ब्रह्मखण्डः - अध्यायः १

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीवेदव्यासाय नमः

शौनक उवाच-
कलौ समागते सूत प्राणिनां केन कर्मणा
उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः ॥१॥
सूत उवाच-
साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान्
सर्वेषां च जनानां च शुभवाञ्छो निरंतरम् ॥२॥
एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः
पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव ॥३॥
दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम्
गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः ॥४॥
जैमिनिरुवाच-
कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे
अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः ॥५॥
व्यास उवाच-
साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो
हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः ॥६॥
न रोचते कथा भूमौ पापिष्ठाय जनाय वै
वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः ॥७॥
श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः
असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः ॥८॥
यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा
तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित् ॥९॥
कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः
नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि ॥१०॥
ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै
तेषां करस्था नरका बहुक्लेशकराः सदा ॥११॥
जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति
श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि ॥१२॥
भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा
न जाने श्रवणे तस्य का गतिर्वा भविष्यति ॥१३॥
ब्रह्महत्यादिकं पापं अकालमरणं तथा
सुरापानं तथास्तेयं सर्वं नश्यति पापिनः ॥१४॥
पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत्
तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत् ॥१५॥
श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे
तस्य गृहसमीपं हि नायांति यमकिंकराः ॥१६॥
जैमिनिरुवाच-
वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम
इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम् ॥१७॥
व्यास उवाच-
यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज
करोति सेचनं पापी तीर्थस्नानेन तस्य किम् ॥१८॥
साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज
तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च ॥१९॥
यत्रयत्र कुले चैव एको भवति वैष्णवः
कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै ॥२०॥
हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः
लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज ॥२१॥
पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः
अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः ॥२२॥
विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः
एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः ॥२३॥
गायंति हरिनामानि तुलसीमाल्यधारकाः
हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः ॥२४॥
श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम्
कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः ॥२५॥
पाखंडसंगरहिता विप्रद्वेषविवर्जिताः
सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः ॥२६॥
पूजयंति हरिं ये च तुलस्या चार्चयंति ये
कन्यादानरता ये च ये वै ह्यतिथिपूजकाः ॥२७॥
शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः
यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च ॥२८॥
मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः
जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः ॥२९॥
परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये
हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः ॥३०॥
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः
राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः ॥३१॥
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया
परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः ॥३२॥
सूत उवाच-
पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम्
मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम् ॥३३॥
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ॥३४॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे व्यासजैमिनिसंवादे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP