संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
पञ्चाधिकशततमोऽध्यायः

विष्णुपर्व - पञ्चाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


प्रद्युम्नेन शम्बरासुरस्य सेनायाः मन्त्रिणां च संहारः

वैशम्पायन उवाच
ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ॥१॥
ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च ॥२॥
युगपत् पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ।
कार्ष्णायनिस्तु संक्रुद्धः सर्वास्त्रधनुषश्च्युतैः ॥३॥
एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि ।
पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः ॥४॥
ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया ।
ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः ॥५॥
शम्बरस्य जघानाशु दश पुत्रान् महौजसः ।
ततोऽपरेण भल्लेन कुपितः केशवात्मजः ॥६ ।
चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् ।
ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत ॥७॥
शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् ।
ततः संधाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः ॥८॥
क्रीडन्निव महातेजाः शिरांस्येषामपातयत् ।
निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम् ॥९॥
प्रद्युम्नः समराकाङ्क्षी तस्थौ संग्राममूर्धनि ।
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे ॥१०॥
सूतं संचोदयामास रथं मे सम्प्रयोजय ।
राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसा भुवि ॥११॥
ससैन्यं नोदयामास रथं स सुसमाहितम् ।
युक्तमृष्यसहस्रेण सर्पयोक्त्रेण योजितम् ॥१२॥
शार्दूलचर्मसंविष्टं किङ्किणीजालमालिनम् ।
ईहामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ॥१३॥
ताराचित्रपिनद्धाङ्गं स्वर्णकृबरभूषितम् ।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम् ॥१४ ।
सुविभक्तवरूथं च लोहेषावज्रकूबरम् ।
मन्दरोदग्रशिखरं चारुचामरभूषितम् ॥१५॥
नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमन्तमारोहच्छम्बरो रथम् ॥१६॥
काञ्चनं चित्रसंनाहं धनुर्गृह्य शरांस्तथा ।
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ॥१७॥
चतुर्भिः सचिवैः सार्द्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ॥१८॥
एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ।
दशनागसहस्राणि रथानां द्वे शते तथा ॥१९॥
हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ॥२०॥
प्रयातस्य तु संग्रामे उत्पाता बहवोऽभवन् ।
गृध्रचक्राकुलं व्योम संध्याकाराभ्रनादितम् ॥२१॥
गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात् पतत् ।
शिवा विनेदुरशिवं सैन्यं संकालयन्महत् ॥२२॥
ध्श्जशीर्षेऽपतद्गृध्रः काङ्क्षन् वै दानवासृजम् ।
रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते ॥२३॥
चीचीकूचीति वाशन्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ॥२४॥
स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः ॥२५॥
ध्वाङ्क्षो मूर्घ्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम् ॥२६॥
उल्कापातसहस्राणि निपेत् रणमूर्धनि ।
प्रतोदो न्यपतद्धस्तात् सारथेर्हययायिनः ॥२७॥
एतानचिन्तयित्वा तु उत्पातान् समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ॥२८॥
भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः ।
युगपन्नाद्यमानानां पृथिवी समकम्पत ॥२९॥
तेन शब्देन महता संत्रस्ता मृगपक्षिणः ।
समन्ताद् दुद्रुवुस्तस्माद् भयविक्लवचेतसः ॥३०॥
रणमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः ।
सैन्यैः परिवृतोऽसंख्यैर्युद्धाय कृतनिश्चयः ॥३१॥
क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
सम्प्राप्ताश्चैव तान् बाणांश्चिच्छेद कृतहस्तवत्॥३२॥
प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह ।
तस्मिन्सैन्येन कोऽप्यस्ति यो न विद्धः शरेण वै॥३३॥
प्रद्युम्नशरपातेन तत् सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं संहृत्य भीतवत् ॥३४॥
स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः ।
आज्ञापयामास तदा सचिवान् दानवेश्वरः ॥३५॥
गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेष वै ॥३६॥
उपेक्षित इव व्याधिः शरीरं नाशयेद् धुवम् ।
तदेष दुर्मतिः पापो वध्यतां मत्प्रियेप्सया ॥३७॥
ततस्ते सचिवाः कुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन् रथान् ॥३८॥
तान् दृष्ट्वा धावतः संख्ये क्रुद्धो मकरकेतनः ।
चापमुद्यम्य सम्भ्रान्तस्तस्थौ प्रमुखतो बली ॥३९॥
दुर्धरं पञ्चविंशत्या शरैः संनतपर्वभिः ।
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ॥४०॥
सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ॥४१॥
ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः ।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ४२॥
तानप्राप्ताञ्छरान् बाणैश्चिच्छेद मकरध्वजः ।
ततोऽर्द्धचन्द्रमादाय दुर्द्धरस्य स सारथिम् ॥४३॥
जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ।
चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः ॥४४॥
जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति ।
एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम् ॥४५॥
षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ।
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम् ॥४६॥
मुमोच हृदये तस्य दुर्द्धरस्यान्यजीविनः ।
स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः ॥४७॥
निपपात रथोपस्थात् क्षीणपुण्य इव ग्रहः ।
दुर्धरे निहते शूरे दानवे दानवेश्वरः ॥४८॥
केतुमाली शरव्रातैरभिदुद्राव कृष्णजम् ।
प्रद्युम्नमथ संक्रुद्धो भ्रुकुटीभीषणाननः ॥४९॥
कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत् ।
संक्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत् ॥५०॥
पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ।
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ॥५१॥
चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया ।
तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ॥५२॥
निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा ॥५३॥
तद् दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह ।
गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् ॥५४॥
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे ॥५५॥
ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान् ॥५६॥
युगपत् संक्षिपन्ति स्म वधार्थं कृष्णनन्दने ।
सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा ॥५७॥
चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् ।
गजान्सोऽभ्यहनत्कुद्धो गजारोहान्सहस्रशः॥५८॥
रथान् सारथिभिः सार्धं हयांश्चैव ममर्द ह ।
पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते ॥५९॥
एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद् घोरां शोणिताम्बुतरङ्गिणीम् ॥६०॥
मुक्ताहारोर्मिबहुलां मांसमेदःसपङ्किनीम् ।
छत्रद्वीपां शरावर्तां रथैः पुलिनमण्डिताम्॥६१॥
केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ।
नागग्राहवतीं रौद्रामसिनक्रविभूषिताम् ॥६२॥
केशशैवलसंछन्नां श्रोणिसूत्रमृणालिकाम् ।
वराननसुपद्मां च हंमचामरवीजिताम् ॥६३॥
शिरस्तिमिसमाकीर्णो शोणितौघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम् ॥६४॥
दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजःसुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धनीम् ॥६५॥
तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः ।
शत्रुहन्तारमाश्रित्य शरानभ्यकिरद् बहून् ॥६६॥
शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् ।
प्रद्युम्नस्य समासाद्य हृदये निपपात ह ॥६७॥
स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे ॥६८॥
सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे ।
पपात हृदयं भित्त्वा शक्राशनिसमस्वना ॥६९॥
स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ॥७०॥
पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदमाददे ॥७१॥
तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः ।
मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि ॥७२॥
वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव ।
पुत्रं हन्तास्त्वहं तस्य ततोऽसौ निहतो भवेत् ॥७३॥
मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्तां हतशत्रवः॥७४॥
हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्युदकसत्क्रियाम् ॥७५॥
अद्य सा भीष्मकसुता करुणं विलपिष्यति ।
निहतं त्वां च श्रुत्वैव यौवनस्थं गतायुषम् ॥७६॥
स ते पिता चक्रधरो निष्फलाशो भविष्यति ।
हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः ॥७७॥
इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम् ।
ताडितो हि महातेजा रौक्मिणेयः प्रतापवान् ॥७८॥
दोर्भ्यामुत्क्षिप्य तस्यैव रथ मह्यां व्यचूर्णयत् ।
सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान्॥७९॥
तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् ।
तयैव गदया कामः प्रमर्दनमपोथयत् ॥८०॥
हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद् गजा इव ॥८१॥
सारमेयं यथा दृष्ट्वाविगणो वै पलायते ।
तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता ॥८२॥
क्षतजादिग्धवस्त्रा वै मुक्तकेशा विशोभना ।
रजस्वलेव युवतिः सेना समवगूहते ॥८३॥
मदनशरविभिन्ना सैनिकानभ्ययायाद्
युवतिसदृशवेषा साध्वसैः पीड्यमाना ।
रतिसमरमशक्ता वीक्षितुं सोच्छ्वसन्ती
स्वगृहगमनकामा नेच्छते स्थातुमत्र ॥८४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP