संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|लावानकनामा तृतीयो लम्बकः| श्रीवत्सेशदिग्विजयः लावानकनामा तृतीयो लम्बकः परहिताख्यायिका वहिल्लकाख्यायिका देवसेनाख्यायिका परिव्राडाख्यायिका पुण्यसेनाख्यायिका सुन्दोपसुन्दाख्यायिका पद्मावतीविवाहः उर्वश्याख्यायिका विहितसेनाख्यायिका सोमप्रभाख्यायिका अहल्याख्यायिका विदूषकाख्यायिका देवदासाख्यायिका श्रीवत्सेशदिग्विजयः हलभूत्याख्यायिका लावानकनामा श्रीवत्सेशदिग्विजयः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत श्रीवत्सेशदिग्विजयः Translation - भाषांतर श्रुत्वेति मन्त्रिवचनं राजा विजयलालसः । दिदेश दिग्जयोद्योगे सेनान्यमपि तद्द्युतिः ॥३००॥ ततो भ्रातरमाहूय पद्मावत्या नरेश्वरः । विदधी सिंहवर्माणं चेद्दि राज्ये बलाधिकम् ॥३०१॥ गोपालकं च विदशाराज्ये धृत्वा जयोत्सुकः । कृत्वा मन्त्रिगिरा दृप्तं वाराणस्यां महीपतिम् ॥३०२॥ ब्रह्मदत्तं स संहृष्टसर्वसामन्तमण्डलम् । जेतुं सज्जगजानीकतुरगोत्खातभूतलः । ययौ सुभटसंमर्दव्यालोलितदिगन्तरः ॥३०३॥ पाण्डुरेणातपत्त्रेण यात्रायां विबभौ विभुः । क्षीरक्षोभसमुत्थेन शशाङ्केनेव मन्दरः ॥३०४॥ पार्थवंश्यस्य तस्याग्रे गिरिवर्णा गजा बभुः । सेवाव्रतमिवापन्ना मेघाः खाण्डवतर्जिताः ॥३०५॥ तस्य सैन्ये भटाधूता विबभौ खङ्गमण्डली । पातालवासिप्रीत्येव संप्राप्ता भुजगावली ॥३०६॥ कापालिकप्रणधिभिर्दैवजव्यञ्जनैरपि । आचकर्ष रिपोर्मन्त्रं गूढं यौगन्धरायणः ॥३०७॥ ब्रह्मदत्तस्य सचिवो धीमान्योगकरण्डिकः । व्यधाद्वत्सेश्वरस्याम्भो घासं च विषदूषितम् ॥३०८॥ उल्कासंदर्शनं घोरं मायास्ताश्च सुदुःसहाः । यौगन्धरायणस्तस्य प्रतियोगैरिवाभवत् ॥३०९॥ व्यर्थं चकार सकलं मायानिर्माणडम्बरम् । ततो बद्धाञ्जलिर्धीमान्रत्नोपायनसंयुतः ॥३१०॥ ब्रह्मदत्तं स जित्वैव सर्वासाविजयी नृपः । न्यवेशयत्सूर्य इव प्रतापं मूर्ध्नि भूभृताम् ॥३११॥ ततः समस्तसामन्तमस्तकन्यस्तशासनः । पूजितोऽवन्तिराजेन मागधेन च सानुगः ॥३१२॥ देवीभ्यां सहितः श्रीमांलावानकपुरं ययौ । पौरनारीमुखाम्भोजविकासनवभास्करः ॥३१३॥ इति श्रीवत्सेशदिग्विजयः ॥१४॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP