्यथा न स्यादतीन्द्रियनिबन्धनः ।
तस्य कर्त्रा न चेदू दृष्टः सोsर्थ इत्यर्थकल्पना ॥१५६॥
‘ यद्वाsनुमानमेवेदमुपदेशित्वमुच्यते ।
दृष्टार्थपूर्वताव्याप्तं व्यतिरेकोsस्य नन्विति ॥१५७॥
अन्यथाsप्युपपन्नत्वं व्यामोहादिति कथ्यते ।
लिङ्गस्य व्यभिचारो वा बालवाक्ये निदर्शनात् ( १ ) ॥१५८॥
‘ वेदाज् ज्ञात्वोपदिष्टं चेदित्येवं सिद्धसाधनम् ।
वेदादपीत्यनेनोक्तं ’ मन्वादेश्चैतदिष्यते ॥१५९॥
अन्यथा संविदानोsपि विवक्षत्यन्यथा यतः ।
तस्मादेकान्ततोनास्ति पुंवाक्यात्तद्धियां गतिः ॥१६०॥
भ्रान्तस्याsन्यविवक्षायामन्यद्वाक्यं च दृश्यते ।
यथाविवत्तमप्येतत्तस्मान्नैव प्रवर्तते ॥१६१॥
वक्तृधीराप्तवाक्येषु गम्यतेsन्यत्र विप्लुतिः ।
तेनोत्सर्गापवादाभ्यां वचसः शक्तिरुच्यते ॥१६२॥
पदार्थरचनाsयत्तो वाक्यार्थप्रत्ययोद्भवः ।
विवक्षापूर्वविज्ञानवशाच्च रचनाकृतिः ॥१६३॥
विवक्षान्तरयुक्ता हि कुर्वाणा रचनान्तरम् ।
आवापोद्वाप ( १ ) भेदेन दृश्यन्तेsर्थेषु मानवाः ॥१६४॥
तेनाsर्थप्रत्ययोत्पादे श्रोतुर्जातेsपि वाक्यतः ।
ज्ञातो नूनमनेनेति वक्तुर्ज्ञाने मतिर्भवेत् ॥१६५॥
आसोक्तकारिणं कं चिदनुयुङ्क्ते नरं यदा ।
तदा च निर्दिशत्याप्तं स जानात्येतदित्यसौ ॥१६६॥
तज्ज्ञानान्तरितत्वाच्च शब्दास्तावदुदासते ।
प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसम्भवात् ॥१६७॥
अर्थे पूर्वप्रतीतेsपि निश्चयो हि तदाश्रयः ।
तेनार्थज्ञानगम्यापि प्रामाण्ये सैव पूर्वभाक् ॥१६८॥
अतोsत्र पुंनिमित्तत्वादुपपन्ना मृषार्थता ।
न तु स्यात्तत्स्वभावत्वं वेदे वक्तुरभावतः ॥१६९॥
तद्बुद्ध्यन्तरयो नास्तीत्यर्थोsर्थैश्च प्रतीयते ।
अतो न ज्ञानपूर्वत्वमपेक्ष्यं, नोsयथार्थता ॥१७०॥
अप्रमाणत्वसिद्धौ वा दृष्टान्तो य उदाहृतः ।
बुद्धादिवचनं , तस्य साध्येनासङ्गतोच्यते ॥१७१॥
तेषामपि हि यत्कार्यं पूर्वत्र प्रतिपादितम् ।
तत्र सम्यक्त्वमर्थे तु व्यापारो नैव विद्यते ॥१७२॥
स्वव्यापारातिरिक्तेsर्थे वेदस्यापि मृषार्थता ।
पूर्वपक्षार्थवत्त्वेन प्रसक्ता सिद्धसाध्यता ॥१७३॥
‘ अज्ञात्वैवमभिप्रायं कृतकाsकृतकत्वयोः ।
सत्यमिथ्यात्वहेतूक्तिमात्रज्ञानात्परोsब्रवीत् ॥१७४॥
ननु सामान्यतो दृष्टं ’ ‘ नान्यत्वादित्यदूषणम् ।
एतस्मादेव दृष्टान्तो न हि पक्षे सपक्षतां ॥१७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP