प्रत्यक्षसूत्रं - श्लोक ७६ ते १००
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
भवते भेद ( २ ) हानेन रुचिता विषयैकता ।
तत्त्यागेन परेभ्यस्तु भेदो रुचिमुपागतः ॥७६॥
करणत्वोपचारस्तु फले चेत्कल्प्यते त्वया ।
कथञ्चिद्विषयैकत्वं परैर्वा किं न कल्प्यते ॥७७॥
परिच्छेदफलत्वेन वृत्तस्याsनन्तरस्य नः ।
प्रमाणत्वं भवेज्ज्ञाने प्रमाणे तु परं फलम् ॥७८॥
स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते ।
प्रमाणे विषयाssकारे भिन्नार्थत्वं न ( १ ) युज्यते ॥७९॥
स्वाssकारश्च स्वसंवित्तिं मुक्त्वा नाsन्यः प्रतीयते ।
प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥८०॥
स्वाssकारस्य परिच्छेदो न चाssकारान्तराद्विना ।
तस्याप्येवं तथा च स्यान्नाssकारान्तःकदा चन ॥८१॥
न चाsसंचेतितः सत्तां स्वाssकारः प्रतिपद्यते ।
ग्राह्ये चा विषयाssकारे ग्राहकोsन्यो न लभ्यते ॥८२॥
मनसस्त्विन्द्रियत्वेन प्रत्यक्षा धीः सुखादिषु ।
मनसा सम्प्रयुक्तो हि ता( १ )न्यात्मा प्रतिपद्यते ॥८३॥
सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
सामान्यं वा विशेषो वा ग्राह्यं नाsतो sत्र कथ्यते ( १ ) ॥८४॥
लक्षणं यच्च यैरुक्तं प्रत्यक्षे लौकिके सति ।
विद्यमानोपलम्भित्वात् सर्वस्यैवाsनिमित्तता ॥८५॥
निर्विकल्पकपक्षे तु सुतरामनिमित्तता ।
साध्यसाधनसम्बन्धो नाsविकल्प्य हि गृह्यते ॥८६॥
कथं प्रत्यक्षपूर्वत्वमनुमानादिनो भवेत् ।
यदा स्मृत्यसमर्थत्वान्निर्विकल्पेन्द्रियस्य धीः ॥८७॥
‘ न चाsविकल्प्य लिङ्गस्य लिङ्गिसम्बन्धयोस्तथा ।
गृहीति ’ रुपमाने sपि सादृश्यग्रहणात स्मृते ॥८८॥
अर्थापत्तिः पुनः प्रायोsन ( १ ) न्यदृष्टेsर्थ इष्यते ।
प्रवर्तते च यं दृष्ट्वा सोsप्यर्थः सविकल्पकः ॥८९॥
यत्र चानुमितं लिङ्गं सूर्यगत्यादि, लिङ्गि च ।
तत्र प्रत्यक्षपूर्वत्वं कथमध्यवसीयते ॥९०॥
प्रत्यक्षाsवगते चाsर्थे कुतस्तेषां प्रमाणता ।
तैर्यदा स प्रतीयेत तदा नाsक्षस्य गोचरः ॥९१॥
अथ कस्य चिदर्थस्य ज्ञानात् तत्पूर्वता भवेत् ।
तदाsर्थस्य भविष्यत्त्वं न स्यादज्ञानकारणम् ॥९२॥
वर्तमाने हि कस्मिंश्चिद्विज्ञातेsर्थेsक्षबुद्धिभिः ।
लिङ्गादविद्यमानोsपि धर्मो गम्येत तैस्तदा ॥९३॥
प्रत्यक्षेण गृहीत्वा च वर्णान् वेदेsपि( १ )गृह्यते ।
प्रमेयमिति सोsपि स्यात्तत्पूर्वत्वादकारणम् ॥९४॥
के चित् तत्पूर्वकत्वं तु हेतुर्नैवेति मन्वते ।
तत्पूर्वकत्वाद्यत्तावत् प्रामायं तदसम्भवः ॥९५॥
प्रत्यत्तेण गृहीत्वा च लिङ्गाद्यन्यतमं ध्रुवम् ।
प्रवृत्तिरनुमानादेर्न च धर्मेsस्ति तादृशम् ॥९६॥
अनुमानानुमानादेर्न चाप्यस्तीह संभवः ।
सम्बन्धलिङ्गिलिङ्गानां पूर्वसिद्धेरसंभवात् ॥९७॥
सत्ता च नाsनुमानेन कस्य चित्प्रतिपद्यते ।
धर्मेणाsन्यद्विशेष्यं चेत्, पक्षोsसिद्धविशेषणः ॥९८॥
‘ तस्माददृष्टपूर्वत्वात्केन चिद्वस्तुना सह ।
धर्मस्य नाsनुमेयत्वमसाधारणवस्तुवत् ॥९९॥
अदृष्टसदृशत्वाच्च स्वयं चाcनुपलम्भनात् ।
धर्मस्य नोपमेयत्वमसाधारणवद्भवेत् ’ ॥१००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP