प्रत्यक्षसूत्रं - श्लोक २६ ते ५०
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
‘अतीताsनागते sप्यर्थे सूक्ष्मे व्यवहिते sपिच ।
प्रत्यक्षं योगिनामिष्टं कैश्चिन् मुक्तात्मनामपि ॥२६॥
विद्यमानोपलम्भत्वमसिद्धं तत्र तान्प्रति ।
भविष्यत्त्वस्य वा हेतोस्तद्ग्राह्यैर्व्यभिचारिता ॥२७॥
मा भूतामिति तेनाssह लोकसिद्धं सदित्यम् ’ ।
न लोकव्यतिरिक्तं हि प्रत्यक्षं योगिनामपि ॥२८॥
प्रत्यक्षत्वेन तस्यापि विद्यमानोपलम्भनम् ।
सत्संप्रयोगजत्वं वा sप्यस्मत्प्रत्यक्षवद्भवेत् ॥२९॥
‘ तेषामवर्तमानेsर्थे या नामोत्पद्यते मतिः ।
प्रत्यक्षं सा ततस्त्वेव नाभिलाषस्मृतादिवत् ॥३०॥
लोके चाप्यप्रसिद्धत्वात्प्रत्यक्षत्वप्रमात्वयोः ।
प्रतिभावद् द्वयासत्त्वं सदित्येतेन कथ्यते ’ ॥३१॥
लौकिकी प्रतिभा यद्वत्प्रत्यक्षाद्यनपोक्षिणी ।
न निश्चयाय पर्याप्ता तथा स्याद्योगिनामपि ॥३२॥
अविद्यमानसंयोगात् स्याच्चेत् प्रत्यक्षधीः क्क चित् ।
भविष्यत्यपि धर्मे स्याच्छक्तेत्याह सदित्ययम् ॥३३॥
प्रत्यक्षः प्रागनुष्ठानान्न धर्मोsनुष्ठितो sपि वा ।
फलसाधनरूपेण तदानीं येन नास्त्यसौ ॥३४॥
अस्मत्प्रत्यक्षवच्चापि विद्यमानोलम्भनम् ।
प्रत्यक्ष ध्यायिनां धर्मे प्रत्यक्षत्वाच्च नेष्यते ॥३५॥
अविद्यमानसंयोगात् प्रत्यक्षत्वनिराकृतिः ।
योगिनां केन लभ्येत नेष्टं सद्ग्रहणं यदि ॥३६॥
सप्तम्याsपि तु लभ्येत सदर्थः, कल्पना पुनः ।
परेषां वारणीयेति यत्नो जैमिनिना कृतः ॥३७॥
सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः ।
प्रयोग इन्द्रियाणां च व्यापारोsर्थेषु कथ्यते ॥३८॥
दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ।
एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत् ॥३९॥
‘ ततश्चाsप्राप्यकारित्वादू यद्बौद्धैः श्रोत्रचक्षुषोः ।
लक्षणव्याप्तिसिद्ध्यर्थं संयोगो नेति कीर्त्यते ॥४०॥
प्राप्यग्रहणपक्षे ( १ ) हि सान्तराsग्रहणं किल ।
अधिष्ठानाsधिकश्चार्थो न गृह्येत त्वगादिवत् ॥४१॥
व्यापारमात्रवाचित्वा ( २ ) दविरुद्धं तदत्र नः ’ ।
यदि वाsर्थार्जवस्थानं सम्प्रयोगोsत्र वर्ण्यते ॥४२॥
योग्यतालत्तणो वाच्यः ( ३ ) संयोगः कार्यलक्षितः ।
सांख्यादीन् वा विनिर्जित्य प्राप्तिपक्षोsत्र दूष्यताम् ॥४३॥
तयोश्च प्राप्यकारित्वमिन्द्रियत्वात् त्वगादिवत् ।
के चित्तयोः शरीराच्च बहिर्वृत्तिं प्रचक्षते ॥४४॥
चिकित्सादिप्रयोगश्च योsधिष्ठाने प्रयुज्यते ।
सोsपि तस्यैव संस्कार आधेयस्योपकारकः ॥४५॥
तद्देशश्चापि संस्कारः सर्वव्याप्त्यर्थ उच्यते ( १ ) ।
चक्षुराद्युपकारश्च पादादावपि दृश्यते ॥४६॥
तस्मान्नैकान्ततः शक्यं संस्कारात्तत्र वर्तनम् ( २ ) ।
‘ बहिर्वृत्तिस्तयोश्चेष्टा पृथ्वाग्रा ( ३ ) सन्तताsपि च ॥४७॥
अधिष्ठानाधिकं तेन गृह्यते यत्र यादृशम् ।
पार्थवं वृत्ति ( ४ ) भागे स्यादू ’ दूरे sपि ग्रहणं तथा ॥४८॥
दीपप्रभा यथा तस्मिन् विनश्यति विनश्यति ।
तथा बहिर्गताsप्येषा मूलच्छेदा ( ५ ) द्विनश्यति ॥४९॥
अधिष्ठानपिधानं तु सत्यप्युच्छिन्नयत्नया ।
तयाsर्थोsनुपनीतत्वादात्मना नाsनुभूयते ॥५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP