हलभूत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


चक्रवर्तिश्रियं प्राप्य हेमरत्नाम्बरप्रदम् ।
भेजे श्रृङ्गारसाम्राज्यं कान्ताकेलिकलो नृपः ॥३१४॥
ततः कदाचित्सचिवं प्राह वत्सेश्वरो जयी ।
भवन्मतिप्रभावोऽयमहो मद्विजयश्रिये ॥३१५॥
पश्य मे भ्रूलताक्षेपैरुत्स्वातप्रतिरोपिताः ।
जाता नराधिपाः पादचुम्बिचूडामणित्विषः ॥३१६॥
मन्येऽहं ब्रह्मदत्तोऽसौ नितान्तं कुटिलाशयः ।
वशं नीतोऽपि यत्नेन दर्पान्धो विचलिष्यति ॥३१७॥
संमानितस्त्वया देव स राजा न चलिष्यति ।
शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥३१८॥
त्वच्छासनद्विशस्तस्य ध्रुवं श्रीर्नभविष्यति ।
अग्निदत्तोऽभवद्विप्रः पद्माख्ये विषये पुरा ॥३१९॥
सोमदत्तोऽभवत्तस्य पुत्रः शास्त्रविवर्जितः ।
वैश्वानराभिधश्चान्यः श्रुतः श्रुतिविदां वरः ॥३२०॥
अग्निदत्तस्तयोः कृत्वा विवाहं प्रययौ दिवम् ।
सोमदत्तस्ततो मौर्ख्यात्सदाचारविवर्जितः ॥३२१॥
राज्ञोऽपि निग्रहपदं ययौ दुर्जनचेष्टितैः ।
भ्रात्रा संरक्षितोऽभ्येत्य विदुषा नृपशासनात् ॥३२२॥
त्यक्त्वाग्रहारं सुकृशो जग्राह कृषिजीविकाम् ।
वटवृक्षं पृथुच्छायं पूजयन्सततं व्यधात् ॥३२३॥
क्षेत्रकर्माभवद्येन प्रवृद्धः सभ्यसंपदा ।
हलभूतिरिति प्राप संज्ञां स कृषितत्परः ॥३२४॥
ततः परधनायत्तैः क्षणेनाथ विनाशिता ।
सा तस्य श्रीर्विधौ वामे पौरुषं हि कदर्थिता ॥३२५॥
स शोकव्याकुलो रात्रौ नष्टनिद्रो वटान्तिके ।
शुश्रावाकाशवचनं सभार्यः साश्रुलोचनः ॥३२६॥
मिहारो नाम यक्षोऽहं प्रसन्नस्ते सदार्चनात् ।
वेदानाप्नुहि मद्वाक्याद्विपुलां श्रियमाप्स्यसि ॥३२७॥
आदित्यप्रभमासाद्य श्रीकण्ठविषये नृपम् ।
गृहे गत्वा सदा कार्येष्वपृष्टः पृष्ट एव वा ॥३२८॥
.............तत्वं मया दिष्टमपठत्स च तत्पुरः ।
शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥३२९॥
इत्याकर्ण्य स तद्वाक्यं तस्य राजा स्मितप्रियः ।
ददौ सुविपुलां लक्ष्मीं तस्मै विस्मयकारिणीम् ॥३३०॥
ततः कदाचिद्भूपालस्तेन विश्रम्भसाक्षिणा ।
ययौ मृगव्यां पौरस्त्रीकताक्षोत्पलमालितः ॥३३१॥
चिरात्प्रतिनिवृत्तोऽथ कान्तां कुवलयावलीम् ।
हृष्टां हृष्टोऽविशद्द्रष्टुमेक एव नरेश्वरः ॥३३२॥
रुद्धप्रवेशो नृपतिर्दीर्घमन्तःपुरे ततः ।
गवाक्षान्तरितोऽपश्यद्यागमण्डलपङ्कजे ॥३३३॥
दिगम्बरां भुक्तकेशीं रक्तचन्दनचर्चिताम् ।
ददर्श तत्र दयितामभिचारोचितस्थितिम् ॥३३४॥
प्रविष्टो विस्मयक्रोधशङ्काकुलितमानसः ।
ततस्तया नरपतिर्दृष्टश्चकितनेत्रया ॥३३५॥
संत्रासतरलाकारा कम्पमाना घनस्तनी ।
अभयं दीयतां देव कथयामीत्यभाषत ॥३३६॥
तत्ताभया नृपतिना कथामकथयन्निजाम् ।
अस्मि देव पितुर्गेहे पुराहं कन्यका सती ॥३३७॥
नानादेशसमायातसखीमण्डलमण्डिता ।
मधौ मधुरसंलापकोकिले कलिकाकुले ॥३३८॥
मलयानिललोलालिकुलाकुलितचम्पके ।
उद्यानमगमं लीलानिल्यं पुष्पधन्वनः ॥३३९॥
तत्र मामवदन्सख्यः सखि देवः प्रणम्यताम् ।
अ.........................ऊर्ध्वरेतसि संनिधिः ॥३४०॥
श्रीमान्स हि................विघ्नाधिपो विभुः ।
विवाहविजयोद्योगेष्वेको लोकेषु पूज्यते ॥३४१॥
श्रुत्वेति ता मया पृष्टास्तत्प्रभावं बभाषिरे ।
ऊरेध्वरेतसि चण्डीशे गौरी पुत्रार्थिनी पुरा ॥३४२॥
प्रदध्यौ तच्च विज्ञाय हृष्टोऽभूत्पाकशासनः ।
ध्रुवं देव्याः सुतोऽस्माकं भविष्यति जयश्रिये ॥३४३॥
ध्यात्वेति शक्रः पञ्चुषुं दिदेश मधुना सह ।
स गत्वा शंकरमनःक्षोभायाक्शयसायकः ।
चक्रे तपोवनं शंभोरकालमधुमण्डितम् ॥३४४॥
स्वहसोत्फुल्लककुभाशोककेसरकिंशुके ।
तत्र त्रिलोचनं कामो विव्योधोन्मादनेषुणा ॥३४५॥
विकारं मनसो दृष्ट्वा कुपितस्त्रिपुरान्तकः ।
स्मृतिशेषं स्मरं चक्रे भाललोचनवह्निना ॥३४६॥
तद्दुःखात्साश्रुनयनां द्वीं पुत्रार्थिनीं हरः ।
उवाच देवि विघ्नेशः पुत्रार्थं नार्चितस्त्वया ॥३४७॥
इत्युक्ते भगवान्देवैरर्थ्यमानो मनोभवम् ।
चकार मानसावासं द्विगुणोत्साहदर्पणम् ॥३४८॥
अथ तारकवित्रस्तत्रैदशत्राणमात्मजम् ।
स्रष्टुं सतीरतक्रीदां भेजे शीतांशुशेखरः ॥३४९॥
सहस्रं दिव्यवर्षाणां शंकरे रतितत्परे ।
लुठद्गिरिवरोद्धूतसागरा विचचाल भूः ॥३५०॥
ततो भीतैः सुरैः सर्वैः परमेष्ठिगिरानलः ।
त्रिनेत्ररतिविघ्नार्थमन्विष्टो न व्यदृश्यते ॥३५१॥
शुकभेकगजैर्ज्ञात्वा प्रच्छन्नोऽग्निर्निवेदितः ।
यदा जिह्वापरावृत्तिः शापं तेभ्यो ददौ तदा ॥३५२॥
याचितोऽथ सुरेन्द्रेण शर्वस्य सुरतोत्सवे ।
विवेश सूक्ष्मवेषाग्निर्विरराम ततः शिवः ॥३५३॥
विरतो रेतसो वेगं चिक्षेपाग्निमुखे हरः ।
को हि माहेश्वरं तेजो विनाग्निं धर्तुमीश्वरः ॥३५४॥
ततो गिरिसुता कोपाच्छशाप सुरमण्डलम् ।
मा वः सदृशसंसर्गजन्मा कस्य सुतोऽस्त्विति ॥३५५॥
पुत्रार्थं न त्वया देवि पूजितो विघ्ननाशकः ।
इति पत्युर्गिरा गौर्या प्राप्ते गिघ्नेऽर्चितोऽथ सः ॥३५६॥
ततो वर्षसहस्रान्ते श्रमार्तो हव्यवाहनः ।
तत्याज गर्भं गङ्गायां साप्यधत्त तमुत्कटम् ॥३५७॥
जाह्नवी तारकत्रस्ता तं शंभोर्वचसात्यजत् ।
सुमेरोर्दक्षिणे पार्श्वे सहस्रांशुसितद्युतिम् ॥३५८॥
कृत्तिकारक्षितः श्रीमान्रक्षितो हरकिंकरैः ।
षण्मुखस्तेजसा चक्रे सज्ज्वालाजटिला दिशः ॥३५९॥
नारदस्य गिरा ज्ञात्वा दृष्ट्वा च तमतिप्रभम् ।
सहस्राक्षो मुमोचाशु तस्मै वज्रं पुनः पुनः ॥३६०॥
वज्रप्रहारैस्तनया बभूवुस्तस्य दुर्मदाः ।
शाखो विशाखः सुमुखश्चेति शक्रदवानलाः ॥३६१॥
अथोत्थिते कार्तिकेयडिम्भे समरदुर्मदे ।
वासवस्तम्भितकरे दुद्रावैरावणो रणे ॥३६२॥
ततस्त्रिलोचनोऽभ्येत्य सुरेन्द्रकृपया शिशुः ।
सान्त्वितः सह पार्वत्या शक्रे प्रीतिं च लम्भितः ॥३६३॥
ततोऽभिषेके पृतनापत्ये तस्याशु कल्पिते ।
हरेः सकुलिशो बाहुः स्तम्भतां विघ्नतो ययौ ॥३६४॥
अथ शर्वस्य वचसा पूजिते गणनायके ।
विघ्नप्रशान्त्या शक्रस्य बाहुः स्तम्भादमुचय्त ॥३६५॥
हेरम्बेणाभिषिक्तोऽथ स्वयं सेनामवाप्य सः ।
दिव्यकान्त्या महासेनो न्यवधीत्त्तारकासुरम् ॥३६६॥
एवं महाप्रभावोऽयं प्रणम्यो विघ्ननाशकः ।
सखीनामित्यहं वाक्यात्ततस्तमगमं मुदा ॥३६७॥
गणेन्द्रमश्वत्थतले पूजयित्वा महेश्वरम् ।
सखीनां सहसापश्यमाकाशेन गतागतम् ॥३६८॥
तद्दृष्ट्वा विस्मितात्यन्तमपृच्छं कौतुकेन ताः ।
सख्यः कथं वो नभसा गतिरित्यूचिरे च ताः ॥३६९॥
महाकालप्रसादाच्च पूजनाच्च गणप्रभोः ।
महामांसाशनाच्चेयमस्माकं सिद्धिरुत्तमा ॥३७०॥
छन्ना वयं च डाकिन्यः काष्यूर्ध्वव्यापिनी च नः ।
अस्त्यसौ कालरात्रीति सा चाहूता समेष्यति ॥३७१॥
ततो मदुपदेशाय समाहूता समाययौ ।
कालरात्री सखीभिर्मे कुम्भलम्बोदरस्तनी ॥३७२॥
अहं तद्दीक्षया क्षिप्रं महामांसाशनेन च ।
दृष्ट्वा देवं महाकालमभवं योगिनी ततः ॥३७३॥
मायारूपपरावृत्तिर्दृष्टिबन्धाभिचारके ।
मारणोच्चाटनाकर्षे जाताहं तद्गुणाधिका ॥३७४॥
तस्याः प्रच्छन्नडाकिन्याः कालरात्र्याः पतिर्द्विजः ।
विष्णुस्वामीत्युपाध्यायः श्रोत्रियाऽस्ति बहुश्रुतः ॥३७५॥
तस्य सुन्दरको नाम शिष्यो रूपेण सुन्दरः ।
कालरात्र्या युवा स्वैरं याचितो रतिदक्षिणाम् ॥३७६॥
जननी गुरुभार्या मे त्वं पुत्रोऽहं तवानघे ।
इति सुन्दरकः प्राह प्रार्थ्यमानस्तयाऽसकृत् ॥३७७॥
ततः क्षिप्रं स्वनस्वरैः सा विदार्य निजं वपुः ।
कृतं सुन्दरकेणेदमित्याह कुपिता पतिम् ॥३७८॥
उपाध्यायस्ततः क्रुद्धस्तं शिष्यं शिष्यसेनया ।
लगुडैर्जर्जरतनुं विधाय बहिरत्यजत् ॥३७९॥
स रात्रौ निर्जने त्यक्तश्चिरेणावाप्तजीवितः ।
उत्थाय शून्यं गोवाटमविशच्छङ्किताशयः ॥३८०॥
ततोऽर्धरात्रे निर्यातामपश्यड्डाकिनीवृताम् ।
कालरात्रीमुपाध्यायदयितां भीषणाननाम् ॥३८१॥
तदुत्पतनमन्त्रेण दिवमुत्पतिते गृहे ।
सगोवाटे स जग्राह तन्मन्त्रं धीमतां वरः ॥३८२॥
भ्रान्त्वा प्रतिनिवृत्तयां पुनस्तस्याः क्षपाक्षये ॥
सत्त्रशालाश्रितः सोऽथ पुनरेत्यार्थितस्तया ॥३८३॥
अद्यापि मन्मथरुचे भज मां स्वयमागताम् ।
उपाध्यायवधूं याहि देहि जीवितदक्षिणाम् ॥३८४॥
इत्युपाध्यायिनीवाक्यं श्रुत्वा कर्णौ पिधाय सः ।
जगाम धर्ममर्यादां लङ्घ्यान्ति न साधवः ॥३८५॥
प्रत्याख्यानं रुषाभ्येत्य विष्णुस्वामी पुनस्तया ।
त्वच्छिष्येण हतास्मीति गिरा कोपाकुलः कृतः ॥३८६॥
उपाध्यायोऽथ तत्कोपादविज्ञाय तदाशयम् ।
तस्य भोजनमभ्येत्य सत्त्रशालां न्यवारयत् ॥३८७॥
स चोत्पतनयन्त्रज्ञः पवन्संत्रासमययौ ।
पुनस्तमेव गोवाटं तत्रापश्यच्च तां निशि ॥३८८॥
तासामुत्पतितानां च स्थितः प्रच्छन्नवाटके ।
मूलकानां चयं प्राप महार्थं दूरदेशगः ॥३८९॥
तद्विक्रये प्रभातेऽथ स तदाहृतिसंगतैः ।
नीतो विवादो नृपतेः पुरस्तादवदच्च सः ॥३९०॥
प्रासादमधिरुह्येमं देवं विज्ञापयाम्यहम् ।
इति प्रासादमारुह्य मन्त्रेणोत्पत्य दूरगः ॥३९१॥
द्वितीयं नृपमभ्येत्य प्राहाहं धूर्जटेर्गणः ।
दीयतां हेमरत्नानि मह्यं माहेश्वरो ह्यसि ॥३९२॥
इत्युक्त्वा विपुलैश्वर्यं तस्मादासाद्य हर्म्यगः ।
यदृच्छोपगतां सिद्धिं प्राप्य मन्त्रं निपातितम् ॥३९३॥
कालरात्रिकथां राज्ञे सर्वामेत्य न्यवेदयत् ।
राजा तत्त्वं परिज्ञाय तस्या निग्रहमभ्यधात् ॥३९४॥
सा ततोऽन्तर्हिताभ्येत्य स्थिता चान्तःपुरे मम ।
इत्येतत्कथितं तुभ्यं याथातथ्यं मया विभो ॥३९५॥
एहि सिद्धिं भज क्षिप्रं प्रयोगे समयी भव ।
भुङ्क्ष्व वीरं महामांसं निर्विकल्पपदं श्रयः ॥३९६॥
इति देवीगिरा राजा घृणाघूर्णितमानसः ।
तथेति चक्रे कृच्छ्रेण बहुशो बोधितस्तया ॥३९७॥
त्वयाकृष्टः पशुः कोऽत्र पृष्टेति जगतीभुजा ।
हलभूतिरित प्राह स्वैरं कुवलयावली ॥३९८॥
उद्विग्नं स समाकर्ण्य देव्या च भृशमर्थितः ।
राजा दोलायितमनाश्चिरेण प्राप निश्चयम् ॥३९९॥
ततः साहसिकं नाम सूदमाहूय दंपती ।
तमूचतुः समभ्येत्य यो वक्ष्यति महानसे ॥४००॥
राजयोग्यां वसुमतीं कुरुष्वेति त्वमेव तम् ।
हत्वा तन्मांसभूयिष्ठं तूर्णं भोजनमानय ॥४०१॥
इति संविदमाधाय स सभामण्डपं पुनः ।
हलभूतिं नृपः प्राह भोज्यं मे क्रियतामिति ॥४०२॥
तूर्णं तदाज्ञया गन्तुं प्रस्तुतं तं महानसम् ।
ऊचे चन्द्रप्रभोऽभ्येत्य राजसूनुस्त्वराकुलः ॥४०३॥
मत्कुण्डलो हृतो गच्छ श्रुत्वेत्याह च स द्विजः ।
राजभोजनमादिश्य सूदमेप्याम्यहं क्षणात् ॥४०४॥
इति राजसुतः श्रुत्वा हलभूतिमभाषत ।
अहं महानसं गत्वा सूदं वक्ष्यामि ते वचः ।
व्रज मत्कुण्डलार्थं त्वमित्युक्तौ जग्मतुः पृथक् ॥४०५॥
राजपुत्रमथायान्तं दृष्ट्वा श्रुत्वा च तद्वचः ।
हत्वा यथोक्तमकरोत्सूदः समययन्त्रितः ॥४०६॥
तन्मांसभोजनं राजा भुक्त्वा स्वैरं वधूसखः ।
प्रातर्विदितवृत्तान्तः पपात विलपन्भुवि ॥४०७॥
सुपुत्रं निहतं ज्ञात्वा हलभूतिं विलोक्य च ।
शुभं शुभकृतादेव सस्मारेति स तद्गिरः ॥४०८॥
हलभूतिं नृपपदे धृत्वानुशयतापितः ।
ब्राह्मणेभ्यो महादानं वितीर्य यमुनातटे ॥४०९॥
निकृत्तनिजमांसेन हुत्वा वह्निं ससंभ्रमः ।
सभार्यः प्रययौ स्वर्गं सत्त्वनिर्धूतकल्मषः ॥४१०॥
शुभं शुभकृतादेव हलभूतिरवाप्तवान् ।
न हि कश्चिच्छुभकृतस्तव राजा चलिष्यति ॥४११॥
इति हलभूत्याख्यायिका ॥१५॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP