मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| मम न भजनशक्तिः पादयोस्ते ... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... त्रिपुरसुन्दरीमानसपूजास्तोत्रम् - मम न भजनशक्तिः पादयोस्ते ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीमच्छंकरभगवत्पादविरचितम् Translation - भाषांतर मम न भजनशक्तिः पादयोस्ते न भक्ति-र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिःइति मनसि सदाऽहं चिन्तयन्नाद्यशक्तेरुचिरवचनपुष्पैरर्चनं संचिनोमि ॥१॥व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैःपोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥२॥तस्मिन्नुज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटंकुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।उच्चैःशृंगनिषण्णदिव्यवनिताबृन्दाननप्रोल्लसत्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥जातीचंपकपाटलादिसुमनःसौरभ्यसंभावितंह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।आविर्भूतसुगन्धिचन्दनवनं दिष्टिप्रियं नन्दनंचञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥परिपतितपरागैः पाटलक्षोणिभागोविकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।अलिशुकपिकराजीकूजितैः श्रोत्रहारीस्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ।५॥रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभस्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युतेक्षॊणीमण्डलहेमहारविलसत्संसारपारप्रदप्रोद्यत्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥६॥उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभःसत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशंसोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥७॥क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितंकुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।मध्यालंबिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥८॥उत्तुंगालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशंकया ।नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-र्वल्गावल्गितहस्तमस्तशिखरंकष्टैरितः प्राप्यते ॥९॥मणिसदनसमुद्यत् कान्तिधारानुरक्तेवियति चरमसन्ध्याशङ्किनो भानुरथ्याः ।शिथिलितगतकुप्यत्सूतहुंकारनादैःकथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥१०॥भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिनाकिं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषितेशंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥११॥विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।विरिञ्चिविष्णुशंकरादिभिर्मुदा तवांबिकेप्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥१२॥ध्वनन्मृदंगकाहलः प्रगीतकिन्नरीगणःप्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलोमुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥१३॥प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-र्बहिःस्थितामरावलीविधीयमानभक्तिभिः ।विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैःसदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥१४॥सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितोमदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥१५॥इन्द्रादींश्च दिगीश्वरान् सहपरीवारानथो सायुधा-न्योषिद्रूपधरान् स्वदिक्षु निहितान् संचिन्त्य हृत्पंकजे ।शंखे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मरन्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-र्द्वाराभ्यासकृतस्थितीरिहसरस्वत्यादिकाः पूजयन् ।द्वारेनौमि मदनोन्मदं सुरगणाधीशं मदनोन्मदांमातंगीमसितांबरां परिलसन्मुक्ताविभूषां भजे ॥१७॥कस्तूरिकाश्यामलकोमलाङ्गींकादंबरीपानमदालसाङ्गीम् ।वामस्तनालिङ्गितरत्नवीणांमातंगकन्यां मनसा स्मरामि ॥१८॥विकीर्णचिकुरोत्करे विगलितांबराडंबरेमदाकलितलोचने विमलभूषणोद्भासिनि ।तिरस्करणि तावकं चरणपंकजं चिन्तयन्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥१९॥प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाःप्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।उपोढकज्जलच्छविच्छटाविराजिविग्रहाःकपालशूलधारिणीः स्तुवे त्वदीय दूतिकाः ॥२०॥स्फूर्जन्नव्ययवाङ्कुरोपलसिता भोगैः पुरः स्थापितै-र्दीपोद्भासिशरावशोभितमुखैः कुंभैर्नवैः शोभिना ।स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रियायुक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥२१॥आस्तीर्णारुणकंबलासनयुतं पुष्पोपहारान्वितंदीप्तानेकमणिप्रदीपसुभगं राजद्विमानोत्तमं ।धूपोद्गारिसुगन्धिसंभ्रममिलद्भृंगावलीगुंजितम्कल्य़ाणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥कनकरचिते पञ्चप्रेतासनेन विराजितेमणिगणचिते रक्तश्वेतांबरास्तरणोत्तमे ।कुसुमसुरभौ तल्पे दिव्योपधानसुखावहेहृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥२३॥सर्वांगस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितांजृंभामञ्जुमुखांबुजां मधुमदव्याघूर्णदक्षित्रयाम् ।सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशासंपश्यन् परदेवतां परमहो मन्ये कृतार्थं जनुः ॥२४॥उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृंभितेभक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितांप्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥२५॥पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोःसौधीभिर्मधुपर्कमंब मधुरं धाराभिरास्वादय ।तोयेनाचमनं विधेहि शुचिना गांगेन मत्कल्पितंसाष्टांगं प्रणिपातमीशदेयिते दृष्ट्या कृतार्थी कुरु ।२६॥मातः पश्य मुखांबुजं सुविमले दत्ते मया दर्पणेदेवि स्वीकुरु दन्तधावनमिदं गंगाजलेनान्वितम् ।सुप्रक्षालितमाननं विरचयन् स्निग्धांबरप्रोञ्छनंद्रागंगीकुरु तत्वमंब मधुरं तांबूलमास्वादय ॥२७॥निधेहि मणिपादुकोपरि पदांबुजं मज्जना-लयं व्रज शनैः सखीकृतकरांबुजालंबनम् ।महेशि करुणानिधेतव दृगन्तपातोत्सुकान्विलोकय मनागमूनुभयसंस्थितान् दैवतान् ॥२८॥हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितंसज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥२९॥कनककलशजालस्फाटिकस्नानपीठा-द्युपकरणविशालं गन्धमत्तालिमालम् ।स्फुरदरुणवितानं मञ्जुगन्धर्वगानंपरमशिवमहेले मज्जनागारमेहि ॥३०॥पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्राननाःरत्नस्वर्णविनिर्मिताः परिलसत् सूक्ष्मांबरप्रावृताः ।हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमंतैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥३१॥तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयांबरा ।वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥३२॥अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितंकाश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादितेनृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥३३॥कृतपरिकरबन्धास्तुंगपीनस्तनाढ्यामणिनिवहनिबद्धा हेमकुंभीर्दधानाः ।सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाःसविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥३४॥उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणास्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि ।पुष्पांभोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैःस्नानं ते परिकल्पयामि गिरिजे भक्त्या तदंगीकुरु ॥३५॥प्रत्यंगं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनंकुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितंआलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभंभक्तत्राणपरे महेशगृहिणि स्नानांबरं मुच्यताम् ॥३६॥मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभासुरम् ।नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥३७॥विलुलितचिकुरेण च्छादितांसप्रदेशेमणिनिकरविराजत्पादुकान्यस्तपादे ।सुललितमवलंब्य द्राक्सखीमंसदेशेगिरिशगृहिणि भूषामण्डपाय प्रयाहि ॥३८॥लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-समुल्लसितकान्तिभिः कलितशक्रचापव्रजे ।महाभरणमण्डपे निहितहेमसिंहासनंसखीजनसमावृतं समधितिष्ठ कात्यायनि ॥३९॥स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करंसीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् ।मुक्ताभिर्ग्रथितालकां मणिचितैर्सौवर्णसूत्रैः स्फुटंप्रान्ते मौक्तिकगुच्छकापलतिकां ग्रथ्नामि वेणीमिमाम् ॥४०॥विलंबिवेणीभुजगोत्तमांग-स्फुरन्मणिभ्रान्तिमुपानयन्तंस्वरोचिषोल्लासितकेशपाशंमहेशि चूडामणिमर्पयामि ॥४१॥त्वामाश्रयद्भिः कबरीतमिस्रै-र्बन्दीकृतं द्रागिव भानुबिम्बम् ।मृडानि चूडामणिमादधानंवन्दामहे तावकमुत्तमांगम् ॥४२॥स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलंविलंबिमौक्तिकच्छटाविराजितं समन्ततः ।निबद्धलक्षचक्षुषा भवेन भूरि भावितंसमर्पयामि भास्वरं भवानि फालभूषणम् ॥४३॥मीनांभोरुहखंजरीटसुषमाविस्तारविस्मारकेकुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभां ।माध्वीपानमदारुणेऽतिचपले दीर्घे दृगंभोरुहेदेवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितांदैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधःकुर्वतीम् ।उत्सिक्ताधरबिंबकान्तिविसरैर्भौमीभवन्मौक्तिकांमद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥उडुकृतपरिवेषस्पर्धया शीतभानो-रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तंश्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥४६॥मरकतवरपद्मरागहीरो-त्थितगुलिकात्रितयावनद्धमध्यम् ।विततविमलमौक्तिकं च कण्ठा-भरणमिदं गिरिजे समर्पयामि ॥४७॥नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृतांमध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-व्रातामंब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥४८॥अन्योन्यं प्लावयन्ती सततपरिलसत्कान्तिकल्लोलजालैःकुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी ।मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां न: ॥४९॥करसरसिजनाले विस्फुरत्कान्तिजालेविलसदमलशोभे चञ्चदीशाक्षिलोभे ।विविधमणिमयूखोद्भासितं देवि दुर्गेकनककटकयुग्मं बाहुयुग्मे निधेहि ॥५०॥व्यालंबमानसितपट्टकगुच्छशोभिस्फूर्जन्मणीघटितहारविरोचमानम् ।मातर्महशमहिले तव बाहुमूलेकेयूरकद्वयमिदं विनिवेशयामि ॥५१॥विततनिजमयूखैर्निर्मितामिन्द्रनीलैःजितकमलनालालीनमत्तालिमालांमणिगणखचिताभ्यां कंकणाभ्यामुपेतांकलय वलयराजीं हस्तमूले महेशि ॥५२॥नीलपट्टमृदुगुच्छशोभिता-बद्धनैकमणिजालमञ्जुलां ।अर्पयामि वलयात्पुरःसरेविस्फुरत्कनकतैतृपालिकाम् ॥५३॥आलवालमिव पुष्पधन्वनाबालविद्रुमलतासु निर्मितं ।अंगुलीषुविनिधीयतां शनै-रंगुलीयकमिदं मदर्पितम् ॥५४॥विजितहरमनोभूमत्तमातंगकुंभ-स्थलविलुलितकूजत्किङ्किणी जालतुल्याम्अविरलकलनादैरीशचेतो हरन्तींविविधमणिनिबद्धां मेखलामर्पयामि ॥५५॥व्यालंबमानवरमौक्तिकगुच्छशोभिविभ्राजिहाटकपुटद्वयरोचमानम् ।हेम्ना विनिर्मितमनेकमणिप्रबन्धंनीवीनिबन्धनगुणं विनिवेदयामि ॥५६॥विनिहतनवलाक्षापङ्कबालातपौघेमरकतमणिराजी मञ्जुमञीरघोषे ।अरुणमणिसमुद्यत्कान्तिधाराविचित्र-स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥५७॥निबद्धशितिपट्टकप्रवरगुच्छसंशोभितांकलक्वणितमञ्जुलां गिरिशचित्तसंमोहिनीम् ।अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितांनिधेहि पदपंकजे कनकघुङ्घुरूमंबिके ॥५८॥विस्फुरत्सहजरागरञ्जितेशिञ्जितेन कलितां सखीजनैः ।पद्मरागमणिनूपुरद्वयी-मर्पयामि तव पादपंकजे ॥५९॥पदांबुजमुपासितुं परिगतेन शीतांशुनाकृतां तनुपरंपरामिव दिनान्तरागारुणाम् ।महेशि नवयावकद्रवेण शोणिकृतांनमामि नखमण्डलीं चरणपंकजस्थां तव ॥६०॥आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्य धूपैःउद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतांचञ्चत्कल्हारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥६१॥गृहाण परमामृतं कनकपात्रसंस्थापितंसमर्पयमुखांबुजे विमलवीटिकामंबिके ।विलोकय मुखांबुजं मुकुरमण्डले विमलेनिधेहि मणिपादुकोपरि पदांबुजं सुन्दरि ॥६२॥आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिताकूजन्मञ्जुमरालमञ्जुलगतिप्रोल्लासिभूषांबरा ।आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसामच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ।६३॥चलन्त्यामंबायां प्रचलति समस्ते परिजनेसवेगं संयाते कनकलतिकालंकृतिभरे ।समन्तादुत्तालस्फुरितपदसंपातजनितै-र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ॥६४॥चञ्चद्वेत्रकराभिरंगविलसद्भूषांबराभिः पुरो-यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते ।रुद्धे निर्ज्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतंवन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥६५॥वेधाः पादतले पतत्ययमसौ विष्णुर्नमन्यग्रतःशंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वतीदृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यैमम ॥६६॥मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठयानामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।वेगादक्षिपथं गतान् सुरगणानालोकयन्ती शनैर्दित्सन्ती चरणांबुजं पथि जगत् पायान्महेशप्रिया ॥६७॥अग्रे केचन पार्श्वयो कतिपये पृष्ठे परे प्रस्थिताआकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे ।संमर्द्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुःकुर्वाणाः कतिचित्सुराः गिरिसुते दृक्पातमिच्छन्ति ते ॥६८॥अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः ।कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्यांगनागच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥६९॥कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-देकस्मैभवनिःस्पृहाय परमानन्दस्वरूपां गतिं ।अन्यस्मैविषयानुरक्तमनसे दीनाय दुःखापहंद्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीं ॥७०॥नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नाननेमन्दं गच्छति सन्निधौ सविनयात्सोत्कण्ठमोघत्रये ।नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलम्व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः ॥७१॥तव दहनसदृक्षैरीक्षणैरेवचक्षु-र्निखिलपशुजनानां भीषयद्भीषणास्यं ।कृतवसति परेशप्रेयसि द्वारि नित्यंशरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥७२॥कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभांरत्नस्तंभनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ।कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलींश्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकां ॥७३॥स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितंननारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनंचञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितंनित्यानन्दनिदानमम्बसततं वन्दे च सिंहासनम् ॥७४॥वदद्भिरभितो मुदा जयजयेति बृंदारकैःकृताञ्जलिपरंपरा विदधती कृतार्था दृशा ।अमन्दमणिमण्डलीखचितहेमसिंहासनंसखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥७५॥कर्पूरादिकवस्तुजालमखिलं सौवर्णभृङ्गारकंतांबूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् ।विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥७६॥त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैःस्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् ।मुहुरपि च विधूते चामरग्राहिणीभिःसितकरकरशुभ्रे चामरे चालयामि ॥७७॥प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालंचञ्चन्महामणिविचित्रितहेमदण्डम् ।उद्यत्सहस्रकरमण्डलचारु हेम-च्छत्रं महेशमहिले विनिवेशयामि ॥७८॥उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥७९॥संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितांपुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा ।स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिधाःश्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥८०॥आधारशक्त्यादिकमाकलय्यमध्ये समस्ताधिकयोगिनीं च ।मित्रेशनाथादिकमत्र नाथ-चतुष्टयं शैलसुते नतोऽस्मि ॥८१॥त्रिपुरासुधार्णवासन-मारभ्य त्रिपुरमालिनीं यावत्आवरणाष्टकसंस्थित-मासनषट्कं नमामि परमेशि ॥८२॥ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदंवायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् ।नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय-न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥८३॥उड्याणजालन्धर कामरूप-पीठानिमान् पूर्णगिरिप्रसक्तान् ।त्रिकोणदक्षाग्रिमसव्यभाग-मध्यस्थितान् सिद्धिकरान्नमामि ॥८४॥लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः ।आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-नेतांश्चक्रबहिःस्थितान् सुरगणान्वन्दामहे सादरम् ॥८५॥तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथंत्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् ।रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकंनित्याषोडशकं नमामिलसितं चक्रात्मनोरन्तरे ॥८६॥हृदिभावितदैवतं प्रयत्ना-द्युपदेशानुगृहीतभक्तसंघम् ।स्वगुरुक्रमसंज्ञचक्रराज-स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥८७॥हृदयमथ शिरः शिखाखिलाद्येकवचमथो नयनत्रयं च देवि ।मुनिजनपरिचिन्तितं तथास्त्रंस्फुरतु सदा हृदये षटङ्कमेतत् ॥८८॥त्रैलोक्यमोहनमिति प्रथिते तु चक्रेचञ्चद्विभूषणगणत्रिपुराधिवासे ।रेखात्रये स्थितवतीरणिमादिसिद्धी-र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥८९॥सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजितेविस्फूर्जत्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः ।कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्यांबरायोगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥९०॥महेशि वसुभिर्दलैर्लसत् सर्वसंक्षोभणेविभूषणगणस्फुरत् त्रिपुरसुन्दरीसद्मनि ।अनंगकुसुमादयो विविधभूषणोद्भासितादिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥९१॥लसद्युगदृशारके स्फुरति सर्वसौभाग्यदेशुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणीमुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः ।कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥९३॥अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरेमालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः ।नानारत्नविभूषणं मणिगणभ्राजिष्णुदिव्यांबरंसर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥९४॥सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्वितेरहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥९५॥चूताशोकविकासिकेतकरजः प्रोद्भासिनीलांबुज-प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशंवन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥९६॥त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदेयुते त्रिपुरयांबया स्थितवती च कामेश्वरी ।तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरीकरोतु भगमालिनी स्फुरतु मामके चेतसि ॥९७॥सर्वानन्दमये समस्तजगतामाकांक्षिते बैन्दवेभैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी ।आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषांबराविस्फूर्ज्जद्वदना परापररहः सा पातु मं योगिनी ॥९८॥उल्लसत्कनककान्तिभासुरंसौरभस्फुरणवासितांबरं ।दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥९९॥वैरमुद्धतमपास्य शंभुनामस्तके विनिहितं कलाच्छलात् ।गन्धलुब्धमधुपाश्रितं सदाकेतकीकुसुममर्पयामि ते ॥१००॥चूर्णीकृतं द्रागिव पद्मजेनत्वदाननस्पर्धिसुधांशुबिम्बम् ।समर्पयामि स्फुटमञ्जलिस्थंविकासिजातीकुसुमोत्करं ते ॥१०१॥अगरुबहलधूपाजस्रसौरभ्यरम्यांमरकतमणिराजीराजिहारिस्रगाभ्याम् ।दिशि विदिशि विसर्पद्गण्डलुब्धालिमालांवकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥१०२॥ईंकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौत्रैलोक्ये गुरुगम्यमेतदखिलं हार्द्दं च रेखात्मकं ।इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-न्नानन्दांबुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥१०३॥धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरंदीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितंनैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितंशुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः ।प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथक्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥१०५॥शिंबीसुरणशाकबिंबबृहतीकूष्माण्डकोशातकी-वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निनासंपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-न्यग्रे ते विनिवेशयामि गिरिजे सौवर्णपात्रव्रजे ॥१०६॥निंबूकार्द्रकचूतकन्दकदली कौशातकीकर्कटीधात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान् पातयेसंधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ।१०७॥सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाःपरमान्नमिदं च पार्वतिप्रणयेन प्रतिपादयामि ते ॥१०८॥दुग्धमेतदनले सुसाधितंचन्द्रमण्डलनिभं तथा दधि ।फाणितं शिखरिणीं सितासितांसर्वमंब विनिवेदयामि ते ॥१०९॥अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतंज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततःदेवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितंशक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥११०॥वामेन स्वर्णपात्रीमनुपदपरमान्नेन पूर्णां दधाना-मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तींसिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकांगींतिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥१११॥पंक्त्योपविष्टान् परितस्तु चक्रंशक्त्या स्वयालिंगितवामभागान्सर्वोपचारैः परिपूज्य भक्त्यातवांबिके पारिषदान्नमामि ॥११२॥परमामृतमत्तसुन्दरी-गणमध्यस्थितमर्कभासुरम् ।परमामृतघूर्णितेक्षणंकिमपि ज्योतिरुपास्महे परम् ॥११३॥दृश्यते तव मुखांबुजं शिवेश्रूयते स्फुटमनाहतध्वनिः ।अर्चने तव गिरामगोचरेन प्रयाति विषयान्तरं मनः ॥११४॥त्वन्मुखांबुजविलोकनोल्लसत्-प्रेमनिश्चलविलोचनद्वयींउन्मनीमुपगतां सभामिमांभावयामि परमेशि तावकीम् ॥११५॥चक्षुः पश्यतु नेह किञ्चन परं घ्राणं न वा जिघ्रतुश्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालंबताम् ।जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृतेनित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥११६॥यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयींमन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् ।यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयोयातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥११७॥गणाधिनाथं वटुकं च योगिनीःक्षेत्राधिनाथं च विदिक्चतुष्टये ।सर्वोपचारैः परिपूज्य भक्तितोनिवेदयामो बलिमुक्तयुक्तिभिः ॥११८॥वीणामुपान्ते खलु वादयन्त्यैनिवेद्य शेषं खलु शेषिकायैसौवर्णभृंगारविनिर्गतेनजलेन शुद्धाचमनं विधेहि ॥११९॥तांबूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-जातीपूगलवंगचूर्णखदिरैर्भक्त्या समुल्लासितम् ।स्फूर्जद्रत्नसमुद्गकप्रणिहितंसौवर्णपात्रेस्थितै-र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकम् गृह्यताम् ॥१२०॥काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशीरंभा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव ।कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणंनित्यानन्दसुधांबुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥१२१॥तांबूलोल्लासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासंगमाकर्ण्यमानम् ।गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-र्वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥१२२॥अर्चाविधौ ज्ञानलवोऽपि दूरेदूरे तदापादकवस्तुजातम् ।प्रदक्षिणिकृत्य ततोऽर्चनं तेपञ्चोपचारात्मकमर्पयामि ॥१२३॥यथेप्सितमनोगतप्रकटितोपचारार्चितांनिजावरणदेवतागणवृतां सुरेशस्थिताम् ।कृताञ्जलिपुटो मुहुः कलितभूमिरष्टांगकै-र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥१२४॥विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिंप्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरुचित्तं त्वत्पदभावने व्यभिचरेत् दृग्वाक्च मे जातु चे-त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥१२५॥क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतंध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदंस्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥१२६॥नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ N/A References : N/A Last Updated : February 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP