विष्णुपर्व - विंशोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
श्रीकृष्णस्य अलौकिकं चरित्रं दृष्ट्वा आशङ्कितानां गोपानां कृष्णात् प्रश्नं, श्रीकृष्णेन उत्तरं एवं तस्य रासलीलायाः संक्षेपतः वर्णनम्
वैशम्पायन उवाच
गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
गोवर्धनपरः श्रीमान् विवेश व्रजमेव ह ॥१॥
तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च ॥२॥
गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद् गोविन्द देवतुल्यपराक्रम ॥३॥
अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम् ॥४॥
कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।
वसूनां वा किमर्थे च वसुदेवः पिता तव ॥५॥
बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥६॥
किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥७॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥८॥
केनचिद् यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥९॥
वैशम्पायन उवाच
गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।
प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान् ॥१०॥
मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम् ।
तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः ॥११॥
यदि त्ववश्यं श्रोतव्यं कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः ॥१२॥
यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम ॥१३॥
एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ॥१४॥
कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम् ।
शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति ॥१५॥
स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातदर्पाणां युद्धानि समयोजयत् ॥१६॥
गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।
वने स वीरो गाश्चैव जग्राह ग्राहवद् विभुः ॥१७॥
युवतीर्गोपकन्याश्च रात्रौ संकाल्य कालवित् ।
कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ॥१८॥
तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा ॥१९॥
हरितालार्द्रपीतेन स कौशेयेन वाससा ।
वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत् ॥२०॥
स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।
शोभमानो हि गोविन्दः शोभयामास तद्व्रजम् ॥२१॥
नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।
विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः ॥२२॥
तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन् ।
भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः ॥२३॥
ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः ॥२४॥
तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः ॥२५॥
कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः ॥२६॥
वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।
चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः ॥२७॥
तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।
मुदिताश्चानुकुर्वन्यः्र क्रीडन्ति व्रजयोषितः ॥२८॥
भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्दामोदरपरायणाः ॥२९॥
करीषपांसुदिग्धाङ्ग्यस्ताः कृष्णमनुवव्रिरे ।
रमयन्त्यो यथा नागं सम्प्रमत्तं करेणवः ॥३०॥
तमन्या भावविकचैर्नेत्रैः प्रहसिताननाः ।
पिबन्त्यतृप्तवनिताः कृष्णं कृष्णमृगेक्षणाः ॥३१॥
मुखमस्याब्जसंकाशं तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ पिबन्ति रसलालसाः ॥३२॥
हा हेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः ।
जगृहुर्निस्सृतां वाणीं नाम्ना दामोदरेरिताम् ॥३३॥
तासां ग्रथितसीमन्ता रतिं नीत्वाऽऽकुलीकृताः ।
चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम् ॥३४॥
एवं स कृष्णो गोपीनां चक्रवालैरलंकृतः ।
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रासक्रीडायां विंशोध्यायः॥२०॥
N/A
References : N/A
Last Updated : July 18, 2018
TOP