शङ्कराख्यः षष्ठोऽम्शः - चतुर्विंशोऽध्यायः
श्रीशिवरहस्यम्
ऋभुः -
पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः । असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥१॥
ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः । तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥२॥
सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चिन । अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥३॥
अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च । शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजोन ( ज ) रः ॥४॥
देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् । अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥५॥
अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् । परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥६॥
गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् । शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥७॥
कालाकालविहीनोऽहमात्मानात्मविवर्जितः । लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥८॥
अहमेवाहमेव्माहमनन्तरनिरनन्तरम् । शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः (?) ॥९॥
इत्यादिशब्दमुक्तोऽहं इत्याद्यं च नचास्म्यहम् । इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥१०॥
निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः । लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥११॥
व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः । अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥१२॥
सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जिथ । न कदाच्न मुक्तोऽहं न बद्धोऽहं कदाचन ॥१३॥
एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर । एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥१४॥
चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा । सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥१५॥
सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः । चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥१६॥
यत् किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् । आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥१७॥
इदं दुःखमिदं सौख्यमिदं भाति अहं न हि । सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥१८॥
अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् । अहं ब्रह्म न संदेह अहमेव परात् परः ॥१९॥
अहं चैतन्यभूतात्मा देहो नास्ति कदाचन । लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥२०॥
अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः । कामादिवर्जितोऽतीतः कालभेदपरात्परः (?) ॥२१॥
ब्रह्मैवेदं न संवेद्यं नाहं भावं न चा नहि । सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥२२॥
निश्चयं च न मे किञ्चित् चिन्ताभावात् । चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥२३॥
एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव । सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥२४॥
सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः । सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥२५॥
नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः । एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥२६॥
महत्सङ्गे महद्ब्रह्मभावनं परमं पदम् । अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥२७॥
अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः । एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥२८॥
सर्वसङ्कल्पहीनोऽहं सर्वंवृत्तिविवर्जितः । अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः (?) ॥२९॥
सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् । समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥३०॥
अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूवान् । नादान्तरोऽतं नादोऽहं नामरूपविवर्जितः ॥३१॥
अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः । एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥३२॥
एवमेव हि नित्यात्मभावनेन सुखी भव । एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥३३॥
सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति । आत्माकारमिदं विश्वमात्माकारमहं महत् ॥३४॥
आत्मैव नान्यद्भृतं वा आत्मैव मन एव हि । आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्कचित् ॥३५॥
आत्मैव वृत्तिमद्भाति आत्मैव क्रोधवत् सदा । आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥३६॥
आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् । आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥३७॥
अर्थवादवदात्मा हि परमात्मोपपत्ति हि । इच्छा प्रारभ्य ( ब्ध ) वद्ब्रह्म इच्छा मारभ्यवत् परः ॥३८॥
परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि । अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥३९॥
परमात्मैवाधिकारो विषयं परमात्मनः । संबन्धं परमात्मैव प्रयोजनं परात्मकम् ॥४०॥
ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् । ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥४१॥
सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् । सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥४२॥
शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् । ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥४३॥
ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् । देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥४४॥
एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः । अत्यन्तं सर्वशान्तत्वं देहो मुक्तिसमाधिकम् ॥४५॥
एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् । सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥४६॥
सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि । न स्थास्यामीति विस्मृत्य भास्यामीति च विस्मर ॥४७॥
चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज । त्यजनं च परित्यज्य भावनं च परित्यज ॥४८॥
सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज । स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥४९॥
स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा । महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥५०॥
प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् । स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥५१॥
अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् । सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ॥५२॥
एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।
भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः
स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।
सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ
कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥५३॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP