श्रुतधिसमागमः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अस्त्येवं पूजिता देवाः पुण्यभाजामभीप्सितम् ।
मृगाङ्कदत्त कामं ते शर्वः सर्वं विधास्यति ॥१७०॥
इति चित्रकथेनोक्तः श्रुत्वा राजसुतः स्मयात् ।
शशाङ्कवत्याः ख्यातेषु गुणेषु गणनां व्यधात् ॥१७१॥
ततः कदाचित्ताम्बूलगण्डूषं हर्म्यशेखरात् ।
मृगाङ्कदत्तस्तत्याज स पपात सुमन्त्रिणि ॥१७२॥
मन्त्री विनयवान्नाम विलोक्य तदशङ्कितम् ।
प्रदध्यौ निबिडक्रोधो राजसूनोः प्रतिक्रियाम् ॥१७३॥
मृगाङ्कदत्तोऽप्यालोच्य सचिवं गमने मतिम् ।
शशाङ्कवत्यामेकाग्रो विदधे ध्याननिश्चलः ॥१७४॥
पुरीं सुरक्षितद्वारां मत्वा ते गुप्तगोपुराम् ।
महाव्रतिकवेषेण गन्तुं चक्रुर्विनिश्चयम् ॥१७५॥
ततोऽस्थिकेशखट्वाङ्गकपालैर्व्रतडम्बरम् ।
गुप्तमाहृत्य विदधे गृहे भीमपराक्रमः ॥१७६॥
अत्रान्तरे नरपतिं ज्ञात्वा लग्नविसूचिकमम ।
मन्त्री विनयवानेत्य स राज्ञः स्वैरमभ्यधात् ॥१७७॥
राजपुत्रेण ते राजन्नायुषश्चिन्त्यते क्षितिः ।
अभिचारं करोत्येश गृहे भीमप्राक्रमः ॥१७८॥
ताम्बूलगण्डूषरुषा निगद्येति स दुःसहम् ।
प्रत्यक्षतां निनायासौ तं कपालास्थिसंचयम् ॥१७९॥
क्षणादमरदत्तोऽथ क्रोधार्तो निजमात्मजम् ।
पुरान्निर्वासयामास दशभिः सचिवैः सह ॥१८०॥
स हृष्टः प्रस्थितो गन्तुं परित्यज निजां पुरीम् ।
वयस्यान्प्राह चित्तेऽन्तः स्वयं सिद्धो मनोरथः ॥१८१॥
अभिषिक्तोऽस्ति तातेन बाल एव सखा मम ।
शक्तिरक्षितको नाम किरातेषु महीपतिः ॥१८२॥
वयं तस्य पुरीं गत्वा विश्रम्य कृतसंविदः ।
शशाङ्कवत्याः सुभगां यास्यामो दक्षिणां दिशम् ॥१८३॥
इत्युक्त्वा राजतनयः प्रविवेश महाटवीम् ।
प्रत्यग्रभिन्नरागासूङ्मत्तकेसरिसंकुलाम् ॥१८४॥
अथास्तशिखरं याते शशशोणितलोहिते ।
नभः कृष्णभुजङ्गस्य फणरत्ने विवस्वति ॥१८५॥
ततस्तालतमालौघश्यामले व्य्मकानने ।
निशीथमत्तवेतालग्रस्तालोके दिगन्तरे ॥१८६॥
मृगाङ्कदत्तो दूराध्वश्रान्तस्तृष्णानिपीडितः ।
सचिवैः सहितस्तस्थौ कीटशुष्कतरोरधः ॥१८७॥
ततो निद्रामवापुस्ते क्षणं मुद्रितलोचनाः ।
अर्धरात्रे प्रबुद्धाश्च ददृशुर्विमलं नभः ॥१८८॥
शर्वरीशबरीकर्णकेतके तुहिनत्विषि ।
समुद्गते नभःकालकपालदलविभ्रमः ॥१८९॥
स्फटिकस्तम्भसंभारडम्बरे रश्मिमण्दले ।
दिग्दन्तिदन्तविपुले जाते हरिनलक्ष्मणः ॥१९०॥
तस्य शुष्कतरोः सर्वे प्ररूढामङ्कुरश्रियममाम ।
विलोकयन्पलविनं पुष्पहासं च ते शनैः ॥१९१॥
ततः फलभरैर्नम्रः स बभूव महातरुः ।
सर्वाशापूरणसहो गुणैरिव कुलोद्धतः ॥१९२॥
क्षिप्रं फलानि पक्कानि तस्य पेतुर्महीतले ।
तं दृष्ट्वा विस्मिताः सर्वे ते चक्रुः प्राणवर्तनम् ॥१९३॥
ततः स तैर्भुक्तफलो बभूव सहसा द्विजः ।
शुभ्रयज्ञोपवीताङ्गश्चन्द्रांशुभिरिवावृतः ॥१९४॥
कौतुकादथ तैः पृष्टः सोऽब्रवीद्धेतुमात्मनः ।
आर्जवं ब्रह्मसुलभं दन्तांशुभिरिवोद्वमन् ॥१९५॥
दमधिर्नाम विप्रोऽभूदयोध्यानिलयः पुरा ।
तस्य शान्तिमती नाम भार्यासीद्धर्मचारिणी ॥१९६॥
अहं च श्रुतधिर्नाम पुत्रस्तस्य मनीषिणः ।
ततः कदाचिद्दुर्भिक्षे माता मे निजभोजनम् ॥१९७॥
दत्वार्थिने क्षुधार्ताय धन्या तत्याज जीवितम् ।
ततः पिता मे बभ्राम क्लान्तः क्षुद्विकलः क्षितिम् ॥१९८॥
दत्तं पुण्यवता प्राप केनापि फलपञ्चकम् ।
स मह्यं त्रीणि संकल्प्य फलानि द्वे तथात्मने ॥१९९॥
ममज्जान्तर्जले तातः क्षण जपपरायणः ।
ततः फलानि सर्वाणि लौल्यादहमभक्षयम् ॥२००॥
तत्कोपादस्मित शप्तश्च पिता शुष्कद्रुमोऽभवम् ।
युष्मत्फलोपभोगान्तः स च शापो गतोऽद्य मे ॥२०१॥
शुभ्रशास्त्रेन्दुजलधिर्योग्योऽहं नृपसेवने ।
अधुना प्रतिपन्नोऽहं भवन्तं सेवितास्मि ते ॥२०२॥
इति श्रुतधिसमागमः ॥५॥
N/A
References : N/A
Last Updated : October 21, 2017
TOP