मन्त्रगुप्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः पुष्प्च्चयक्रीडाव्यग्रां ललितलोचनाम् ।
दृष्ट्वा दिव्यसरः स्नातुं प्रययौ नरवाहनः ॥५९॥
कमलाकेलिसदने प्रफुल्लकमलाकरे ।
स्नात्वार्चयित्वा श्रीकण्ठमुपकण्ठं व्यलोकयत् ॥६०॥
ततः सस्मार सहसा प्रियां मदनमञ्चुकाम् ।
रमणीयेषु यत्सत्यं स्मर्यते दयितो जनः ॥६१॥
वदनं शतपत्रेषु दृशं नीलोत्पलेषु च ।
वीचिषु भ्रूविलासं च स शुशोच मृगीदृशः ॥६२॥
कलहंसकुलक्काणकमनीयां सरःश्रियम् ।
पश्यन्प्रदध्यौ दयितां लीलामुखरमेखलाम् ॥६३॥
मत्तालिमालावलयव्यालोलनलिनीतटे ।
स्मृत्वा केलिरतालोलालकां तां च मुमोह सः ॥६४॥
पिशङ्गजटनामाथ तमेत्य मुनिसत्तमः ।
प्रत्यग्रचन्दनरसैः सिषेच करुणानिधिः ॥६५॥
लब्धसंज्ञः स विलपन्प्रियां मदनमञ्चुकाम् ।
महामुनिं पुरो दृष्ट्वा प्रणनाम ह्रिया नतः ॥६६॥
तं पिशङ्गजटः प्राह धैर्याब्धे मा शुचः प्रियाम् ।
भवन्ति महतामेव दुःसहा दैवविक्रियाः ॥६७॥
उक्त्वेति तं निनायाशु स मुनिर्निजमाश्रम म् ।
मुनिकन्याकराकीर्णनीवारहरिणाकुलम् ॥६८॥
तत्रार्द्रचन्दनरसैरुपलिप्तो जटाङ्गणे ।
नर्वाहनमासीनं मुनिमध्येऽभ्यधान्मुनिः ॥६९॥
नरवाहन सहस्वैतं दुःसहं विरहानलम् ।
अचिरात्प्राप्स्यसि मनःसुधां मदनमञ्चुकाम् ॥७०॥
श्रूयतां राजपुत्रेण यथाप्ता वल्लभा पुरा ।
राजन्मृगाङ्कदत्तेन निस्तीर्य विरहोदधिम् ॥७१॥
अयोध्येत्यस्ति नगरी स्फाटिकैर्या महागृहैः ।
कैलासवसरसिकं हसतीव महेश्वरम् ॥७२॥
तस्याममरदत्ताख्यो बभूव वसुधाधिपः ।
यत्कीर्तिकौमुदी चित्रा लोकाम्बुजविकासिनी ॥७३॥
मृगाङ्कदत्तस्तस्यासीत्तनयः कान्तिभूषणः ।
यशःसरसि विस्फार मृगाङ्क इव बिम्बितः ॥७४॥
शरीरतुल्यास्तस्यासन्विक्रान्ताः सचिवा दश ।
स्वच्छासु दिक्षु दशसु प्रथिता इव मूर्तयः ॥७५॥
स्थूलबाहुर्मेघबलस्तथा विक्रमकेसरी ।
व्याघ्रसेनो विमलधीर्दृढमुष्टिर्गुणाकरः ॥७६॥
चण्डशक्तिश्चित्रकथस्तथा भीमपराक्रमः ।
इति कर्मेरिताभिख्या बभूवुस्तस्य ते प्रियाः ॥७७॥
ईश्वरो भूतसुभगैः स तैर्दशभिराबभौ ।
एकादशात्मा संप्राप्तो रुद्रसाम्यदशामिव ॥७८॥
ततः कदाचित्तं प्राह स्वैरं भीमपराक्रमः ।
