ब्रह्मखण्डः - अध्यायः १२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच-
केन पुण्येन भो सूत चान्येन गतपातकः
नरो याति हरेः स्थानं तद्वदस्वानुकंपया ॥१॥
सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥२॥
पुरा राजा दीननाथो द्वापरे संज्ञके युगे
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥३॥
एकदा गालवं राजा पप्रच्छ विनयान्वितः
केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥४॥
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥५॥
गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः
कथयामि समासेन पुत्रस्योद्भवकारणम् ॥६॥
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम
तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता ॥७॥
राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज
कीदृशं नरमानीय करिष्यामि गुरो वद ॥८॥
गालव उवाच-
सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत्
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥९॥
अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥१०॥
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥११॥
यज्ञार्थे वरयामास समस्तशास्त्रपारगान्
ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥१२॥
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः
कुत्रापि न प्राप्तवंतो गता जनपदं ततः ॥१३॥
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥१४॥
दृष्ट्वा मुह्यंति पुरुषाश्चंद्रमुख्यश्च ता यतः
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥१५॥
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥१६॥
साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरः
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥१७॥
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः ॥१८॥
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥१९॥
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥२०॥
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥२१॥
अभूतां विगतप्राणाविव संशयमानसौ
किं धनेन सुवर्णेन जीवनेनापि सद्मना
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥२२॥
ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम्
आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥२३॥
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति
पुत्रं हित्वा किंतु यूयं वृद्धं मां नयत द्विजम् ॥२४॥
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥२५॥
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा
बद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥२६॥
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥२७॥
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥२८॥
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा
पपात वात्यया सार्द्धं रंभेव भृशदुःखिनी ॥२९॥
मुद्गरं सा समादाय मौलौ चाताडयद्बलात्
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥३०॥
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥३१॥
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥३२॥
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥३३॥
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ
रुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः ॥३४॥
अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किल
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥३५॥
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥३६॥
राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥३७॥
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥३८॥
प्राणा ममापि गच्छंतु सुखी भवतु बालकः
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥३९॥
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः
विमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः ॥४०॥
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥४१॥
संसारे जन्मसंप्राप्य न लब्धं सुखमत्र च
अनेन बालकेनापि मरिष्यति कथं त्वयम् ॥४२॥
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥४३॥
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥४४॥
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥४५॥
स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम्
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥४६॥
तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम्
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥४७॥
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥४८॥
मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥४९॥
इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकः
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥५०॥
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्
गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥५१॥
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥५२॥
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्
पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः ॥५३॥
गतानि चांधभावं वै क्रंदनैर्लोचनान्यपि
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥५४॥
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥५५॥
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥५६॥
पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैः
पीत्वा मुनिं चिरंतं च नमस्कृत्य पुनः पुनः ॥५७॥
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ
अहो मुने जीवदानमावयोः सुकृतं किल ॥५८॥
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥५९॥
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥६०॥
किंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः
सुंदरो राजयोग्यश्च इंदुःक्षीरनिधाविव
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥६१॥
बुभुजे देववद्भूम्यां विशोको जातकौतुकः
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥६२॥
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
पठंति येऽत्र भक्त्या च शृण्वंति विप्रतः कथाम् ॥६३॥
आख्यानं श्लोकमेकं वा गच्छंति विष्णुमंदिरम् ॥६४॥
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे ब्राह्मणपालनं
नाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP