विष्णुपर्व - षट्पञ्चाशत्तमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
श्रीकृष्णस्याज्ञया यादवानां द्वारकापुरीं प्रस्थानम्
वैशम्पायन उवाच
कस्यचित्त्वथ कालस्य सभ्यांस्तान् यदुसंसदि ।
बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥१॥
यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।
वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः ॥२॥
तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।
नृपेषु जनितं वैरं जरासंधेन विग्रहः ॥३॥
वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।
रत्नानि च विचित्राणि मित्राणि च बहूनि च ॥४॥
इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥५॥
कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।
एषामपीह वसतां सम्मर्दमुपलक्षये ॥६॥
अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।
पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥७॥
एतद् यदनुरूपं वो ममाभिप्रायजं वचः ।
भवाय भवतां काले यदुक्तं यदुसंसदि ॥८॥
तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।
साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥९॥
ततः सम्मन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥१०॥
कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥११॥
तस्मिंश्चैवान्तरे राजा सकालयवनस्तदा ।
सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥१२॥
ततो जरासंधबलं दुर्निवार्यमभूत् तदा ।
ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥१३॥
केशवः पुनरेवाह यादवान् सत्यसंगरः ।
अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥१४॥
ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।
ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥१५॥
संगृह्य ते कलत्राणि वसुदेवपुरोगमाः ।
सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥१६॥
आहत्य दुन्दुभीन् सर्वे स्वजनज्ञातिबान्धवाः ।
निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥१७॥
स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।
सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥१८॥
स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।
प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥१९॥
ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥२०॥
ते स्म नानालताचित्रं नारिकेलवनायुतम् ।
कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥२१॥
तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।
अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥२२॥
ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।
मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥२३॥
पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा ।
ददर्श विपुलं देशं सागरेणोपशोभितम् ॥२४॥
वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥२५॥
सागरानिलसंवीतं सागराम्बुनिषेवितम् ।
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥२६॥
तत्र रैवतको नाम पर्वतो नातिदूरतः ।
मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥२७॥
तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् ।
प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥२८॥
विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥२९॥
केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥३०॥
ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।
सेनापालांश्च संचक्रुः स्कन्धावारनिवेशनम् ॥३१॥
ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः ।
देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥३२॥
तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥३३॥
एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।
सुखिनो न्यवसन् राजन् स्वर्गे देवगणा इव ॥३४॥
कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ।
जरासंधभयाच्चैव पुरीं द्वारवतीं ययौ ॥३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
N/A
References : N/A
Last Updated : July 19, 2018
TOP