प्रत्यक्षसूत्रं - श्लोक १२६ ते १५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


न हि प्रविष्टमात्राणामुष्णादू गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥१२६॥
यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः ।
पश्चात्तत्राsवबुध्यन्ते तथा जात्यादिधर्मतः ॥१२७॥
यदि त्वालोच्य संमील्य नेत्रे कश्चिद्विकल्पयेत् ।
न स्यात् प्रत्यक्षता तस्य सम्बन्धाsननुसारतः ॥१२८॥
असम्बद्धविकल्पेsपि तुल्यमात्मादि कारणम् ।
तेना ( १ ) साधारणत्वं स्यादत्राsक्षस्यैव कल्पने ॥१२९॥
निर्विकल्पकबोधेsपि नाsक्षं केवलकारणम् ।
तत्पारम्पर्यजाते वा रूढिः स्यात् पङ्कजादिवत् ॥१३०॥
अनिमित्तैव वा रूढिः सुतरां सविकल्पकम् ।
प्रत्यक्षं संमतं लोके न तथा निर्विकल्पकम् ॥१३१॥
वृद्धप्रयोगगम्याश्च शब्दार्थाः सर्वएव नः ।
तेन यत्र प्रयुक्तोsयं न तस्मादपनीयते ॥१३२॥
सिद्धाsनुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन नि( १ )वर्तनम् ॥१३३॥
कल्पनायाह स्वसंवित्ताविन्द्रियाधीनता कथम् ।
मनस्तत्रेन्द्रियं चेत् स्यादू गोत्वादावपि तत्समम् ॥१३४॥
स्वसंवित्तौ तदिष्टं चेल्लोको न ह्येवमिच्छति ।
तस्माद्रूढित्वमेष्टव्यं परिभाषिकताsपि वा ॥१३५॥
मनसस्त्विन्द्रियत्वेन सुखदुःखादिबुद्धिषु ।
यथा प्रत्यच्चतैवं नस्तदधीना भविष्यति ॥१३६॥
तदधीनत्वसाम्येsपि कल्पनाsपोढशब्दनात् ।
प्रत्यक्षं किञ्चिदेवेष्ट यथा तव तथैव नः ॥१३७॥
लिङ्गाद्यभावतश्चापि नाsनुमानादिधीरियम् ।
बाधकप्रत्ययाsसत्त्वान्नाsप्रामाण्यं च युज्यते ॥१३८॥
न च पूर्वमदृष्टत्वात् स्मृतित्वमुपपद्यते ।
तस्मात् प्रत्यक्षमेवेदं व्यवहारस्तथैव च ॥१३९॥
जात्याद्यर्थान्तरं यस्मादतद्रूपेsपि वस्तुनि ।
भवत्यध्यस्य धीस्तस्मान्मृगतृष्णादिभिः समा ॥१४०॥
नैतदश्वादिबुद्धीनामध्यारोपाद्यसम्भवात् ।
स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः ॥१४१॥
यदि ह्येकान्ततो भिन्नं विशेष्यात् स्याद्विशेषणम् ।
स्वाsनुरूपां सदा बुद्धिं विशेष्ये जनयेत् कथम् ॥१४२॥
स्फटिकादौ तु लाक्षादिस्वरूपा या मतिर्भवेत् ।
अव्युत्पन्नस्य सा मिथ्या व्युत्पन्नानां हि भेदधीः ॥१४३॥
न तु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदा चन ।
तद्विमोकेन वा तानि लाचादिस्फटिकादिवत् ॥१४४॥
तत्रापि चेन्न दृश्येत भेदः कैश्चित् कदा चन ।
रक्तादिबुद्धिसम्यत्त्व्कं विनिवार्येत केन वा ॥१४५॥
न चाsप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना ।
नाsनिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता ॥१४६॥
तथा च सति सम्बन्धे हेतुः कश्चिन्न विद्यते ।
षण्णामपि ( १ ) न सम्बन्धः पदार्थानां प्रतीयते ॥१४७॥
समवायवियोगाच्च विश्लेषः स्यात् परस्परम् ।
तत्क्लृप्तानवस्था स्यात् तस्य तस्याsन्यसङ्गतः ॥१४८॥
अथ तस्याssत्मरूपत्वान्नाsन्यसम्बन्धकल्पना ।
अभेंदात्समवायोsस्तु स्वरूपं धर्मधर्मिणोः ॥१४९॥
न हि स व्यतिरिक्तः सन् सम्बन्धं प्रतिपद्यते ।
तस्मिंस्ताभ्यामाभिन्ने तु न नानात्वं तयोर्भवेत् ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP