संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
दशमोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - दशमोऽध्यायः

श्रीशिवरहस्यम्


नित्यतर्पणमाचक्ष्ये निदाघ श्रृणु मे वचः । वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥१॥
सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि । ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥२॥
सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् । आनन्दघन एवाहं इत्येवं ............  ............ ॥३॥
सर्वदा सर्वशून्योऽ‍हं सदात्मानन्दवानहम् । नित्यानित्यस्वरूपोऽहं इत्येवं ............  ............ ॥४॥
अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा । आत्मानाऽऽत्मनि तृप्तोऽहं इत्येवं ............  ............ ॥५॥
एवत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः । नित्यशुद्धस्वरूपोऽहं इत्येवं ............  ............ ॥६॥
आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् । सर्वप्रकाशरूपोऽहं इत्येवं ............  ............ ॥७॥
परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् । सत्रामात्रास्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥८॥
यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् । शुद्धमोक्षस्वरूपोहं इत्येवं ब्रह्मतर्पणम् ॥९॥
सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । विज्ञानमात्ररूपोऽह इत्येवं ............  ............ ॥१०॥
ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे । तदेवाहं न सन्देहः इत्येवं ............  ............ ॥११॥
त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन । शुद्धचैतन्यमात्रोऽहं इत्येवं ............  ............ ॥१२॥
अत्यन्ताभावरूपोऽहमहमेव परात्परः । अहमेव सुखं नान्यत् इत्येवं ............  ............ ॥१३॥
इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे । निर्गुणानन्दरूपोऽहं इत्येवं ............  ............ ॥१४॥
साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा । केवलं ब्रह्मभावत्वात् इत्येवं ............  ............ ॥१५॥
अहमेवाविशेषोऽहं अहमेव हि नामकम् । अहमेव विमोहं वै इत्येवं ............  ............ ॥१६॥
इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् । बन्धमुक्तिविहीनोऽस्मि इत्येवं ............  ............ ॥१७॥
सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् । नित्यचैतन्यमात्रोऽहं इत्येवं ............  ............ ॥१८॥
वाचामगोचरश्चाहं वाड्मनो नास्ति किञ्चन । चिदानन्दमयश्चाहं इत्येवं ............  ............ ॥१९॥
सर्वत्र पूर्णरूपोऽहं सवत्र सुखमस्म्यहम् । सर्वत्राचिन्त्यरूपोऽ‍हं इत्येवं ............  ............ ॥२०॥
सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् । सर्वशून्यस्वरूपोऽहं इत्येवं ............  ............ ॥२१॥
सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् । एक एवाहमेवाहं इत्येवं ............  ............ ॥२२॥
मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् । सर्वनिर्वाणरूपोऽहं इत्येवं ............  ............ ॥२३॥
सर्वदा सत्स्वरूपोऽहं तुर्यवानहम् । तुर्यातीतस्वरूपोऽहं इत्येवं ............  ............ ॥२४॥
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । निर्विकल्पस्वरूपोऽहं इत्येवं ............  ............ ॥२५॥
सर्वदा ह्यजरूपोऽहं निरीहोऽ‍हं निरञ्जनः । ब्रह्मविज्ञानरूपोऽहं इत्येवं ............  ............ ॥२६॥
ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥२७॥
नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् । सर्वशास्त्रार्थमद्वैतं सावधानमनाः श्रृणु ॥२८॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ओंकारार्थस्वरूपोऽस्मि एवं होमं (?) सुदुर्लभम् ॥२९॥
परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् । चिदानन्दस्वरूपोऽस्मि एवं .........  ......... ॥३०॥
नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् । चिदाकारस्वरूपोऽहं एवं .........  ......... ॥३१॥
न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् । निर्व्यापारस्वरूपोऽस्मि एवं .........  ......... ॥३२॥
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् । न बुद्धिर्न विकल्पोऽहं एवं ॥३३॥
न देहादिस्वरूपोऽस्मि त्रयादिपरिवर्जितः । न जाग्रत्स्वप्नरूपोऽस्वि एवं .........  ......... ॥३४॥
श्रवणं मननं नास्ति निदिध्यासनमेव हि । स्वगतं च न मे किञ्चिदेवं एवं .........  ......... ॥३५॥
असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् । अहङ्कारमसद्विद्वि कालत्रयमसत् सदा ॥३६॥
गुणत्रयमसद्विद्वि एवं .........  ......... ॥३७॥
श्रुतं सर्वमसद्विद्वि वेदं सर्वमसत् सदा । सर्वतत्वमसद्विद्वि एवं .........  ......... ॥३८॥
नानारूपमसद्विद्वि नानावर्णमसत् सदा । नानाजातिमसद्विद्वि एवं .........  ......... ॥३९॥
शास्त्रज्ञानमसद्विद्वि वेदज्ञानं तपोऽप्यसत् । सर्वतीर्थमसद्विद्धि एवं .........  ......... ॥४०॥
गुरुशिष्यमसद्विद्वि गुरोर्मन्त्रमसत् ततः । यद् दृश्यं तदसद्विद्वि एवं .........  ......... ॥४१॥
सर्वान् भोगानसद्विद्वि यच्चिन्त्यं तदसत् सदा । यद् दृश्यं तदसद्विद्वि एवं .........  ......... ॥४२॥
सर्वेन्द्रियमसद्विद्वि सर्वमन्त्रमसत् त्विति । सर्वप्राणानसद्विद्वि एवं .........  ......... ॥४३॥
जीवं देहमसद्विद्वि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्वि एवं .........  ......... ॥४४॥
दृष्टं श्रुतमसद्विद्वि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्वि एवं .........  ......... ॥४५॥
दृष्टप्राप्तिमसद्विद्वि सन्तोषमसदेव हि । सर्वकर्मान्य़सद्विद्वि एवं .........  ......... ॥४६॥
सर्वासर्वमसद्विद्वि पूर्णापूर्णमसत् परे । सुखं दुःखमाद्विद्वि एवं .........  ......... ॥४७॥
यथाधर्ममसद्विद्वि पुण्यपुण्यमसत् सदा । लाभालाभमसद्विद्वि सदा देहमसत् सदा ॥४८॥
सदा जयमसद्विद्वि सदा गर्वमसत् सदा । मनोमयमसद्विद्वि संशयं निश्चयं तथा ॥४९॥
शब्दं सर्वमसद्विद्वि स्पर्शं सर्वमसत् सदा । रूपं सर्वमसद्विद्वि रसं सर्वमसत् सदा ॥५०॥
गन्धं सर्वमसद्विद्वि ज्ञानं सर्वमसत् सदा । भूतं भव्यमसद्विद्वि असत् प्रकृतिरुच्यते ॥५१॥
असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं .........  ......... ॥५२॥
शशश्रृङ्गवदेव त्वं शशश्रृङ्गवदस्म्यहम् । शशश्रृङ्गवदेवेदं शशश्रॄङ्गवदन्तरम् ॥५३॥
इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥५४॥
स्कन्दः -
यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो
विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्
जातं चापि जनिष्यति प्रतिभवं देवासुरै र्निर्यपि (?) ॥५५॥
तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥
यः प्राणापानभेदैर्मनमननधिया धारणापञ्चकाद्यैः
मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।
बुद्ध्यादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥५६॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP