प्रत्यक्षसूत्रं - श्लोक १५१ ते १७५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
ननु धर्माsतिरेकेण धर्मिणोsनुपलम्भनात् ।
तत्सङ्घमात्र एवायं गवादिः स्याद्वनादिवत् ॥१५१॥
आदिर्भावतिरोभावधर्मकेष्वनुयायि ( १ ) यत् ।
तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥१५२॥
अतो जात्यादिरूपेण धर्मि यदू गृह्यते नरैः ।
पाररूप्यं न तस्यास्तीत्यप्रामाण्यं न युज्यते ॥१५३॥
‘ यस्यापि व्यतिरेकः स्याद्धर्मेभ्यो धर्मिणः स्फुटः ।
नित्यं तस्यापि ताद्रूप्यान्न मिथ्यात्वं प्रसज्यते ॥१५४॥
योह्यन्यरूपसंवेद्यः संवेद्यो ( १ ) वान्यथा पुनः ।
स मिथ्या न तु तेनैव यो नित्यमवगम्यते ॥१५५॥
न चाsनेकेन्द्रियग्राह्यं भिन्नतां प्रतिपद्यते ।
मा भूद्भिन्नशरीरस्थग्राह्यत्वाद्भिन्नरूपता ॥१५६॥
जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम् ।
तुल्यबुद्धेरतो भिन्ना न सत्तेन्द्रियभेदतः ॥१५७॥
बुद्धिभेदाच्च नैकत्वं रूपादीनां प्रसज्यते ।
एकाsनेकत्वमिष्टं वा सत्तारूपादिरूपतः ॥१५८॥
क्क चिच्च सङ्करान्नाsत्तमेकमित्यवसीयते ।
दार्ढ्यदौर्बल्यभेदेन व्यवस्थाsपि यतः क्क चित् ॥१५९॥
‘ यथा हि मनसः सार्धं रूपादौ चक्षुरादिना ।
प्रवृत्तिः सुखदुःखादौ केवलस्यैव दृश्यते ॥१६०॥
न क्क चित्सङ्कराsभावात्सर्वत्रैव निवर्तते ।
क्क चिच्च सङ्करं दृष्ट्वा सङ्करोsन्यत्र कल्प्यते ’ ॥१६१॥
श्रोत्रादेरुपघातेsपि शब्दादिस्मृतिदर्शनात् ।
वर्तमानस्य चाsज्ञानाद्व्यवस्था संप्रतीयते ॥१६२॥
एकं यदि भवेदक्षं सर्वं( १ )गृह्येत वा न वा ।
कल्प्यते शक्ति भेदश्चेच्छक्तिरेवेन्द्रियं भवेत् ॥१६३॥
श्रृणुयाद्बधिरः शब्दं सङ्करे चक्षुरादिना ।
मनसो वा स्वतन्त्रत्वे वर्तमानाsर्थबुद्धिषु ॥१६४॥
न स्मरेद्बधिरः शब्दं श्रोत्रं चेत्स्मृतिकारणम् ।
स्मृतिवद्वा भवेदस्य वर्तमानार्थधीरपि ॥१६५॥
‘ स्मृतिश्च न भवेत्पश्चादू गृह्णीयात्तन्न चेन्मनः ।
श्रोत्रग्रहणवेलायां’ न च सर्वास्मृतिर्भवेत् ॥१६६॥
बोधात्मकतया पुंसः सर्वत्र ग्रहणं भवेत् ।
युगपद्विषयेsप्यस्य करणाsपेक्षिता न चेत् ॥१६७॥
तस्माज्ज्ञानाsनुसोरण व्यवस्थासङ्करौ क्क चित् ।
ग्राह्यग्राहकशक्तिभ्यः कार्यद्वारेण कल्पितौ ॥१६८॥
चक्षूरूपादिभेदस्तु पञ्चधैव व्यवस्थितः ।
तेन नीलादिभेदेsपि नेन्द्रियाssनन्त्यकल्पना ॥१६९॥
तस्मात् पञ्चभिरप्यत्तैर्बोधः सत्तागुनत्वयोः ।
द्रव्यमूर्ती पुनर्द्वाभ्यां रूपादावेकशः स्थितिः ॥१७०॥
ननु जात्यादिरूपेsपि शब्दाsभेदोपचारतः ।
प्रवर्तमाना मिथ्या स्याद्बुद्धी( १ )रूपेषु बुद्धिवत् ॥१७१॥
न शब्दाsभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक् शब्दादू यादृशी बुद्धिः शब्दादपि हि तादृशी ॥१७२॥
‘ ननु गोत्वादिरूपेण गवाकारादिबुद्धयः ।
न प्राक् शब्दाsर्थसम्बन्धज्ञानात्सन्ति कदा चन ॥१७३॥
जात्यादेस्तत्स्वरूपं चेदशब्दज्ञोsपि लक्षयेत् ।
अन्वयव्यतिरेकाभ्यां शब्दरूपत्वनिश्चयः ’ ॥१७४॥
यथा रूपादयो भिन्नाः प्राक् शब्दात्स्वात्मनैव तु ।
गम्यन्ते तद्वदेवैतत्संज्ञित्वं केवलं परम् ॥१७५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP