संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
तृतीयोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - तृतीयोऽध्यायः

श्रीशिवरहस्यम्


सूतः -
ततो महेशात् संश्रुत्य सूत्राणि ऋभुरेव हि । कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥१॥
लब्धज्ञानो महादेवान्मुनिभ्योऽकथयच्च तत् । तत् स्तुतिं च श्रृणुष्वेति जगाद गिरिजासुतः ॥२॥
जैगीषव्यं महात्मानं जितषङ्वर्गमुत्तमम् ।
स्कन्दः -
संस्तुत्य सांबमीशानमृभुर्ज्ञानमविन्दत । शांभवः स महायोगी तुष्टावाष्टतनुं हरम् ॥३॥
ऋभुः -
गन्धद्विपवरबृन्दत्वचिरुचिबन्धोद्यतपट गन्धप्रमुख मदान्धव्रजदलि हरिमुखनखरोद्यत्
स्कन्धोद्यन्मुख बन्धक्षुरनिभ निर्यद्रसदसृभिन्दन्नगधर विन्ध्यप्रभशिव मेध्यप्रभुवर ।
मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत वेद्यागमशिव गद्यस्तुतपद पद्यप्रकटहृदुद्यद्भवगद वैद्योत्तम पाहि शंभो ॥४॥
चण्डद्वियकर काण्डप्रभभुज दण्डोद्यतनग खण्डत्रिपुर महाण्डस्फुटदुडुपशिखण्ड ।
द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शंभो ॥५॥
किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्वृजिन् कुलुंचद्विजपति चञ्चच्छविजट कुञ्चत्पदनख मुञ्चन्नतवर करुणा पाहि शंभो ॥६॥
देव शङ्कर हरमहेश्वर पापतस्कर अमरमयस्कर शिवदशंकर पुरमहेश्वर भवहरेश्वर पाहि शंभो ॥७॥
अङ्गजभङ्ग तुरङ्गरथाङ्ग जलधिनिषङ्ग धृतभुजङ्गाङ्ग दृशि सुपतङ्ग करसुकुरङ्ग जटधृतगङ्ग्यमिहृदिसङ्ग भजशिवलिङ्ग भवभयभङ्ग ॥८॥
शबरकरशर दम्बरवरचर डंबरघोषण दुंबरफलजग निकुरंबभरहर बिंबितहृदिचिर लंबितपदयुग लंबोदरजनकान्तकहर शिव बिन्दुवरासन बिन्दुगहन शरदिxवदनवर कुन्दधवल गणवृन्दविनत भवभयहर परवर करुणाकरः फणिवरभूषण स्मर हर गरधर परिपाहि ॥९॥
रासभवृषभेभ शरभाननगणगुणनन्दितत्रिगुणपथातिग शरवणभवनुत तरणिस्थित वरुणालय कृतपारण मुनिशरणायित पदपद्मारुण पिङ्गजटाधरकुरु करुणां शङ्कर शं कुरु मे ॥१०॥
जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहर भिन्दद्रणगण डिम्भायितसुर तारकहरसुत कुंभ्यद्यतपद विन्ध्यस्थितदितिमान्द्यप्रहर मदान्धद्विपवर कृत्तिप्रवर सुधान्धोनुतपद बुद्ध्यागमशिव मेध्यातिधिवरद ममावन्ध्यं कुरु दिवसं तव पूजनतः परिपाहि शंभो ॥११॥
कुन्दसदृश मकरन्दनिभसुरबृन्दविनुत कुरुविन्दमणिगण वृन्दनिभाङ्घ्रिजमन्दर वसदिन्दुमकुट शरदंबुजकृश गरनिन्दनगल सुन्दरगिरितनयाकृति देहवराङ्गबिन्दूकलित शिवलिङ्गगहन सुतसिन्दरवरमुख बन्धुरवरसिन्धुनदीतट लिङ्गनिवहवरदिग्वस पाहि शंभो ॥१२॥
पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण ।
आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शंभो ॥१३॥
दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थित सितवक्षस्स्थलकुलचक्षुःश्रवस वराक्षस्रज हर ।
वीक्षानिहताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारण लीक्षायितसुर भिक्षाशन
हर पद्माक्षार्चनतुष्ट भगाक्षिहराव्यय शङ्कर मोक्षप्रद परिपाहि महेश्वर ॥१४॥
अक्षयफलद शुभाक्ष हराक्षततक्षाकक्र गरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय ।
पुरहर भव हर हरिशर शिव शिव शङ्कर कुरु कुरु करुणां शशिमौले ॥१५॥
भज्याम्यगसुताधवं पशुपतिं महोक्षध्वजं वलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकम् ।
भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरं प्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजम् (?) ॥१६॥
श्रीनाथाक्षिसराजराजितपदांभोजैकपूजोत्सवैर्नित्यं मानसमेतदस्तु भगवन् सद्राजमौले हर ।
भूषाभूतभुजङ्गसङ्गत महाभस्माङ्गनेत्रोज्वलज्ज्वालादग्धमनङ्गपतङ्गदृगुमाकान्ताव गङ्गाधर ॥१७॥
स्वात्मानन्दपरायणांबुजभवस्तुत्याऽधुना पाहि मां
.........       .........       .........      .........       .........      ।
गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुख -
हर आखुवहोन्मुख लेखगणोन्मुख शङ्कर खगगमपरिपूज्य ॥१८॥
कोटिजन्मविग्रकर्मशुद्धचित्तवर्मनां श्रौतसिद्धशुद्धभस्मदग्धसर्ववर्ष्मणाम् ।
रुद्रभुक्तमेध्यभुक्तिदग्धसर्वपाप्प्रनां रुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकाम् ।
पुरहर इष्टतुष्टिमुक्तिलास्यवास(ना) भक्तिमासकैलासमीश आशु लभ्यते ॥१९॥
स्कन्दः -
तत्स्तुत्या तोषितः शंभुस्तमाह ऋभुमीश्वरः । प्रपन्नः करुणाम्भोधिरम्भोजसुतमोदनः ॥२०॥
ईश्वरः -
वेदान्तपाठपठनेन हठादियोगैः श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।
ये कर्मठा यतिवरा हरिसौरिगेहे सालावृकैर्वरकठोरकुठारकुठारघातैः ॥२१॥
भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते भिक्षाशना जरठरासभवद्भ्रमन्ति ॥२२॥
विद्युच्चञलजीवितेऽपि न मनागुत्पद्यते शांभवी भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ट्रेऽपि च ।
रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां विष्ठाविष्टकुनिष्ठकष्टकृधियां दुष्टात्मनां सर्वदा ॥२३॥
भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां ज्येष्ठश्रीशिषिविष्टचारुचरणां भोजार्चनानादरः ।
तेनानिष्टपरं परासमुदयैरष्टाकृतेर्न स्मृतिः विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥२४॥
अज्ञायत्ते(?)ष्वभिज्ञाः सुरवरनिकरं स्तोत्रशस्त्रादितुष्टं
सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति ।
श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान् पितॄंस्ते
तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥
नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥२५॥
आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा ।
पर्वस्वप्यविशेषितेन मनसा गर्व विहायादरात् दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥२६॥
श्रीचन्द्रचूडचरणांबुजपूजनेन कालं नयन्ति पशुपाशविमुक्तिहेतोः ।
भावाः परं भसितफाललसत्त्रिपुण्ट्ररुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥२७॥
पंचाक्षरप्रणबसूक्तधिया वदन्ति नामानि शांभवमनोहरदानि शंभो ।
मुक्तिप्रदानि सततं शिवभक्तवर्याः ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥२८॥
कालं नयेद्विमलकोमलबिल्वपत्रैः नो तस्य कालजभयं भवतापपापम् ।
सन्तापभूपजनितं भजतां महेशम् ॥२९॥
शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो
विश्वत्रस्तो भुजङ्गाङ्गदरवरगिरिजानायके लब्धभक्तिः ।
मृग्धोऽप्यध्यात्मविदू यो भवति भवहरस्यार्चया प्राप्तकामः ॥३०॥
शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः
मीमांसा द्वयतस्तथाद्वयपदं किं सांख्यासंख्या वद(?) ।
योगायासपरंपरादिविहितैर्वेदान्ताकान्तारके
श्राम्यन् भक्तिविवर्जितेन मनसा शंभोः पदे मुक्तये ॥३१॥
किं गंगया वा मकरे प्रयागस्नानेन वा योगमखक्रियाद्यैः ।
यत्रार्चितं लिङ्गवरं शिवस्य तत्रैव सर्वार्थपरंपरा स्यात् ॥३२॥
श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ श्रीमद्धेविहार(भगवन्)नृत्तं त्रिनेत्रो गिरिः ।
कैलासोत्तरदक्षिणौ च भगवान् यत्रार्चने शङ्करो लिङ्गे सन्निहितो वसत्यनुदिनं शाङ्कस्य हृत्पङ्कजे ॥३३॥
तत्राविमुक्तं शशिचूडवासमोङ्कारकालञ्जररुद्रकोटिम् ।
गङ्गाबुधेः सङ्गममम्बिकापतिप्रियं तु गोकर्णकसह्यजातटम् ॥३४॥
यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा
लिङ्गं पूजित्मप्यपास्तदुरितं तीर्थानि गङ्गादयः ।
पुण्याश्चाश्रमसंघका गिरिवरक्षेत्राणि शंभोः पदं
भक्तियुक्तभजनेन महेश शक्तिवज्जगदिदं परिभाति ॥३५॥
कर्मन्दिबृन्दा अपि वेदमौलिसिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।
कामादिबद्धहृदयाः सितभस्मपुण्ट्ररुद्राक्षशङ्करसमर्चनतो विहीनाः ॥३६॥
हीना भवन्ति बहुधाप्यबुधा भवन्ति मत्प्रेमवासभवनेषु विहीनवासाः ॥३७॥
अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै
भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।
गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे
तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥३८॥
ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ
भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् ।
शंभोस्तीर्थमहत्सुतीर्थवरके निन्दा वरे शाङ्करे
( द्रोहस्तदर्थेषु च ) श्रीमद्रुद्रजपाद्यकरणात् ज्ञानं न चोत्पद्यते ॥३९॥
ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्
रुद्राक्षामलसारमन्त्रसुमहापञ्चाक्षरे जापिनाम् ।
ईशस्थाननिवासशांभवकथा भक्तिश्च संकीर्तनं
भक्तस्यार्चनतो भवेत सुमहाज्ञानं परं मुक्तिदम् ॥४०॥
आद्यन्तयोर्यः प्रणवेन युक्तं श्रीरुद्रमन्त्रं प्रजपदेघघ्नम् ।
तस्यांघ्रिरेणुं शिरसा वहन्ति ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥४१॥
अपूर्वाथर्वोक्तश्रुतिशिरसि विज्ञानमनघं महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् ।
मुने हृत्पर्वाणां विशसनकरं सप्तमनुभिर्व्रतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥४२॥
गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं
मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।
अनन्यो मार्गोऽयं अकथितमिदं त्वय्यपि मुदा
यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥४३॥
स्कन्दः -
इति स्तुत्वा शंभोः प्रमुदितमनास्त्वेष स ऋभुः मुनिर्नत्वा देवं नगमनमदीशस्य निलयम् ।
यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतो मुनीन्द्रेष्वाहेदं तदपि श्रृणु विप्रोत्तम हृदा ॥४४॥
ऋभृः -
पतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वरा भवत्वधरसंप्लवा ग्रहगणाः सुरा यान्वधः ।
भवज्जनिम पूजनान्मम मनो न यात्यन्यतः शपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥४५॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवऋभुसंवादो नाम तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP