श्रीशारदास्तवकदम्बम् - हेलया रचितचित्रविष्टपां च...
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम् ।
कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम् ॥१॥
नास्तिक्यबुद्धिहतमानसवारिजातां-
स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान् ।
कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-
वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व ॥२॥
ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-
र्लोकान्तरं च निजकर्मकृतां सुखापम् ।
पापानि पापफलदाश्च तथैव लोका
इत्यम्ब लोकततये वितराशु बुद्धिम् ॥३॥
ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या ।
रज्जूरगादिवदतो न हि सौख्यलेशः
तस्मादिति प्रवितराम्ब दृढां मनीषां
नम्रालयेऽतिसुखमाप्स्यति येन शीघ्रम् ॥४॥
या शृङ्गशैलशिखरे यतिरूपधर्त्रा
संस्थापितापि गिरिजापतिना पुरा सा ।
कालट्यभिख्यविषयेऽपि मयार्थिता त्वं
वासं कुरुष्व जगतामवनाय वाणि ॥५॥
नाकाधिराजमुखलेखवरार्चितायै
रकाशशाङ्कनिभवस्त्रविभूषितायै ।
मूकालयेऽपि तरसा कविताप्रदायै
एकाजपुण्यततये तनुमो नमांसि ॥६॥
सरस्वति सरस्वति प्रपतितानबोधाह्वये
शरीरजमुखाख्यषण्मकरतोऽतिसंभीषणे ।
षडूर्मिसहिते जनान्करुणया तु निर्व्याजया
समुद्धर समुद्धर द्रुहिणपुण्यराशे जवात् ॥७॥
मुद्रापुस्तकमालिकाऽमृतघटभ्राजत्कराम्भोरुहे
विद्राव्याशु चिरात्तमान्ध्यमखिलं दुस्त्याज्यमन्यैर्जनैः ।
शीघ्रं तत्त्वमसीति बोधमचलं दत्त्वा कृपावारिधे
वाणि त्वच्चरणारविन्दशरणं शुद्धान्तरङ्गं कुरु ॥८॥
किं ब्रूषे वचसां सवित्रि जनतानास्तिक्यबुद्धिर्ध्रुवा
कालात्तिष्ययुगान्न चान्यथयितुं शक्येति किं सुष्ठु तत् ।
कालाखर्वमनःसमुन्नतिहरश्रीशंभुसोदर्यपि
त्वं भूत्वा कथमद्य कालकलितं दौःस्थ्यं ब्रवीष्यम्बिके ॥९॥
यस्माज्जडानुग्रहदीक्षितस्य शम्भोः स्वसारं भवतीं वदन्ति
तस्मात्स्वसृत्वं गिरिशस्य सार्थं कुरुष्व शीघ्रं मम धीप्रदानात् ॥१०॥
आजन्मनस्तेऽङ्घ्रियुगं गतानां चित्तं सितं चेत्प्रकरोषि वाणि
चित्रं न तत्तन्मलिनाग्रगण्यं मत्कं सितं कुर्वरमम्ब चित्तम् ॥११॥
सान्निध्यमस्मिन्कुरु मूर्तिवर्ये चिरं कृपातो जगदम्ब वाणि ।
प्रवर्तयासेतुतुषारशैलं सद्धर्ममेनं जगतां हिताय ॥१२॥
सन्ध्यादिकर्माण्यपि हा विहाय रात्रिंदिवं स्वोदरपूरणेच्छून् ।
नरानिमान्पापभयेन शून्यान्ततो विधायाश्वव वाक्सवित्रि ॥१३॥
मालासुधाकुम्भविबोधमुद्राविद्याविराजत्करवारिजाताम् ।
अपारकारुण्यसुधाम्बुराशिं श्रीशारदाम्बां प्रणतोऽस्मि नित्यम् ॥१४॥
समागतोऽध्येतुमयं ध्वनिं किं कीरार्भकस्त्वत्करपद्मसंस्थः ।
तवाधरे बिम्बधियात्तुमम्ब समागतो वा वद धातृजाये ॥१५॥
वाणि पाणिजितरक्तपयोजे शोणिताम्बरधरेऽधरकान्त्या ।
पाणिना धरसि किं शुकमेनं प्राणिबोधनकृतेऽखिलगुप्तेः ॥१६॥
शारदाम्बुदसमाननिजाभां नीरजाभकचसंहतिरम्याम् ।
पारदां लघु भवाख्यपयोधेः शारदाम्ब कलयामि तनुं ते ॥१७॥
बालचन्द्रपरिचुम्बितशीर्षां लीलयैव परिरक्षितलोकाम् ।
नीलनागसदृशाकृतिवेणीं शीलयामि हृदये विधिकान्ताम् ॥१८॥
इति श्रीशारदास्तवकदम्बं संपूर्णम्
(शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)
N/A
References : N/A
Last Updated : January 03, 2019
TOP