धैर्यपारमिता
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
शिशुर्मालाधरो नाम ब्राह्मणो दक्षिणापथे ।
ददर्श नभसा यान्तं जवात्सिद्धकुमारकम् ॥५३२॥
तं दृष्ट्वा तालपक्षाभ्यां कृत्वात्मानं परिष्कृतम् ।
आकाशे गमनाभ्यासं व्यधादुत्साहनिर्भरः ॥५३३॥
ततो यदृच्छया यातो भगवान्वरदो गुहः ।
तं दृष्ट्वा बालकृपया चकार व्योमगामिनम् ॥५३४॥
इति सोत्साहधैर्यानां स्वयं सिद्धिः प्रजायते ।
उत्साहो धर्मवीर्याणां मूलं सत्त्वमहातरोः ॥५३५॥
इति धैर्यपारमिता ॥१४॥
N/A
References : N/A
Last Updated : October 21, 2017

TOP