देव स्वप्ने मया दृष्टः श्रूयतां कौतुकं महत् ॥७९॥
तमोभिरञ्जनशिलापुञ्जैरिव पुरस्कृतम् ।
अपश्यं मत्तमातङ्गकपोलमलिनं जगत् ॥८०॥
ततः शुभ्रनस्वश्रेणीविसूत्रिततमःपटः ।
ज्वालाविलोलजिह्वाग्रो मृगेन्द्रोऽभिससार तम् ॥८१॥
स मया कृष्टशस्त्रेण समाहूतो ययौ जवात् ।
सरितः पारमुत्ताललाङ्गूलकपिकेसरः ॥८२॥
अपरां निर्गतस्तस्य जिह्वां छित्त्वाहमागतः ।
तयैवोत्तीर्य तटिनीं तदन्तिकमुपागतः ॥८३॥
ततो वेतालतां यातं तमपृच्छं कुतूहलात् ।
भार्या मृगाङ्कदत्तस्य का भवित्रीत्यलुप्तधीः ॥८४॥
स प्राहास्ति सुरावासजयिन्युज्जयिनी पुरी ।
तस्यां कन्दर्पसेनोऽस्ति राजा कन्दर्पदर्पजित् ॥८५॥
उत्पन्ना च कलावत्यां कन्यास्ति कमलेक्षणा ।
पुत्री शशाङ्कवत्याख्या प्रत्याख्यात्री शशिश्रियः ॥८६॥
सुन्दरी सुरभिश्वासा सुधार्द्रसुभगस्वरा ।
सुकुमारतरा यस्यास्तनुः सर्वेन्द्रियोत्सवा ॥८७॥
विलासहासकुसुमा कटाक्षोभ्द्रान्तषट्पदा ।
यौवनोपवने यस्याः फुल्ला विभ्रममञ्जरी ॥८८॥
हाररत्नकरस्मेरत्रिवली मुष्टिमुद्रिता ।
भाति रोमावली यस्याः कामहस्तासिवल्लरी ॥८९॥
हरप्रसदादहिता वल्लभासौ भविष्यति ।
राज्ञो मृगाङ्कदत्तस्य निगद्येति तिरोदधे ॥९०॥
श्रुत्वेति राजतनयः सुह्रुदः स्वप्नकौतुकम् ।
कृत्वा विदितवृत्तान्तानुवाच सचिवान्पुनः ॥९१॥
आश्चर्यं दृष्टवान्स्वप्ने बत भीमपराक्रमः ।
मयाप्यद्यैव यद्दृष्टं स्वप्नं तच्च निशम्यताम् ॥९२॥
युष्माभिः सहितो गन्तुं प्रस्थितो विकटाटवीम् ।
अहं तृषापरिश्रान्तः प्राप्तः शीतजलां नदीम् ॥९३॥
वयं निषिद्धाः खङ्गाग्रहस्तैस्तत्र ततो नरैः ।
यावत्क्रोधाकुलास्तावन्नदी सादृश्यतां ययौ ॥९४॥
ततस्तृष्णाभितप्तेन मया दृष्टः स्वयं शिवः ।
तत्र नेत्रात्त्रिनेत्रस्य पेतुरश्रुकणाः क्षितौ ॥९५॥
समुद्रतां स संप्राप्तः पीतः शर्वाज्ञया मया ।
रक्ताक्तेन कपालेन तन्मध्यान्मौक्तिकावली ॥९६॥
मया लब्धा शशिसिता साद्य कण्ठे निवेशिता ।
निशम्य राजपुत्रेण तत्स्वप्नमिति वर्णितम् ॥९७॥
प्रशशंसुः प्रियावाप्तिं जयं चास्योत्तमं पुरः ।
नूतनाङ्कुरितोत्कण्ठः पुनः प्राह नृपात्मजः ॥९८॥
राजा कन्दर्पसेनोऽसौ सत्त्वसाध्यो महाबलः ।
याचितोऽपि न कन्यां स प्रयच्छति रणोत्कटः ॥९९॥
दुर्गाश्रयो महाकोशो रक्तमात्यो महामतिः ।
तस्मादुपायविच्छेदे धिया कार्ये विचिन्त्यताम् ।
सतां हि वस्तुसंदेहे बुद्धिरभ्युदयश्रिये ॥१००॥
मगधाधिपतिः पोरोवं भद्रबाहुर्वराकृतिः ।
धर्मगोपस्य नृपतेः सुतां श्रुत्वाभ्ययाचत ॥१०१॥
अनङ्गलीलां न ददौ स तां वारणसीपतिः ।
तस्मै दिग्गजतुल्येन गजराजेन गर्वितः ॥१०२॥
भद्रबाहोर्महामात्यो मन्त्रगुप्ताभिधस्ततः ।
युक्त्या वाराणसीं गत्वा सह शिष्यैरभूद्व्रती ॥१०३॥
तत्र प्रसिद्धिमायातः सिद्धान्ताख्यानकोविदः ।
भ्रमन्निशि ददर्शाथ स्त्रियं द्वित्रिनरानुगाम् ॥१०४॥
साब्रवीत्तान्विमुञ्चन्तु मां भवन्तो मुहूर्तकम् ।
कुञ्जरेन्द्रं भोजयित्वा तूर्णमायाति मे पतिः ॥१०५॥
इत्याकर्ण्य महामात्यो ज्ञात्वा तां गजपालिकाम् ।
व्रजन्तीं तां समादाय तेषां गृहमवैक्षत ॥१०६॥
ततः प्रभाते दयितारहितो हस्तिपालकः ।
शोकाद्भुक्तविशो दृष्टस्तच्छिष्यैर्बान्धवाकुलः ॥१०७॥
तस्य मित्रैरन्वितास्ते हर्तुं विषविषूचिकाम् ।
तं गुरोर्ब्रतिवेशस्य मन्त्रिणो निन्युरन्तिकम् ॥१०८॥
स तं वीतविषं कृत्वा प्राह तं लप्स्यसे वधूम् ।
मद्वरादिति संभाष्य तस्मै चौरानदर्शयत् ॥१०९॥
ततो हस्तिपकः शूरो हत्वा तान्प्राप्य तां प्रियाम् ।
प्रणम्य प्राह भोक्तुं मे गृहमर्हति मन्त्रिणम् ॥११०॥
सोऽवदत्पुत्र नास्माकमुचितो गृहसंगमः ।
श्रुत्वेति हस्तिपः प्राह हस्तिशालामुपैहि मे ॥१११॥
इति तेनार्थितो मन्त्री सशिष्यो नक्तभोजनः ।
प्रभुकार्यार्थमविशद्रतिवेषो गजालयम् ॥११२॥
कृष्णसर्पं समाधाय सुषिरे वेणुनालिके ।
तत्र भुक्तोत्तरं कर्णे विदधे तस्य दन्तिनः ॥११३॥
प्रसुप्ते मधुसंमत्ते गजपालकमण्डले ।
स गजः कृष्णसर्पस्य फूत्कारैर्विवशोऽपत त् ॥११४॥
ततः प्रभाते स ययौ मागधस्यान्तिकं प्रभोः ।
तापसव्यञ्जनो मन्त्री पूजां बेजे च भूभुजः ॥११५॥
ययाचे सोऽथ दूतेन भद्रबाहुं नृपात्मजम् ।
गजं सर्पहतं ज्ञात्वा राजा भीतश्च तां ददौ ॥११६॥
इत्येवं धीमतां बुद्ध्या भवन्त्यखिलसिद्धयः ।
पशूनामिव मूर्खाणां धीहीनं नु बलं वृथा ॥११७॥
इति मन्त्रगुप्ताख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP