लावानकनामा
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
यौगन्धरायणवचो निशम्येति जनाधिपः ।
एवमेतदिति प्राह विस्मयाविष्टचेतनः ॥४१२॥
ततः प्रियतमाकेलिविलासरसिको नृपः ।
परित्यक्त इवाभ्येत्य रराज विजयश्रिया ॥४१३॥
कौशाम्बीमथ सौधसङ्गितरुणीं नेत्रांशुनीलोत्पल -
स्रग्दामाभरणाधिवाससुभगः कान्तासहायो नृपः ।
आकर्णायतकामकार्मुकलताकेंकारतारैर्मुहुः
प्रत्यग्रोत्सवलोलपौरललनाकाञ्चीरवैः पूरिताम् ॥४१४॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे लावानकनामा तृतीयो लम्बकः समाप्तः ।
N/A
References : N/A
Last Updated : October 10, 2017
TOP