संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
चतुरशीतितमोऽध्यायः

विष्णुपर्व - चतुरशीतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णेन यादवसेनायाः युद्धाय नियुक्तिः, दानवानां निष्क्रमणं, निकुम्भेन केषांचित् यादववीराणां गुहायां बन्धनम्, श्रीकृष्णेन दानवसैनिकानां संहारः, प्रद्युम्नेन राजसैनिकानां गुहायां अवरोधनम् एवं ब्रह्मदत्ताय सान्त्वना

वैशम्पायन उवाच
मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा ॥१॥
बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम् ॥२॥
आवर्तया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ॥३॥
प्रद्युम्नमग्रे सैन्यस्य वियति स्थाप्य मानदः ।
रक्षार्थं यज्ञवाटस्य पाण्डवान् विनियुज्य च ॥४॥
शेषां सेनां गुहाद्वारि भगवान् विनियुज्य च ।
जयन्तमथ सस्मार प्रवरं च सतां गतिः ॥५॥
तावापेतुरेवाथ स्वयं चापश्यतां तथा ।
वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत ॥६॥
ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः ।
जलजा मुरजाश्चैव वाद्यान्येवापराणि च ॥७॥
मकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा ॥८॥
अनाधृष्टिश्च धर्मात्मा पृथुर्विपृथुरेव च ।
कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः ॥९॥
सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ॥१०॥
शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन ॥११॥
षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः ॥१२॥
मकराञ्छिशुमारांश्च द्रुतानपि च भारत ।
महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान् ॥१३॥
एतैरेव रथैर्युक्ता विविधायुधपाणयः ।
किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः ॥१४॥
नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः ॥१५॥
तासामसुरसेनानामुद्यतानां जनेश्वर ।
निकुम्भो निर्ययावग्रे देवानामिव वासवः ॥१६॥
भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः ।
नदन्तो विविधान्नादान् क्ष्वेडन्तश्च पुनः पुनः ॥१७॥
राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थे निश्चिता जनमेजय ॥१८॥
दुर्योधनभ्रातृशतं चेदिराजानुजाग्रगम् ।
स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः ॥१९॥
कठिनानादिनो वीर द्रुपदस्यन्दनास्तथा ।
रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे ।
तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ॥२०॥
शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः ।
जरासंधस्त्रिगर्तश्च विराटश्च सहोत्तरः ॥२१॥
युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर्देवैरिव महासुराः ॥२२॥
ततो निकुम्भः समरे शरैराशीविषोपमैः ।
ममर्द समरे सेनां भैमानां भीमदर्शनाम् ॥२३॥
सेनापतिरनाधृष्टिर्ममृषे तन्न यादवः ।
ममर्द घोरैर्बाणोघैश्चित्रपुङ्खैः शिलाशितैः ॥२४॥
न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः ॥२५॥
स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम् ॥२६॥
स्तम्भयित्वानयद् वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद्वीरो मायाबलमुपाश्रितः ॥२७॥
पुनरेव निकुम्भस्तु कृतवर्माणमाहवे ।
अनयच्चारुदेष्णं च भोजं वैतरणं तथा ॥२८॥
सनत्कुमारमृक्षं च तथैव निशठोल्मुकौ ।
बहूंश्चैवापरान् भोजान् मायाबलसमाश्रितः ॥२९॥
न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान्घोरान् गुहां षट्पुरसंशिताम् ॥३०॥
तद् दृष्ट्वा कदनं घोरं भैमानां भयवर्धनः ।
चुकोप भगवान्कृष्णो बलः सत्यक एव च ॥३१॥
सविशेषं तथा कामः साम्बश्च परवीरहा ।
अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे ॥३२॥
ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।
दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः ॥३३॥
तं दृष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम् ॥३४॥
समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान् ॥३५॥
पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः ।
उत्क्षिप्य च गजान्मत्तान् रथानपि हयानपि ॥३६॥
नारायणाग्निस्तान् सर्वान् ददाह प्रहसन्निव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः ॥३७॥
शारदं वर्षणं यद्वत् सेहे धीरो गवां पतिः ।
तद्वद् यदुवृषः सेहे बाणवर्षमरिंदमः ॥३८॥
न सेहिरे ऽसुरा बाणान्नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा ॥३९॥
न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।
व्यादितास्यस्य सिंहस्य वृषभा इव भारत ॥४०॥
ते वध्यमानाः कृष्णेन दिवमाचक्रमुस्तदा ।
जीविताशां वहन्तस्तु नारायणभयार्दिताः ॥४१॥
तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा ।
निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो ॥४२॥
निपेतुरसुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात् तरोः ॥४३॥
निपेतुर्बाहवश्छिन्ना दैन्यानां वसुधातले ।
कालेनोपहता वीर पञ्चवक्त्रा इवोरगाः ॥४४॥
रौक्मिणेयस्ततः सृष्ट्वा घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः ॥४५॥
गदेन सह धर्मात्मा सारणेन सुतेन च ।
साम्बेन चापरैश्चापि पूर्वं ये न प्रवेशिताः ॥४६॥
प्रमथ्य तरसा कर्णे यतन्तं रणमूर्धनि ।
जग्राह बलवान् कार्ष्णिः प्रस्फुरन्तं ततस्ततः ॥४७॥
विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदावपि ॥४८॥
शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासंधं च भारत ॥४९॥
त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् ।
धृष्टद्युस्नादिकांश्चैव पञ्चालानस्त्रकोविदान् ॥५०॥
तथाह्वृतिमुवाचेदं मातुलं रुक्मिमेव च ।
शिशुपालं च राजानं भगदत्तं च भारत ॥५१॥
सम्बन्धं च गुरुत्वं च मानयामि नराधिपाः ।
गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः ॥५२॥
बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास्ते गुहायामिति धीमता ॥५३॥
आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान् यादवांश्चैव मोक्षयिष्यामि सर्वथा ॥५४॥
इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा ।
शरैस्ततर्द तान् भैमान् प्रद्युम्नं च विशेषतः ॥५५॥
बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरभन्नृपतिं बद्धुं शिशुपालं महाबलम् ॥५६॥
ततः पाशसहस्त्राणि ग्रहाय प्रवरोत्तमः ।
शैलादिरब्रवीद् वीरं रौक्मिणेयं महाबलम् ॥५७॥
बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथा मया ॥५८॥
कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान् नराधिपान् ।
पाशैस्त्वमेव भोक्तुं च प्रमाणं यदुनन्दन ॥५९॥
असुरांस्तु महाबाहो निःशेषान् कर्तुमर्हसि ।
एवमेव च वक्तव्यस्त्वया वीर जनार्दनः ॥६०॥
ततः स भगदत्तं च शिशुपालं च भूमिप ।
आह्वृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान् ॥६१॥
बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् ।
मायामयीं गुहां चैवमानयत् कुरुनन्दन ॥६२॥
बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम् ॥६३॥
तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनापतीन् क्षत्रियांश्च कोशाध्यक्षांश्च भारत ॥६४॥
अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो ॥६५॥
संनद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विस्रब्धं वर्ततां कर्म मा भैः पश्य धनंजयम् ॥६६॥
न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ॥६७॥
न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा ।
यज्ञवाटे निरीक्ष्यन्तां मायया निहिता मया ॥६८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP