विनीतमत्याख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इति पारमिताः श्रुत्वा विनीतमतिना स्वयम् ।
कथिताः सोमशूरोऽभून्मुनिस्तस्मिंस्तपोवने ॥५६८॥
अत्रान्तरे समभ्यायाद्विजितो भूमिपात्मजः ।
तेनेन्दुकलशाख्येन विनीतमतिकाननम् ॥५६९॥
स तत्र क्षुत्परिश्रान्तः सामात्यो निःसहोऽभवत् ।
वनं च निष्फलच्छायं तदभूदिन्द्रमायया ॥५७०॥
ततः श्वभ्रे निपतितं कृत्वात्मानं महामृगम् ।
विनीतमतिरर्थिभ्यस्तेभ्यो भोजनतामगात् ॥५७१॥
राजपुत्रेण भुक्ते वै मृगे तस्मिन्नशङ्कितम् ।
वह्निं निपेततुस्तुल्यं विनीतमतिवल्लभे ॥५७२॥
तज्ज्ञात्वा राजपुत्रोऽपि सामात्योऽग्निं समाविशत् ।
सोमशूरस्तु योगेन तनुमुत्स्रष्टुमुद्ययौ ॥५७३॥
ततो मायाकृतं सर्वमित्युक्त्वा पाकशासनः ।
पीयूषेणास्थिशेषांस्तान्समस्तान्समजीवयत् ॥५७४॥
विनीतमतिरासाद्य जीवं बोधमथो ययौ ।
दिव्यं तपोवनं श्रीमान्सर्वसत्त्वहितोद्यतः ॥५७५॥
इत्येवं संगताः पूर्वं पञ्चतामपि ते गताः ।
किं चित्रं भविता व्यक्तं जीवतां वः समागमः ॥५७६॥
इति विनीतमत्याख्यायिका ॥१७॥
N/A
References : N/A
Last Updated : October 21, 2017
TOP