संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकाधिकशततमोऽध्यायः

विष्णुपर्व - एकाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णेन यादवानां सत्कारं, नारदेन यादवानां सभायां श्रीकृष्णस्य प्रभावस्य वर्णनम्

श्रीकृष्ण उवाच
भवतां पुण्यकीर्तीनां तपोबलसमाधिभिः ।
अपध्यानाच्च पापात्मा भौमः स नरको हतः ॥१॥
मोक्षितं बन्धनाद् गुप्तं कन्यान्तःपुरमुत्तमम् ।
मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् ॥२॥
अयं धनौघः सुमहान् किङ्करैराहृतो मम ।
ईशा भवन्तो द्रव्यस्य तानुक्त्वा विरराम ह ॥३॥
तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः ।
जहृषुर्हृष्टरोमाणः पूजयन्तो जनार्दनम् ॥४॥
ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः ।
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ॥५॥
यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् ।
लालयेः स्वजनान् भोगै रत्नैश्च स्वयमर्जितैः ॥६॥
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया ॥७॥
देवकीसप्तमा देव्यो रोहिणी च शुभानना ।
ददृशुः कृष्णमासीनं रामं चैव महाभुजम् ॥८॥
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभिवादयतां देवीं देवकीं रामकेशवौ ॥९॥
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका ।
अदितिर्देवमातेव मित्रेण वरुणेन च ॥१०॥
ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा ।
एकानंशेति यामाहुर्नरा वै कामरूपिणीम् ॥११॥
तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥१२॥
सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।
पुत्रवत् पाल्यमाना वै वासुदेवाज्ञया तदा ॥१३ ।
एकानंशेति यामाहुरुत्पन्ना मानवा भुवि ।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह ॥१४॥
यां चं सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद् दिव्यपुरुषः कृष्णः संरक्षितो यया ॥१५॥
तां च तत्रोपसंगम्य प्रियामिव सखीं स्वसाम् ।
दक्षिणेन कराग्रेण परिजग्राह माधवः ॥१६॥
तथैव रामोऽतिबलः सम्परिष्वज्य भाविनीम् ।
मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना ॥१७॥
ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव ॥१८॥
तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः ।
अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम् ॥१९॥
ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् ।
उपोपविविशुः प्रीताः प्रशंसन्तोऽद्भुतं कृतम् ॥२०॥
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विरराज महाकीतिर्देवैरिव स तैः सह ॥२१॥
समासीनेषु सर्वेषु यादवेषु जनार्दनम् ।
नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत् सभाम्॥२२॥
सोऽथ सम्पूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः ।
करं संस्पृश्य स हरेर्विवेश परमासने ॥२३॥
सुखोपविष्टस्तान् वृष्णीनुपविष्टानुवाच ह ।
सम्प्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः ॥२४॥
शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् ।
यानि कर्माणि कृतवान् बाल्यात्प्रभृति केशवः॥२५॥
उग्रसेनसुतः कंसः सर्वान् निर्मथ्य यादवान् ।
राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम् ॥२६॥
समाश्रित्य जरासंधं श्वशुरं कुलपांसनः ।
भोजवृष्ण्यन्धकान् सर्वानवमन्यत दुर्मतिः ॥२७॥
ज्ञातिकार्यं चिकीर्षुश्च वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥२८॥
स गोपः सह धर्मात्मा मथुरोपवने स्थितः ।
अत्यद्भुतानि कर्माणि कृतवान् मधुसूदनः ॥२९॥
प्रत्यक्षं शूरसेनानां श्रूयते महदद्भुतम् ।
उत्तानेन शयानेन शकटान्तरचारिणा ॥३०॥
राक्षसी निहता रौद्रा शकुनीवेषधारिणी ।
पूतना नाम घोरा सा महाकाया महाबला ॥३१॥
विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने ।
ददृशुर्निहतां तां ते राक्षसीं वनगोचराः ॥३२॥
पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ।
अत्यद्भुतमिदं चासीद् यच्छिशुः पुरुषोत्तमः ॥३३॥
पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ।
दाम्ना चोलूखले बद्धो विप्रकुर्वन् कुमारकम् ॥३४॥
बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा ।
कालियश्च महानागो दुराधर्षो महाबलः ॥३५॥
क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ।
अक्रूरस्य समक्षं च यन्नागभवने विभुः ॥३६॥
पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् ।
शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता ॥३७॥
धृतो गोवर्धनः शैलः सप्तरात्रं महात्मना ।
शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम् ॥३८॥
तथोक्षदुष्टोऽतिबलो महाकायो नरान्तकृत् ।
गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः ॥३९॥
धेनुकः स महाकायो दानवः सुमहाबलः ।
निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥४०॥
सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् ।
वृकैविद्रावयामास ग्रहीतुं समुपस्थितम् ४१॥
रौहिणेयेन संगम्य वने विचरता पुनः ।
गोपवेषधरेणैव कंसस्य भयमाहितम् ॥४२॥
तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् ।
प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥४३॥
प्रलम्बश्च महाकायो रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥४४॥
एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ ।
ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ ॥४५॥
जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाप्य संस्कारं प्रतिपादितौ ॥४६॥
यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसम्मुखे ।
सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा ॥४७॥
ततो मनांसि गोपीनां हरमाणौ महाबलौ ।
आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती ॥४८॥
एतौ जये वा युद्धे वा क्रीडासु विविधासु च ।
नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम् ॥४९॥
व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ ।
श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत्॥५०॥
नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद् वसुदेवं सबान्धवम् ॥५१॥
सहोग्रसेनेन तदा चोरवद् गाढबन्धनम् ।
कालं महान्तमनयत् कृच्छ्रमानकदुन्दुभिः ॥५२॥
कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह ।
जरासंधं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥५३॥
कस्यचित्त्वथ कालस्य मथुरायां महोत्सवम् ।
पिनाकिनं समुद्दिश्य चक्रे कंसो नराधिपः ॥५४॥
तत्र मल्लाः समाजग्मुर्नानादेश्या विशाम्पते ।
नर्तना गायनाश्चैव कुशला नृत्यकर्मसु ॥५५॥
ततः कंसो महातेजा रङ्गवाटं महाधनम् ।
कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः ॥५६॥
तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः ।
समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा ॥५७॥
भोजराजः श्रिया जुष्टं रङ्गवाटं महर्द्धिमत् ।
आरुरोह ततः कंसो विमानं सुकृती यथा ॥५८॥
रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम्॥
शूरैरधिष्ठितं कंसः स्थापयामास वीर्यवान् ॥५९॥
यदा हि स महातेजा रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव ॥६०॥
तदाप्रभृति यत्नोऽभूद् रक्षां प्रति नराधिप ।
न च शिश्ये सुखं रात्रौ रामकृष्णौ विचिन्तयन्॥६१॥
श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् ।
उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा ॥६२॥
ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ ।
हत्वा कुवलयापीडं ससादिनमरिंदमौ ।
अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा ॥६३॥
चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च ।
औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः ॥६४॥
यत्कृतं यदुसिंहेन देवैरपि सुदुष्करम् ।
कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् ॥६५॥
यद्धि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं प्रापितं वित्तं शौरिणा भवतां कृते ॥६६॥
एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा ।
निष्क्रम्य शैलसंघातान्निसुन्दः सगणो हतः ॥६७॥
नरकश्च हतो भौमः कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु केशवेन महद्यशः ॥६८॥
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।
यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः ॥६९॥
देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता ।
प्रियमावेदयाम्येष भवतां भद्रमस्तु वः ॥७०॥
यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः ।
भवतामस्मि यूयं च मम युष्मास्वहं स्थितः ॥७१॥
इति सम्बोधयन् कृष्णमब्रवीत् पाकशासनः ।
स मां प्रैषीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम् ॥७२॥
यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र संनतिः ।
संनतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नामैकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP