संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| दानपारमिता प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका दानपारमिता क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत दानपारमिता Translation - भाषांतर सोऽब्रवीन्नागशापेन तदाहं देव मूर्च्छितः । विन्ध्याटव्यं परिश्रान्तः संप्राप्तो विन्ध्यवासिनीम् ॥४३६॥ नतो नरशिरःकेशशकृन्महिषसंकुलम् । द्वारलम्बिमहावीरमुण्डमण्डलमण्डितम् ॥४३७॥ आक्रीडमिव कालस्य कङ्कगृध्रखगाकुलम् । क्षणं संध्याम्बुदमिव प्रत्यग्ररुधिरारुणम् ॥४३८॥ बद्धैः करालमायूरशरीरैः शबराहृतैः । उत्पक्ष्मभिः कालरात्र्या भ्रूभङ्गैरिव भीषणैः ॥४३९॥ शुभ्रास्थिकूटसंघट्टैः स्पष्टीकृतदिगष्टकम् । मारीघट्टसमुत्सृष्टैरट्टहासैरिवावृतम् ॥४४०॥ दुर्गायतनमासाद्य स्वशिरश्छेत्तुमुद्यतम् । ददर्श मां तु विक्रान्तं वृद्धा कापि तपस्विनी ॥४४१॥ विराजिता भस्मशुभ्रे कण्ठे स्फटिकमालया । स्वधियेवाश्रिता साक्षात्क्षीणरागकलङ्कया ॥४४२॥ सा मां निवार्य कृपया श्रुत्वा दीर्घं च मत्कथाम् । उवाच मा शुचः पुत्र ध्रुवं शुभमवाप्स्यसि ॥४४३॥ न विद्या न कुलं न श्रीधैर्यहीनस्य शोभते । करिणो रणभग्नस्य मदाङ्क इव डिण्डिभः ॥४४४॥ भ्रमराणामिवादभ्रे भ्रमतां भवकानने । शरीरिणामवश्यं हि भवत्येव समागमः ॥४४५॥ अभूदुदयतुङ्गाख्यः पञ्चालेषु महीपतिः । यशश्चन्द्रच्छलाद्यस्य यातमेकातपत्रताम् ॥४४६॥ तस्याभवत्प्रतीहारः श्रीरक्षापरिखाचलः । कमलाक्षो मतिमतां धुर्यश्च नयविश्रुतः ॥४४७॥ विनेतमतिरित्यासीत्पुत्रस्तस्य गुणोचितः । वंशमुक्तामणेर्यस्य कान्तिकान्ता विभूषणम् ॥४४८॥ स कदाचिन्निजयशःशुभ्रचन्द्रकरोज्ज्वले । शुश्राव विचरन्धन्वी निशीथे रुदितध्वनिम् ॥४४९॥ गत्वापश्यत्तरुतले कन्यां कमललोचनाम् । विषण्णां कुञ्जरक्षोभां नलिनीनामिव श्रियम् ॥४५०॥ सा दुःखकारणं पृष्टा तेन प्राह सुमध्यमा । दन्तव्रातनवज्योत्स्नारचितानेकचन्द्रिका ॥४५१॥ पिता मे गन्धमालीति नागपाशेन वासुकेः । कालजिह्वाख्ययक्षस्य जिह्वभारिकतां गतः ॥४५२॥ भ्राता तस्य महावीर्यो विद्युज्जिह्वः प्रियासखः । यक्षो यक्षपतेः शापात्प्रयातश्चक्रवाकताम् ॥४५३॥ स्नेहाभ्द्रातुः सरोमध्ये स्थितस्य विहगाकृतेः । समीपे वसतिं चक्रे कालजिह्वो मदोत्कटः ॥४५४॥ ( तत्र स्थितस्य पुष्पाणि मदाशापरियन्त्रितः । स मत्पिता गन्धमाली भारवाहां प्रयच्छति ) ॥४५५॥ तद्दुःखाद्गिरिजा देवी नियतं सेविता मया । यक्षे विनीतमतिना जिते शापान्तमभ्यधात् ॥४५६॥ तदर्थं खङ्गरत्नं मे वराश्वं च ददौ सती । तत्प्राप्त्यर्थं मयाहूतः करुणाक्रन्दमानया ॥४५७॥ इति श्रुत्वा तदादाय खङ्गरत्नं सवाजिकम् । तदादिष्टेन मार्गेण तं यक्षं सोऽजयद्रणे ॥४५८॥ यक्षो विनीतमतिना वधयोग्योऽपि रक्षितः । रत्नाङ्गुलीयकं तस्मै ददावीतिनिबर्हणम् ॥४५९॥ ततो विमुक्तशापेन दत्तां नागनतां सुताम् । लब्ध्वा विजयवत्याख्यां स ययौ निजमन्दिरम् ॥४६०॥ प्रातः कृतविवाहोऽथ राज्ञा पित्रा च स स्वयम् । नागकन्यासखो भेजे विनीतमतिरुत्सुकः ॥४६१॥ अत्रान्तरे नरपतेः सुता विद्यासु कोविदा । दर्पादुदयवत्याख्या विजिग्ये वादिनां गणम् ॥४६२॥ जयेद्यो मां विवादेन स मे पाणिं ग्रहीष्यति । इति कृत्वा प्रतिज्ञां सा वादिवृन्दं समाह्वयत् ॥४६३॥ ततः पित्रा समादिष्टो विनीतमतिरेत्य ताम् । जित्वा दीर्घेण वादेन प्राप दत्तां महीभुजा ॥४६४॥ स तां बालमृगीलोलललितायतलोचनाम् । प्राप्य स्मरनरेन्द्रस्य यौवराज्यं समाप्तवान् ॥४६५॥ कदाचिदथ तं द्यूतविनोदव्यग्रमानसम् । ययाचे भोजनं विप्रः स च दासं तदादिशत् ॥४६६॥ दासोऽपि सिकतापात्रं तस्मै वस्त्रावृतं ददौ । अमन्दनिम्बकटुकदुष्टा हि नृपचेटकाः ॥४६७॥ अथ कालेन तं राजा धृत्वा राज्ये सुतापितम् । प्रज्वाल्य गुग्गुलुं मूर्ध्नि वृद्धो वृद्धां दशां ययौ ॥४६८॥ विनीतमतिरासाद्य प्राज्यं राज्यं प्रजाप्रियः । विदधे धर्मविधिना विबुधाराधनव्रतम् ॥४६९॥ अत्रान्तरे समभ्यायाद्वादिद्विरदकेशरे । रत्नचन्द्रमतिर्नाम भिक्षुरक्षणबौद्धधीः ॥४७०॥ अष्टाभिर्दिवसैस्तेन वादिना स जितो नृपः । जग्राह तत्पणे बद्धं सौबद्धं धर्मशासनम् ॥४७१॥ स विहारं प्रविदधे हारपुण्यं फलं श्रियः । लोकनाथसमायुक्तं भिक्षुसंघशताचितम् ॥४७२॥ ततः परोपदेशार्थी रत्नचन्द्रमतेर्गिरा । स चकार धराधीशो विधिना स्वप्नसाधनम् ॥४७३॥ ज्वलितं सिकताकूटं सोऽपश्यत्प्रेतभूमिगः । भुङ्क्ष्वेत्यभिहितः स्वप्ने विकटैर्दण्डपाणिभिः ॥४७४॥ दत्तं प्राक्सिकतापात्रं द्यूतकेलिजुषा त्वया । ब्राह्मणाय क्षुधार्ताय तस्यायं फलसंचयः ॥४७५॥ दशकोटीः सुवर्णस्य दत्त्वाभूद्गतकिल्बिषः । इति श्रुत्वा प्रबुद्धस्तु गुरवे स निवेदयत् ॥४७६॥ तद्वाक्यात्काञ्चनं दत्त्वा पुनः स्वप्नविधिं व्यधात् । भूयस्तदेव च स्वप्ने ददर्शोत्कम्पिताशयः ॥४७७॥ हृते विप्रस्य हेमांशे चौरैस्तदफलं गतम् । दशकोटीः पुनर्दत्त्वा हेमोऽभूद्भतकल्मषः ॥४७८॥ ततो बुद्धकथाजातं भिक्षुः स्वैरं तमभ्यधात् । नरेन्द्र दानं वीराणामुत्साहः सिद्धये सताम् ॥४७९॥ पुरा वराहरूपस्थो निधिसत्त्वः कृपानिधिः । धर्माय सिंहरूपाय स्वं वपुर्भोजनं ददौ ॥४८०॥ हेलोत्तालानिलालोलजलकल्लोलचञ्चलैः । प्राणैः पुण्यवतामेव प्रणयिप्राणपूरणम् ॥४८१॥ इत्यादि बुद्धसंबद्धां कथामाकर्ण्य भूपतिः । स बभूवार्थिसार्थानां जङ्गमः कल्पपादपः ॥४८२॥ अथाभ्येत्य ययाचे तं विप्रः कोऽप्यङ्गुलीयकम् । रक्षामि राक्षसाविष्टं पुत्रमित्यनिवारितः ॥४८३॥ रक्षारत्नाङ्गुलीयं तस्माद्ददौ तस्मै स सत्त्वधीः । पूर्णरत्नार्थिनां सत्यं सन्ति चिन्तामणिश्रियः ॥४८४॥ राजपुत्रस्ततोऽभ्येत्य विनीतमतिमभ्यधात् । सगोत्रशात्रवाञ्जेतुं खङ्गं साश्वमयाचत ॥४८५॥ तद्दत्तेनाथ खङ्गेन राज्यं शत्रोर्जहार सः । हृत्तराज्यः परोऽभ्येत्य विनीतमतिमभ्यधात् ॥४८६॥ राजन्युष्मत्कृपाणेन हृता श्रीः शत्रुणा मम । श्रुत्वेति करुणासिन्धुस्तस्मै राज्यं निजः ददौ ॥४८७॥ त्यक्तराज्यः प्रविश्याथ सभार्यो विकटाटवीम् । स तपःपुण्यपीयूषैश्चक्रे नन्दनसंनिभम् ॥४८८॥सोमश्रमाभिधं तत्र पुरुषं मर्तुमुद्यतम् । निवार्य दुःखात्सोऽपृच्छत्स च पृष्टस्तमभ्यधात् ॥४८९॥ पिता मे नागशूराख्यो जाते मयि पुराश्रृणोत् । चौरस्ते तनयो भावी न चिरादिति योगिनः ॥४९०॥ ततो विद्याविदं चक्रे स मां यत्नेन वत्सलः । विद्या ह्यकृत्रिमो दीपः संमोहतिमिरे नृणाम् ॥४९१॥ ततोऽहमभवं चौरस्तद्द्विषां पतितो वशे । ललाटे कर्मटे केन लिखितं को निवर्तयेत् ॥४९२॥ ज्ञातकालेन राज्ञा हि निबद्धोऽहं च तत्क्षणात् । दैवाद्विभ्रष्टनागेन्द्रकल्लोलेन विमोचितः ॥४९३॥ गजकोलाहलव्यग्रं तीर्णोऽहं जनमण्डले । अश्रौषमेत्य पितरौ मच्छोकात्त्यक्तजीवितौ ॥४९४॥ ततोऽहमपि तद्दुःखात्प्राप्तो मर्तुमिदं वनम् । दृष्टः कारुण्यसंपूर्णधिया देव्या वनश्रिया ॥४९५॥ विनीतमतिसंस्थानपुण्येऽस्मिन्पुत्र कानने । क्षीणं ते पातकं गच्छ तस्मात्पारमितां श्रृणु ॥४९६॥ इति तद्वचनं श्रुत्वा मया दृष्टो भवान्पुरः । भगवन्ब्रूहि मे पुण्यां सम्यक्पारमितां कथाम् ॥४९७॥ इत्याकर्ण्य कृपासिन्धुर्विनीतमतिराश्रम म् । नीत्वा तमवदज्ज्ञानलोचनालोकिताखिलः ॥४९८॥ विचार एव जन्तूनां सदा सन्मार्गदर्शकः । स च स्फुरति तत्त्वेन नहि माया कृतात्मनाम् ॥४९९॥ पाञ्चालेष्वभवद्विप्रो देवभूतिरिति श्रुतः । भोगदत्ताभिधानस्य भार्याभूद्धर्मचारिणी ॥५००॥ पत्यौ स्नानाय निर्याते शाकावचयनिर्गता । सापश्यत्खरमारामे रजकेन निवेशितम् ॥५०१॥ स तया वारितो यष्ट्या भीतः श्वभ्र इवापत त् । पततः स्फुटिता तस्य सशब्दा जानुनानिका ॥५०२॥ रजकोऽपि तमालोक्य खरं खञ्जीकृतं तया । तां मुष्टिभिर्जघानाशु लगुडैश्च धनेन सः ॥५०३॥ च्युतो गाढप्रहारेण गर्भस्तस्याः सशोणितः । द्विजोऽष्यागत्य तद्दृष्ट्वा नगराधिपतिं ययौ ॥५०४॥ जल्पं पुराधिनाथोऽसौ श्रुत्वा रजकविप्रयोः । न्यायं विचार्य सुचिरं ततो वक्तुं प्रचक्रमे ॥५०५॥ उभयोरयमन्यायो ब्राह्मण्या रजकस्य च । खरो विशमितो यच्च गर्भो यत्पातितोऽमुना ॥५०६॥ वस्त्रभारं वहत्वेष खरस्यास्थ्यावधिं द्विजः । आधत्तां रजको गर्भं ब्राह्मण्यां यत्नमास्थितः ॥५०७॥ इति न्यायविदो वाक्यं श्रुत्वा पुरपतेर्द्विजः । सभार्जो विषपानेन बभूव सहसा व्यसुः ॥५०८॥ स च राज्ञः पुरपतेर्निगृहीतो विनष्टधीः । इत्येवं दुर्विनीतानां श्वभ्रपातः समे पथि ॥५०९॥ तस्माद्विचारमास्थाय श्रृणु पारमितां कथाम् । यया भवत्यमलधीर्न्यस्तसंसारवासनः ॥५१०॥ मलयप्रभनामाभूत्कुरुक्षेत्रे महीपतिः । श्रीमानुन्दुप्रभो नाम त्यागरत्नाकरः सुतः ॥५११॥ स कदाचिज्जनपदं दुर्भिक्षेण निपीडितम् । संतार्य त्यागसत्त्वाभ्यां व्रतैः शक्रमतोषयत् ॥५१२॥ तद्वरात्कल्पवृक्षोऽभूत्सर्वाशापूरणस्तदा । तत्प्रसादाद्दिवं सर्वे कुरुक्षेत्रनिवासिनः ॥५१३॥ सशरीरा ययुः सत्यं सिद्धये स हि पादपः । इत्येवं दानशीलस्य चिरं कल्पतरुस्थितेः । तस्य कीर्तिः पताकेव विभात्येषा त्रिमार्गगा ॥५१४॥ तापपीयूषजलदस्तिमिरध्वंसभास्करः । दानं हि नाम संसारे निदानं शुभसंपदाम् ॥५१५॥ इति दानपारमिता ॥११॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP