वहिल्लकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


युक्त्यैव नाशयिष्यामि नृपतेर्व्यसनामयम् ।
मन्त्रिभिः परिरक्ष्यन्ते सोन्मदा हि नरेश्वराः ॥११॥
मगधाधिपतेः पुत्रीं यदि पद्मावतीं नृपः ।
प्रोप्नोत्यस्मत्प्रयत्नेन तदेषा नः सहायता ॥१२॥
श्रुत्वेति मन्त्रिवचनं सेनापतिरभाषत ।
चक्रवर्तिवधूः सा हि भाविनीति श्रुतं मया ॥१३॥
न हि वासवदत्तायां सक्तायास्मै महीभुजे ।
ददाति मगधाधीशो याचितोऽपि प्रियां सुताम् ॥१४॥
इत्याकर्ण्याब्रवीन्मन्त्री दग्धा देवीति कृत्रिम म् ।
कृत्वा प्रयोगं सावश्यं लभ्यते मगधात्मजा ॥१५॥
श्रुत्वेति सेनाधिपतिः प्राह साहसशङ्कितः ।
कथं नु सहते राजा दग्धा देवीति दुर्वचः ॥१६॥
वियोज्यते नृपो देव्या यदेतच्छमलङ्घनम् ।
संशयाय वियोगो हि यूनोर्बद्धानुरागयोः ॥१७॥
विशाखिलेन वणिजा मथुरावासिना पुरा ।
वहिल्लकाख्यः सचिवो विसृष्टो रत्नविक्रये ॥१८॥
तेनादिष्टः स निपुणे युवजानिर्धनार्जने ।
ययौ प्रिया समामन्त्र्य सस्तभ्य विरहव्यथाम् ॥१९॥
सापि तस्मिन्गते द्वारकपाटलम्बिनी चिरम् ।
तद्वर्त्म वीक्ष्य शनकैर्बभूव गजजीविता ॥२०॥
निवर्तितोऽथ तद्भर्ता दृष्ट्वा तां च तथागताम् ।
शोचन्व्यसुरभूदेवं दुःसहो विरहानलः ॥२१॥
इति वहिल्लकाख्यायिका ॥२॥

N/A

References : N/A
Last Updated : October 05, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP