प्रत्यक्षसूत्रं - श्लोक १०१ ते १२५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


नन्वर्थापत्तिरेवं स्याज्जगद्वैचित्र्यदर्शनात् ।
सुखिदुःख्यादिभेदो हि नाsदृष्टात्कारणादृते ॥१०१॥
दृष्टस्य व्यभिचारित्वात्तदभावेsपि सम्भवात् ।
सेवाsध्ययनतुल्यत्वे दृष्टा च फलभिन्नता ॥१०२॥
स्यादेवं यदि शक्येत स्वाभाविकनिवारणा ।
कर्मशक्तेश्च वैचित्र्ये हेतुरन्यो भवेद्यति ॥१०३॥
यथा च फलवैचित्र्ये कर्मणां शक्तता स्वतः ।
तथा ( १ ) च चित्रता लोके स्वभावादुपपत्स्यते ॥१०४॥
अधमे धर्मरूपे वा ह्यविभक्ते फलं प्रति ।
किमप्यस्तीति विज्ञानं नराणां क्कोपयुज्यते ॥१०५॥
‘ किं नु यागादितो दुःखं हिंसादेः किं सुखोद्भवः ।
स्वर्गपुत्रादिभेदश्च कीदृशात् कर्मभेदतः ॥१०६॥
इति यावदविज्ञानं तावन्नैव प्रवर्तते ’
प्रवृत्त्यङ्गं च यज्ज्ञानं तस्य मूलं प्रतीक्ष्यते ॥१०७॥
तस्मात्सिद्धेsपि सामान्ये विशेषो नाssगमादृते ।
विशेषस्य तु जिज्ञासा सूत्रकारेण सूत्रिता ॥१०८॥
गम्यमाने विशेषे च तदन्तर्भावकारितः ।
सामान्यप्रत्ययोsपि स्याच्छास्त्रादेवेत्यकारणम् ॥१०९॥
यथाsर्थापत्तिरेवं च नाsनुमा, नोपमेष्यते ।
शास्त्रं चेत्तदपेक्षेत तस्यैव स्यात्प्रमाणता ॥११०॥
प्रत्यक्षाsग्रहणं यत्तु लिङ्गादेरविकल्पनात् ।
तन्नेष्टत्वाद्विकल्पस्याप्यर्थरूपोपकारिणः ॥१११॥
अस्ति ह्यालोचनाज्ञानं ( १ ) प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥११२॥
न विशेषो न सामान्यं तदानीमनुभूयते ।
तयोराधारभूता तु व्यक्तिरेवाsवसीयते ॥११३॥
महासामान्यमन्यैस्तु द्रव्यं ( २ ) सदिति चोच्यते ।
सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् ॥११४॥
विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः ।
ते च के चित् प्रतिद्रव्यं के चिद्ब्रहुषु संश्रिताः ॥११५॥
तानकल्पयदुत्पन्नं व्यावृत्ताsनुगतात्मना ।
गव्यश्वे चोपजातं तु प्रत्यक्षं न विशिष्यते ॥११६॥
तदयुक्तं, प्रतिद्रय्वं भिन्नरूपोपलम्भनात् ।
न ह्याख्यातुमशक्यत्वाद्भेदो नास्तीति गम्यते ॥११७॥
‘ निर्विकल्पकबोधेsपि द्व्यात्मकस्यापि वस्तुनः ।
ग्रहणं ’ ‘ लक्षणाख्येयं ज्ञात्वा शुद्धं तु गृह्यते ॥११८॥
न चा( १ )sसाधारणत्वेन परव्यावृत्त्यकल्पनात् ।
विशेषाsनुगमाsक्लृप्तेः सामान्यमिति नापि तत् ’ ॥११९॥
करणं चिन्द्रियं बुद्धेर्न तत्र ज्ञानमाहितम् ।
ततःस्मृत्य( १ )समर्थत्वाद्विकल्पोsतो न वार्यते ॥१२१॥
आत्मन्येव स्थितं ज्ञानं, स हि बोद्धाsत्र गम्यते ।
सम्रणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥१२२॥
तेनेन्द्रियार्थसम्बन्धे विद्यमाने स्मरन्नपि ।
विकल्पयन् स्वधर्मेण वस्तु प्रत्यक्षवान् नरः ॥१२३॥
तच्चैतदिन्द्रियाsधीनमिति तैर्व्यपदिश्यते ।
तदसम्बन्धजातं तु नैव प्रत्यक्षमिष्यते ॥१२४॥
पुनः पुनर्विकल्पे sपि सती जातिः प्रतीयते ।
तत्सम्बन्धाsनुसारेण सर्वं प्रत्यक्षमिष्यते ॥१२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP