कुञ्जराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


प्रथमो गुच्छः ।

सुवर्णगिरिकर्णके तरलतारकाकेसरे  
चलज्जलदषट्पदे स्फुटदिगन्तपत्रास्तृते ।
स वः प्रमथनायकः प्रदिशतु श्रियं यत्करः ।
करोति जगदम्बुजे चलितताललीलायितम् ।१॥
ततो विरहसंतप्तः स्मरन्मदनमञ्चुकाम् ।
कान्तिमात्रावशेषोऽभून्निःसहो नरवाहनः ॥२॥
स चन्द्रकान्तपर्यङ्के निषण्णः सखिभिर्निशि ।
प्रदध्यौ तप्तनिःश्वासैर्म्लापयन्मणिदीपकान् ॥३॥
कथंचिद्गतनिद्रार्धमीलिताक्षं स्मरातुरा ।
तं जहार सपर्यङ्कं कापि विद्याधराङ्गना ॥४॥
ह्रियमाणस्तया स्वप्ने दृष्ट्वा तामेव सुन्दरीम् ।
प्रबुद्धस्तन्मुखाम्भोजे ददौ दृशमलक्षिताम् ॥५॥
स ददर्श विशालाक्षीं तामानन्दसुधानदीम् ।
कान्तिकल्लोलपटलैः क्षालयन्तीमिवाखिलम् ॥६॥
निःश्वाससौरभाकष्टव्योमगङ्गाब्जषट्पदैः ।
बद्धवेदीमिवाविद्धगतिव्यालोलवेणिकाम् ॥७॥
वीक्ष्यमाणां विचलितग्रीवं खेचरशङ्कया ।
मुहुस्त्रिकपरावृत्तिनिमज्जत्त्रिवलीलताम् ॥८॥
वेगोद्गतिविलोलेन तारहारेण भूषिताम् ।
क्षुभ्यत्क्षीराब्धिकल्लोलमीलितां कमलामिव ॥९॥
विलोक्य तां स्मरस्येव नगरीं व्योमचारिणीम् ।
सोऽभवन्निःसृतश्वासः क्षणं कृतकनिद्रया ॥१०॥
सा तमादाय नभसा गत्वा मलयपर्वतम् ।
अवतीर्योच्चशिखरे प्रहृष्टा निर्वृतिं ययौ ॥११॥
तत्र लङ्कानिलालोलबालचन्दनपल्लवे ।
तस्थौ पर्यङ्कमारुह्य तदालिङ्गनलालसा ॥१२॥
नवस्मररसावेशस्नेहधौतविशेषका ।
लज्जां भेजे मुहूर्तं सा कम्पमानघनस्तनी ॥१३॥
बालामदृष्टसंभोगां मत्वा तां नरवाहनः ।
धूर्तो युक्तिमुपाश्रित्य प्राह निद्राकुलाक्षरम् ॥१४॥
अयि क्कासि कुरङ्गाक्षि प्रिये मदनमञ्चुके ।
इति नाम समाकर्ण्य तदाकारं चकार सा ॥१५॥
सविद्यया निर्विशेषं भूत्वा मदनमञ्चुका ।
गाढालिङ्गनसंनद्धा तस्थौ कुचपुरःसरा ॥१६॥
ततः स्मितस्मेरमुखः सानन्दं नरवाहनः ।
कारक्कृप्तालकं तस्याश्चुचुम्ब वदनाम्बुजम् ॥१७॥
हृते बलान्नीविबन्धे तस्यास्तेन विलासिना ।
चकम्पे चूतवल्लीव स्तनस्तबकिनीतनुः ॥१८॥
हृतांशुकं यद्यदङ्गं स ददर्श मृगीदृशः ।
दृष्टयस्तत्र तत्रास्य न चेलुः कीलिता इव ॥१९॥
ततस्तां गाढमालिङ्ग्य स प्राह मधुरस्मितम् ।
अहो रूपान्तराधाने वैदग्ध्यं तव सुन्दरि ॥२०॥
इति प्रियस्य वचनं श्रुत्वात्यन्तविलासिनी ।
सहसा निजप्नास्थाय रूपं भेजे रतोत्सवम् ॥२१॥
ततः प्रियेण सा पृष्टा बभाषे दशनांशुभिः ।
ग्रथ्नतीव गुणैर्हारं रतिनर्मविसूत्रितम् ॥२२॥
हृदये मौक्तिकलता सुधासारे मनोरथे ।
कर्णे कर्पूरपूरश्च त्वद्यशः सुदृशां विभो ॥२३॥
अहं त्वद्यशसाहूता तव प्रणयिनीपदम् ।
प्राप्ता गिरिसुतां मन्ये स्वसौभाग्यतिरस्कृताम् ॥२४॥
इति विद्याधरीवाक्यं निशम्य नरवाहनः ।
प्रभाते तत्कथाकेलिहृष्टस्तामित्यभाषत ॥२५॥
ब्रह्मसिद्धिरित ख्यातो मुनिरासीन्महातपाः ।
तस्थौ तदाश्रमोपान्तगुहायां वृद्धजम्बुकी ॥२६॥
दुर्दिनाभिहते काले कदाचित्सा क्षुधार्दिता ।
कथंचिदिव बभ्राम प्रस्खलद्गतिविक्लवा ॥२७॥
ततः समाययौ गर्जन्मत्तालिवलयो गजः ।
स्मरन्करेणुकां यूथभ्रष्टां मलिनलोचनः ॥२८॥
तद्भयाद्विद्रुता साथ जम्बुकी शरणं मुनिम् ।
ययौ तध्द्यानयोगाच्च बभूव करिणी क्षणात् ॥२९॥
स तया जातसंप्रीतिर्विजहार वने गजः ।
उद्दण्डपुण्डरीकेषु काननेषु मदालसः ॥३०॥
ततः प्रियायै पद्मार्थं सरःपङ्के ममज्ज सः ।
तस्मिन्निमग्ने सा भेजे द्वितीयं गजयूथपम् ॥३१॥
तं पूर्वकरिणी दृष्ट्वा निमग्नं मर्तुमुद्ययौ ।
भद्रजातिः कुलीनैर्हि प्रीतिः पर्यन्तनिश्चला ॥३२॥
करुणाब्धेर्मुनीन्द्रस्य स गजेन्द्रोऽप्यनुग्रहात् ।
उन्मज्ज्य कृच्छ्रात्तत्याज सदाचार इवापदम् ॥३३॥
त्वद्विधाभिरिति प्रीतिरवसानेऽप्यनश्वरी ।
जम्बुकी सा प्रयाता तु न स्थिरा खलसंगतिः ॥३४॥
इति कुञ्जराख्यायिका ॥१॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP