शङ्कराख्यः षष्ठोऽम्शः - द्विचत्वारिंशोऽध्यायः
श्रीशिवरहस्यम्
ऋभुः -
श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् । मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥१॥
निदाधः -
श्रृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् । ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥२॥
सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् । नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥३॥
एतावन्तमिमं कालमज्ञानरिपुणा हृतम् । महद्भयं च नष्टं मे कर्मतत्वं च नाशितम् ॥४॥
अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् । पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥५॥
पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् । अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥६॥
पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः । सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥७॥
सर्वं प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् । सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥८॥
अहमेव चिदाकाश अहमेव हि चिन्मयः । अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥९॥
अहमेवाहमेवेति भावनापि विनिर्गता । अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥१०॥
शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः । वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥११॥
तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् । अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥१२॥
अहमेवान्तरात्मा हि अहमेव परायणम् । अहमेव सदाधार अहमेव सुखात्मकः ॥१३॥
त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः । त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥१४॥
त्वत्प्रसादादाहं चिद्वै त्वत्प्रसादान्न मे जगत् । त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥१५॥
त्वत्प्रसादाव्द्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः । त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत् सुखम् ॥१६॥
त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न । त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन् ॥१७॥
त्वत्प्रसादान्न मे किञ्चित् त्वत्प्रसादान्न मे विपत् । त्वत्प्रसादान्न मे भेदस्तत्प्रसादान्न मे भयम् ॥१८॥
त्वत्प्रसादान्न मे रोगस्त्वत्प्रसादान्न मे क्षतिः ।
यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदंघ्र्यर्चना -
दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।
तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥१९॥
किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।
तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं भूभानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥२०॥
ये शांभवाः शिवरताः शिवनाममात्र -
शब्दाक्षरज्ञहृदया भसितत्रिपुण्ट्राः ।
यां प्राप्नुवन्ति गतिमीशपदांबुजोद्यद् -
ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥२१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 17, 2017
TOP