प्रत्यक्षसूत्रं - श्लोक ५१ ते ७५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
विच्छिन्न इति बुद्धिः स्यादधिष्ठानमपेक्ष्य च ।
शब्दे त्वाधिक्यविच्छेदो भ्रान्त्यैवोक्तावसम्भवात् ॥५१॥
पुरुषेन्द्रियशब्दौ च व्यवधानेन कल्पितौ ।
पुरुषो लौकिको वा स्याद्यौ वाsस्मिन् साधयिष्यते ॥५२॥
विक्रिया ज्ञानरूपाsस्य न नित्यत्वे विरोत्स्यते ( १ ) ।
बुद्धिजन्मेति चाप्याह जायमानप्रमाणताम् ॥५३॥
व्यापारः कारकाणां हि दृष्टो जन्माsतिरेकतः ।
प्रमाणेsपि तथा मा भूदिति जन्म विवक्ष्यते ॥५४॥
न हि तत क्षणमप्यास्ते ! जायते बाsप्रमात्मकम् ।
येनाsर्थग्रहणे पश्चादू व्याप्रियेतेन्द्रियादिवत् ’ ॥५५॥
तेन जन्मैव विषये बुद्धेर्व्यापार इष्यते ।
तदेव च प्रमारूपं तद्वती करणं च धीः ॥५६॥
जन्म चाsव्यतिरेकेण भाष्यकारेण वर्णितम् ।
तच्च भूतभविष्यत्त्वात् कृतं बुद्धेर्विशेषणम् ॥५७॥
यदा sप्यौलूक्यासिद्धान्तात् समवायस्य जन्मता ।
बुद्धिस्तत्रेन्द्रियाधीना ( १ ) तेन प्रत्यत्तमश्नुते ॥५८॥
प्रमाणफलभावश्च यथेष्टं परिकल्प्यताम् ।
सर्वथाsप्यनिमित्तत्वं विद्यमानोपलम्भनात् ॥५९॥
यद्वेन्द्रियं प्रमाणं स्यात्, तस्य वाsर्थेन सङ्गतिः ।
मनसो वेन्द्रियैर्योग, आत्मना, सर्व एव वा ॥६०॥
तदा ज्ञानं फलं, तत्र व्यापाराच्च प्रमाणता ।
व्यापारो न यदा तेषां तदा नोत्पद्यते फलम् ॥६१॥
न च सर्वात्मनाsक्षेण सम्बन्धोsर्थस्य विद्यते ।
येन सर्वाsर्थबोधःस्यात्तत्प्रमाणाsभिधायिनाम् ॥६२॥
प्राप्तिमात्रं हि सम्बन्धो नेन्द्रियस्याsभ्योपेयते ।
मा भूत्कारणमात्रेण त्वचा रूपाsवधारणम् ॥६३॥
यथा प्रमाणनिष्पत्तौ योग्यत्वादिन्द्रियाsर्थयोः ।
नियता सङ्गातिर्हेतुः फलेsप्येवं भविष्यति ॥६४॥
योगस्य द्व्याश्रयत्वेsपि भवत्यन्यतराश्रयः ।
व्यपदेशोsथ वाsप्यक्षं तत्रा ( १ ) sसाधारणं भवेत् ॥६५॥
‘ संय़ोगे त्वात्पमनसोः स्याच्चेद्विषयभिन्नता ।
प्रमाणफलयो ’ र्नाsसावर्थे हि व्यापृतं द्वयम् ॥६६॥
अथाsप्याश्रय इष्टस्ते न योगाद्विषयान्तरम् ।
आत्मस्थत्वेन विज्ञानं न भिन्न ( १ ) विषयं ततः ॥६७॥
प्रकृष्ट साधनत्वाच्च प्रत्यासत्तेः स एव नः ।
करणं तेन नाsन्यत्र कारके स्यात् प्रमाणता ॥६८॥
प्रमाणे सर्वसंयोगे दोषो नैकोsपि विद्यते ।
प्रमाणं त्विन्द्रियं यस्य तस्यैको विषयः स्फुटः ॥६९॥
प्रमाणफलते बुद्ध्योर्विशेषणविशेष्ययोः ।
यदा तदापि पूर्वोक्ता भिन्नार्थत्वनिराक्रिया ॥७०॥
‘ विशेषणे तु बोद्धव्ये यदालोचनमात्रकम् ।
प्रसूते निश्चयं पश्चत्तस्य प्रामाण्यकल्पना ॥७१॥
निश्चयस्तु फलं तत्र ’ ‘ नाsसावालोचितो पदा ।
तदा नैव प्रमाणत्वं स्यादर्थाsनवधारणात् ’ ॥७२॥
हानादिबुद्धिफलता प्रमाणं चेद्विशेष्यधीः ।
उपकारादिसंस्मृत्या व्यवायश्चेदियं ( १ ) फलम् ॥७३॥
विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् ।
साध्यसाधनयोर्भेदो लौकिकस्तेन बाधितः ॥७४॥
छेदने खदिरप्राप्ते पलाशे न च्छिदा यथा ।
तथैव परशोर्लोके च्छिदया सह नैकता ॥७५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP