परिव्राडाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पुरा विवेश भिक्षार्थं कस्यचिद्वणिजो गृहम् ।
परिव्राट्‍ प्रयतो मौनी किंचिन्मीलितलोचनः ॥३६॥
भिक्षादानोद्यतकरां स ददर्श वणिक्सुताम् ।
कल्पितामिव कामेन मनःसारङ्गवागुराम् ॥३७॥
तां दृष्ट्वा मन्मथाविष्टस्त्यक्त्वा मौनमनन्यधीः ।
हा कष्टं कष्टमित्याह तच्छ्रुत्वा निर्ययौ वणिक् ॥३८॥
सोऽब्रवीत्कौतुकाविष्टो भगवन्सहसैव किम् ।
परित्यक्तं त्वया मौनमिति पृष्टोऽभ्यधाच्च सः ॥३९॥
दुर्भगा तव कन्येयं शरीरधनहारिणी ।
त्यजैनां निशि गङ्गायां मञ्जूषे सुपिधानके ॥४०॥
मूर्ध्ना प्रदीपं विन्यस्य ततस्त्वं मोक्ष्यसे भयात् ।
इत्युक्त्वा स्वाश्रमं प्रायात्परिव्राट्‍ तदनन्तरम् ॥४१॥
दीपाङ्कितेऽथ मञ्जूषे तां त्यक्तां वणिजा भयात् ।
गङ्गाकूलस्थितः कोऽपि प्राप राजकुमारकः ॥४२॥
तां प्राप्य राजतनयो धीमान्सततकोपनम् ।
मञ्जूषा वानरं धृत्वा ययौ वेश्म तया सह ॥४३॥
अत्रान्तरे निजाञ्शिष्यान्परिव्राडब्रवील्लघुः ।
गङ्गामन्विष्य मञ्जूषा तूर्णमानीयतामिति ॥४४॥
तैराहृतां समादाय स कन्यारतिलम्पटः ।
तान्प्राहोत्कण्ठतो वाञ्छन्पातुं निर्मक्षिकं मधु ॥४५॥
युष्माभिर्न प्रवेष्टव्यं श्रुत्वापि वचनानि मे ।
इत्युक्त्वार्गलितद्वारां विवेशैको निजां कुटीम् ॥४६॥
उद्धाटितेऽथ मञ्जूषे क्रुद्धो निर्गतवानरः ।
कर्णनासाविरहितं तं चकार स्मरातुरम् ॥४७॥
कपिचीत्कारमिश्रेण तस्य हाहारवेण ते ।
नाश्रमं विविशुः शिष्यास्तदाज्ञाभङ्गभीरबः ॥४८॥
ततस्तच्चरित्म ज्ञात्वा जहास सुचिरं जनः ।
इति दैवगतिश्चित्रा पुरुषस्य न लङ्घ्यते ॥४९॥
इति परिव्राडाख्यायिका ॥४॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP