उर्वश्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


N/Aदेव्योर्मध्ये स भूपालो रतिप्रीत्योरिव स्मरः ।
विराजमानः प्रोवाच महामात्यं कथान्तरे ॥११२॥
त्वत्प्रसादभवोऽयं मे हर्षः प्रीणाति मानसम् ।
वियोगदुःखप्रशमे प्रसीदन्ति मुखश्रियः ॥११३॥
पुरा पुरूरवा नाम राजा राज्ययशःशशी ।
बभूव भूमिकन्दर्पः शत्रुनाशनशासनः ॥११४॥
सुरवारवधूरासीदुर्वशी तस्य वल्लभा ।
जातः शोकादिवापाण्डुर्यन्मुखाब्जजितः शशी ॥११५॥
स कदाचित्सुरपुरीमारूढो दैत्यसंयुगे ।  
सहायः सुरराजस्य ददर्श विजयोत्सवम् ॥११६॥
तत्र प्रवृत्ते शक्रस्य पुरा नृत्ते सुराङ्गनाम् ।
जहासाभिनयच्छेदे वैदग्ध्यादुर्वशीप्रियः ॥११७॥
हासेन कुपितस्तस्य प्राह क्रुद्धः शतक्रतुः ।
वियोगस्ते सहोर्वश्या भूयादिति शशाप तम् ।
प्रार्थितो नरराजेन स तच्छापान्तमभ्यधात् ॥११८॥
पर्यटन्पृथिवीमेष उर्वशीविरहातुरः ।
बदर्याश्रममासाद्य भगवद्दर्शनादिति ॥११९॥
ततो वियोगमासाद्य स्मरपावकतापितौ ।
उर्वशी च नरेन्द्रश्च तस्थतुर्निधनाशया ॥१२०॥
तस्याहारलतापाशवत्त्वाद्योगोऽभवत्पुनः ।
मोहो निःसहता कम्पश्चेति जीवितहेतवः ॥१२१॥
याति काले स भूपालो मदनोन्मत्तमानसः ।
बदर्याश्रममासाद्य दुःसहं शापमत्यजत् ॥१२२॥
उर्वश्या संगतो राजा विजहार ततः सुखी ।
इति दुःखानलस्यान्ते भवन्ति सुखसंपदः ॥१२३॥
इत्युर्वश्याख्यायिका ॥८॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP