संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकाशीतितमोऽध्यायः

विष्णुपर्व - एकाशीतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


उमया व्रतकथनस्योपसंहारं, नारदेन देवीभ्यः चीर्णानां व्रतानां वर्णनम्, श्रीकृष्णपत्नीभिः व्रतस्य अनुष्ठानं दानं च

उमोवाच
बान्धवान् सगुणानिच्छेदेकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत् स्त्री पतिदेवता ॥१॥
ततः संवत्सरे पूर्णे वृक्षं दद्याद्धिरण्मयम् ।
सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत् ॥२॥
करञ्जे दीपकं दद्यात् सदा या प्रमदा वरे ।
पूर्णे संवत्सरे दद्यात् सौवर्णं दीपकं ततः ॥३॥
रुच्या सा स्त्री भवेद् भर्तुरिष्टा पुत्रवती तथा ।
सपत्नीनामधि तथा दीपवज्ज्वलते शुभे ॥४॥
या शेषभोजिनी नित्यं नैव च स्यादरुन्तुदा ।
न च स्याद्व्यशना सौम्ये नित्यं च पतिदेवता ॥५॥
शौचान्विता च सततं न च रूक्षाभिभाषिणी ।
श्वश्रूश्वशुरयोर्निंत्यं शुश्रूषाभिरता सती ॥६॥
किं तस्या व्रतकैः कार्यं किं वा स्यादुपवासकैः ।
या भर्तृदेवता नित्यं सत्यधर्मगुणान्विता ॥७॥
विधवा स्त्री तु या हि स्याद्दैवयोगात्सती सति ।
तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे ॥८॥
पतिं संकल्पयित्वा सा चित्रस्थं वाथ मृन्मयम् ।
तस्य पूजां सदा कुर्यात् सतां धर्ममनुस्मरेत् ॥९॥
तत एवाभ्यनुज्ञां सा नित्यं याचेत सुव्रता ।
व्रतके चोपवासे च भोजने च विशेषतः॥१०॥
भर्तृलोकान् व्रजत्येव न चेद् व्युच्चरते पतिम् ।
शाण्डिली सूर्यवद् भाति सततं पतिदेवता ॥११॥
अद्यप्रभृति सर्वेषां देवानां चैव योषितः ।
द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः ॥१२॥
मुनिश्च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् ।
उपवासस्य धर्मात्मा व्रतकानां तथैव च ॥१३॥
अदितिस्तपसेन्द्राणी त्वं च सोमसुते वरे ।
प्रवर्तने पुण्यकानां व्रतकानां च सर्वदा ॥१४॥
कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः ।
उपवासव्रतविधिं यथावदिह कृत्स्नशः ॥१५॥
प्रादुर्भावेषु सर्वेषु भार्या विष्णोर्महात्मनः ।
ज्ञास्यन्ति पुण्यकविधिं नित्यमेव सनातनम् ॥१६॥
सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते ।
पतिभक्तिरदुष्टत्वमवाग्दुष्टत्वमेव च ॥१७॥
नारद उवाच
एवमुक्तास्तु ताः साध्व्यो महादेव्या तपोधनाः ।
जग्मुर्हृष्टा महादेवीं प्रणिपत्य हरप्रियाम् ॥१८॥
अदितिर्व्रतकं चक्रे शृणु यद् धर्मचारिणी ।
उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस्तया कृतः ॥१९॥
पारिजाते निबध्याथ मम दत्तस्तु कश्यपः ।
अदितिव्रतकं नाम तद् दत्तं सत्यभामया ॥२०॥
तदेव व्रतकं दत्तं सावित्र्या धर्मनित्यया ।
तैरेव युक्तैः संयुक्तमिदं त्वभ्यधिकं कृतम् ॥२१॥
संध्याकाले तु सम्प्राप्ते स्थाने स्थाने तथैव च ।
पूजनं वा नमस्कारो जपश्च द्विगुणः स्मृतः ॥२२॥
सावित्रीव्रतकं कृत्वा तथादित्या व्रतं सती ।
भर्तुः कुलं पितृकुलमात्मानं चैव तारयेत् ॥२३॥
इन्द्राणी व्रतकं चक्रे तदेवौमं यथाविधि ।
रक्तमभ्यधिकं वासो भोजनं चैव सामिषम् ॥२४॥
चतुर्थे दिवसे वापि पुण्यकार्थं विधिः पुनः ।
अहोरात्रोपवासश्च देयं कुम्भशतं तथा ॥२५॥
गङ्गया व्रतकं दत्तं तदेवौमं यशस्करि ।
स्नानमभ्यधिकं त्वत्र प्रत्यूषस्यात्मनो जले ॥२६॥
अन्यस्मिन् वा जले माघशुक्लपक्षे हरिप्रिये ।
एतद् गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम् ॥२७॥
सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे ।
स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी ॥२८॥
देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे ।
तारणं पारणं चैव तद् व्रतं सार्वकामिकम् ॥२९॥
यमभार्या चकाराथ व्रतं यामरथं शुभम् ।
हेमन्ते तत् तु कर्तव्यमाकाशे हरिवल्लभे ॥३०॥
इमानि चैव वाक्यानि ब्रूयादाकाशमास्थिता ।
स्नात्वा शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥३१॥
चराम्यहं यामरथं हिमं पृष्ठेन धारये ।
पतिव्रता जीवपुत्रा भवेयं च पुरोऽधिका ॥३२॥
सपत्नीरधितिष्ठेयं पश्येयं चैव मा यमम् ।
सभर्तृपुत्रा जीवेयं चिरं च सुखमेव च ॥३३॥
पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा ।
सुचैला मृष्टहस्ता च स्वजनेष्टा गुणान्विता ॥३४॥
एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् ।
तिलैरपि तथा कृष्णैः पायसेन तु भोजयेत् ॥३५॥
एवं व्रतानि देवीभिः कृतान्यमरवर्णिनि ।
महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये ॥३६॥
अहं ब्रवीमि तपसा मदीयेन समन्विताः ।
सर्वा द्रक्ष्यथ गुण्यानि व्रतकानि तथैव च ॥३७॥
पौराणान्युमया देव्या यानि दृष्टानि वै पुरा ।
कल्याणगुणयुक्तानि पावनानि शुभानि च ॥३८॥
वैशम्पायन उवाच
रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् ।
उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा ॥३९॥
उमाव्रतकवत् सर्वं वृषदानं तथाधिकम् ।
रत्नमालाप्रदानं च तथान्नं सार्वकामिकम् ॥४०॥
तथा जाम्बवती चक्रे पुरोमाव्रतकं तथा ।
ददावभ्यधिकं सा तु रत्नवृक्षं मनोहरम् ॥४१॥
सत्या ददौ तथैवाथ पुरोमाव्रतकं तथा ।
पीतमभ्यधिकं वासस्तया दत्तमुमाव्रते ॥४२॥
रोहिण्याथ च फाल्गुन्या मघया च पुरातने ।
व्रतानि खलु दत्तानि बहूनि कुलवर्धन ॥४३॥
ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् ।
येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन ॥४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे उमाव्रतकथनसमाप्तौ
पारिजातहरणकथनसमाप्तौ चैकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP