शङ्कराख्यः षष्ठोऽम्शः - पञ्चमोऽध्यायः
श्रीशिवरहस्यम्
निदाघः -
एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते । तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥१॥
ऋभुः -
त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः । त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥२॥
त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः । त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥३॥
कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा । कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्धनः ॥
सर्वतत्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥४॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥५॥
समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिषादितोऽसि ।
सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मासि पूर्णोऽसि परापरोऽसि ॥६॥
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
सर्वत्र संकल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥७॥
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥८॥
चिदाकारस्वरूपोऽसि चिन्तात्रोऽसि निरङ्कुशः । आत्मन्येवावस्थितोऽसि त्वं बह्मासि न संशयः ॥९॥
आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः । एक एवाद्वितीयोऽसि त्वं बह्मासि न संशयः ॥१०॥
चिद्धनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा । परिपूर्णस्वरूपोऽसि त्वं बह्मासि न संशयः ॥११॥
तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं बह्मासि न संशयः ॥१२॥
अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि । चञ्चलोष्ठकलङ्कोऽसि त्वं बह्मासि न संशयः ॥१३॥
सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि । कारणं त्वं प्रशान्तोऽसि त्वं बह्मासि न संशयः ॥१४॥
सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि । नित्यशुद्धस्वरूपोऽसि त्वं बह्मासि न संशयः ॥१५॥
ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥१६॥
योऽसि सोऽसि महान्तोऽसि त्वं बह्मासि न संशयः ॥१७॥
लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः । अखण्डैकरसो नित्यं त्वं बह्मासि न संशयः ॥१८॥
सर्वाधारस्वरूपोऽसि सर्वतेज स्वरूपकः । सर्वार्थभेदहीनोऽसि त्वं बह्मासि न संशयः ॥१९॥
ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः । शिवोऽसि भेदहीनोऽसि त्वं बह्मासि न संशयः ॥२०॥
प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपस्थोतोऽसि त्वं त्वं बह्मासि न संशयः ॥२१॥
स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि । स्वानन्दसिन्धुमग्रोऽसि त्वं बह्मासि न संशयः ॥२२॥
स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि । स्वयं पूर्णस्वरूपोऽसि त्वं बह्मासि न संशयः ॥२३॥
स्वस्मिन् सुखे स्वय चासि स्वम्मात किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं बह्मासि न संशयः ॥२४॥
स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि । स्वस्वरूपामृतोऽसि त्वं त्वं बह्मासि न संशयः ॥२५॥
स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृंभसि । स्वस्वरूपादनन्योऽसि त्वं बह्मासि न संशयः ॥२६॥
स्वयं स्वयं सदाऽसि त्वं स्वयं सर्दत्र पश्यसि । स्वस्मिन् स्वयं स्वयं भुङ्क्षे त्वं बह्मासि न संशयः ॥२७॥
सूतः -
तदा निदाघवचसा तुष्टो ऋभुरुवाच तम् । शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥२८॥
ऋभुः -
कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् । तदेव ते प्रवक्ष्यामि सावधानमनाः श्रृणु ॥२९॥
अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्कचित् । चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥३०॥
न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥३१॥
मायाकार्यादिकं नास्ति मायाकार्यभयं नहि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥३२॥
कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक । केवलं ....... ....... ....... सर्वदा ॥३३॥
एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न । केवलं ....... ....... ....... सर्वदा ॥३४॥
श्रवणं मननं नास्ति निदिध्यासनविभ्रमः । केवलं ....... ....... ....... सर्वदा ॥३५॥
समाधिद्विविधं नास्ति मातृमानादि नास्ति हि । केवलं ....... ....... ....... सर्वदा ॥३६॥
अज्ञानं चापि नास्त्येव अविवेककथा न च । केवलं ....... ....... ....... सर्वदा ॥३७॥
अनुबन्धचतुष्कं च संबन्धत्रयमेव न । केवलं ....... ....... ....... सर्वदा ॥३८॥
भूतं भविष्यन्न क्कापि वर्तमानं न वै क्कचित् । केवलं ....... ....... ....... सर्वदा ॥३९॥
गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ....... ....... ....... सर्वदा ॥४०॥
न भूमिर्न जलं वह्निर्न वायुर्न च खं क्कचित् । केवलं ....... ....... ....... सर्वदा ॥४१॥
नैव देवा न दिक्पाला न पिता न गुरुः क्कचित् । केवलं ....... ....... ....... सर्वदा ॥४२॥
न दूरं नास्तिकं नान्तं न मध्यं न क्कचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥४३॥
न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि । क्कचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥४४॥
द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्कचित् । न वृद्धिर्नोदयो मृत्युर्न गमागमाविभ्रमः ॥४५॥
इह नास्ति परं नास्ति न गुरुर्नच शिष्यकः । सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥४६॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥४७॥
सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं नहि ॥४८॥
अहमित्येव नास्त्येव नित्योऽस्मीति च न क्कचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥४९॥
वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥५०॥
योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतम् । जाग्रत्स्वप्रसुषुप्तिं च स्वप्नं वा न तुरीयकम् ॥५१॥
सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।
स्नानाच्छुद्धिर्न हि क्कापि ध्यानात् शुद्धिर्नहि क्कचित् ॥५२॥
गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥५३॥
भ्रान्त्यभ्रनति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु । केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥५४॥
इदं श्रृणोति यः सम्यक् स ब्रह्म भवति स्वयम् ॥५५॥
ईश्वरः -
वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा -
कान्तेनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥५६॥
हरं विज्ञातारं निखिलतनुकार्येषु करनं न जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।
उमानाथाकारं हृदयदहरान्तर्गतसरापयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥५७॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP