शङ्कराख्यः षष्ठोऽम्शः - नवचत्वारिंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
पुरा मगधदेशीयो ब्राह्मणो वेदपारगः । उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥१॥
नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमम् । वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥२॥
मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् । विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥३॥
गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् । उवास नियतं विप्रो विष्णुध्यानपरायणः ॥४॥
दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः । मोक्षोच्छोराजुहावैनं पुरतोद्भूय(?)तं द्विजम् ॥५॥
विष्णुः -
औचथ्य मुनिशार्दूल तपस्यभिरतः सदा । वृणु ददाम्येव विना ज्ञानं द्विजोत्तम ॥६॥
सूतः -
इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः । प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥७॥
सुदर्शनः -
विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर । त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥८॥
किमन्यैर्धर्मकामाथैर्नश्वरैरिह शङ्खभृत् । इत्युक्तं तद्वचः श्रुत्वा विष्णुः प्राह सुदर्शनम् ॥९॥
विष्णुः -
सुदर्शन श्रृणुष्वैतन्मत्तो नान्यमना द्विज । वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥१०॥
मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥११॥
तदर्चनेन संप्राप्तं मया पूर्वं सुदर्शनम् । सहस्रारं दैत्यहन्तृ साक्षात् त्र्यक्षप्रपूजया ॥१२॥
तमाराधय यत्नेन भस्मधारणपूर्वकम् । अग्निरित्यादिभिर्मन्त्रिअस्त्रियायूषत्रिपुण्ट्रकैः ॥१३॥
रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः । शिवलिङ्गं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥१४॥
वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे । अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥१५॥
बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम । यस्य फालतलं मेऽद्य त्रिपुण्ट्रपरिचिन्हितम् ॥१६॥
ब्रह्मेन्द्रद्वमुनिभिस्त्रिपुण्ट्रं भस्मना धृतम् । पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥१७॥
पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥१८॥
कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयन्त्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥१९॥
मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥२०॥
ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् । तस्मात् त्वमपि भक्त्यैव समाराधय शङ्करम् ॥२१॥
पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषाः पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥२२॥
प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥२३॥
प्रसाजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥२४॥
प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् । प्रसादे शांभवे जाते भुक्तिमुक्तीकरे स्थिते ॥२५॥
तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्विल्वैर्लिङ्गस्य पूजनम् ॥२६॥
तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥२७॥
तस्य प्रीतिकरं भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं प्रदोषे शिवपूजनम् ॥२८॥
तस्य प्रीतिकरं रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं शिवभक्तजनार्चनम् ॥२९॥
तस्य प्रीतिकरं सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं तन्निर्माल्यैकभोजनम् ॥३०॥
तस्य प्रीतिकरं अष्टमीषवर्चनं निशि । तस्य प्रीतिकरं चतुर्दश्यर्चनं निशि ॥३१॥
तस्य प्रीतिकरं तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥३२॥
अन्यदभ्युदयं विप्रं श्रुतिस्मृतिषु कीर्तितम् । धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥३३॥
अविमुक्ते विशेषे शिवो नित्यं प्रकाशते । तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥३४॥
तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः । तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥३५॥
तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं संप्रयच्छति । तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥३६॥
ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः । तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥३७॥
तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि । इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥३८॥
स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः (?) । तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥३९॥
धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् । पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥४०॥
बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः । तुष्टाव प्रणिपत्यैवं सद्विजो मधुसूदनः ॥४१॥
सुदर्शनविष्णू -
भज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् ।
भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥४२॥
वेदघोषभटखाटकावधृक् देहदाहदहनामल काल ।
जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥४३॥
शंबराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।
वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥४४॥
मदगजवरकृत्तिवास शंभो मधुमदनाक्षिसरोरुहार्च्यपाद ।
यममददमनान्धशिक्ष शंभो पुरहर पाहि दयाकटाक्षसारैः ॥४५॥
अपां पुष्पं मौलौ हिमभयहरः फालनयनः
जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः ।
गरं कण्ठे यस्य त्रिभुवनगुरोः शंबरहर
मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥४६॥
श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।
स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥४७॥
यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छांभवो
भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गना -
कान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।
विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्तांघ्रिपङ्केरुह -
ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥४८॥
कामारातिपदाम्बुजार्चनरतः पापानुतापाधिकव्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।
नो दूयेत विशेषसन्ततिमहासारानुकारादरादाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥४९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादे शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 17, 2017
TOP